मोक्षोपायटीका · अध्याय 2.14
शास्त्रावबोधामलया धिया परमपूतया । ।
कर्तव्यः कारणज्ञेन विचारो ऽनिशम् आत्मनः ॥
विचारात् तीक्ष्णताम् एत्य धीः पश्यति परं पदम् ।
दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥
आपद्वनम् अनन्तेहापरिपल्लविताकृति °ति(ः) ।
विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥
मोहेषु बन्धुनाशेषु संकटेषु भ्रमेषु च ।
सर्वेष्व् एव महाप्राज्ञ विचारो हि सतां गतिः ॥
न विचारं विना कश्चिद् उपायो ऽस्ति विपच्छमे ।
विचाराद् अशुभं त्यक्त्वा शुभम् आयाति धीः सताम् ॥
बलं बुद्धिश् च तेजश् च प्रतिपत्तिः क्रियाफलम् ।
फलन्त्य् एतानि सर्वाणि विचारेणैव धीमतः ॥
युक्तायुक्तमहादीपम् अभिवाञ्छितसाधकम् ।
स्फारं विचारम् आश्रित्य संसारजलधिं तरेत् ॥
आलूनहृदयाम्भोजं महामोहमतङ्गजम् ।
विदारयति शुद्धात्मा विचारोदारकेसरी ॥
मूढाः कालवशेनेह यद् गताः परमं पदम् ।
तद् विचारप्रदीपस्य विजृम्भितम् अनुत्तमम् ॥
राज्यानि संपदः स्फारो भोगो मोक्षश् च शाश्वतः ।
विचारकल्पवृक्षस्य फलान्य् एतानि राघव °व(ः) ॥
या विवेकविलासिन्यो मतयो महताम् इह ।
न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥
विचारोदयहारिण्या धिया व्यवहरन्ति ये ।
फलानाम् अत्युदाराणां भाजनं हि भवन्ति ते ॥
मूर्खहृत्काननस्थानाम् आशाप्रसररोधिनाम् ।
अविचारकरञ्जानां मञ्जर्यो म[ञ्]ज° दुःखरीतयः ॥
कज्जलक्षोदमलिना मदिरामोदधारिणी ।
अविचारमयी निद्रा यातु ते राघव क्षयम् ॥
महापद्य् अपि दीर्घेषु सद्विचारपरो नरः ।
न निमज्जति मोहेषु तेजोराशिस् °शि⟨*ः*⟩[स्] तमस्स्व् इव ॥
मानसे सरसि स्वच्छे विचारकमलोत्करः ।
नूनं विकसितो यस्य हिमवान् इव भाति सः ॥
विचारविकला यस्य मतिर् मान्द्यम् उपेयुषः ।
तस्योदेत्य् अशनिश् चन्द्रान् मुधा ⟨स्⟩[म्]उ° यक्षः शिशोर् इव ॥
दुःखषण्डकवल्मीकं विपन्नवलतामधुः ।
राम दूरे परित्याज्यो निर्विवेको नराधमः ॥
ये केचन दुरारम्भा दुराचारा दुराधयः ।
अविचारेण ते भान्ति वेतालास् तमसा यथा ॥
अविचारिणम् एकान्तजरद्द्रुमसधर्मकम् ।
अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥
विविक्तं हि मनो जन्तोर् आशावैवश्यवर्जितम् ।
परां निर्वृतिम् अभ्येति पूर्णश् चन्द्र इवात्मनि ॥
विवेकितोदिता देहं सर्वं शीतलयत्य् अलम् ।
अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनम् नवा ॥
परमार्थपताकाया धियो धवलचामरम् ।
विचारो राजते जन्तो रजन्याम् इव चन्द्रमाः ॥
विचारचारवो भावा भासयन्तो दिशो दश ।
भान्ति भास्करवद् भग्नभूयोभवभयामयाः ॥
बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।
रात्रौ तमसि वेतालो विचारेण विलीयते ॥
सर्व एव जगद्भावा अविचारेण °र्⟨अ⟩[ए]ण चारवः ।
अविद्यमानसद्भावा °व्⟨अ⟩[आ] विचारविशरारवः ॥
पुंसो निजमनोमोहकल्पितो ऽनल्पदुःखदः ।
संसारचिरवेतालो विचारेण विलीयते ॥
समस्वच्छं निराबाधम् अनन्तमननाश्रयम् ।
विद्धीमं केवलीभावं विचारो ऽग्रतरोः फलम् ॥
अचलस्थितिनोदारप्रकटाभोगतेजसा ।
तेन निष्कामतोदेति शीततेवोदितेन्दुना ॥
चिन्ताज्वरमहौषध्या साधुश् चित्तनिषण्णया ।
तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥
तत्सदालम्बनं चेतः स्फारम् आभासम् आगतम् ।
नास्तम् एति न चोदेति खम् इवातिततान्तरम् ॥
न जहाति न चादत्ते नोत्ताम्यति न शाम्यति ।
केवलं साक्षिवत् पश्यञ् °श्य⟨ं⟩[ञ्] जगद् आत्मनि तिष्ठति ॥
न च शाम्यति नाप्य् अन्तर् नापि बाह्ये ऽवतिष्ठति ।
न च नैष्कर्म्यम् आदत्ते न च कर्माणि मज्जति ॥
उपेक्षते गतं वस्तु संप्राप्तम् अनुवर्तते ।
न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः ॥
एवंरूपेण मनसा महात्मानो महाशयाः ।
जीवन्मुक्ता जगत्य् अस्मिन् विहरन्ति हि योगिनः ॥
उषित्वा सुचिरं कालं धीरास् ते यावदीप्सितम् ।
तनुम् अन्ते परित्यज्य यान्ति केवलतां तताम् ॥
को ऽहं कस्य च संसार इत्य् आपद्य् अपि धीमता ।
चिन्तनीयं प्रयत्नेन सप्रतीकारम् आत्मना ॥
कार्यसंकटसन्देहं राजा जानाति राघव ।
निष्फलं सफलं वापि विचारेणैव नान्यथा ॥
वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् ।
निर्णीयन्ते विचारेण दीपेनेव भुवो निशि ॥
अनष्टम् अन्धकारेषु बहुतेजस्स्व् अजिह्मितम् ।
पश्यत्य् अपि व्यवहितं विचारश् चारुलोचनम् ॥
विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।
दिव्यचक्षुर् विवेकात्मा जयत्य् अखिलवस्तुषु ॥
परमात्ममयी पाल्या महानन्दैकसाधनी ।
क्षणम् एकं परित्याज्या न विचारचमत्कृतिः ॥
विचारचारुः पुरुषो महताम् अपि रोचते ।
परिपक्वं चमत्कारि सहकारफलं यथा ॥
विचारकान्तमतयो नानेकेषु पुनः पुनः ।
लुठन्ति दुःखश्वभ्रेषु ज्ञातोर्ध्वगतयो नराः ॥
न विरौति तथा रोगी नानर्थशतजर्जरः ।
अविचारविनष्टात्मा यथाज्ञः परिरोदिति ॥
वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् ।
वरम् अन्धगुहाहित्वं न नरस्याविचारिता ॥
सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ।
सर्वदौःस्थित्यसीमान्तम् अविचारं परित्यजेत् ॥
नित्यं विचारयुक्तेन भवितव्यं महात्मना ।
भवान्धकूपे पततां विचारो ह्य् अवलम्बनम् ॥
स्वयम् एवात्मनात्मानम् अवष्टभ्य विचारतः ।
संसारमोहजलधेस् तारयेत् स्वमनोमृगम् ॥
को ऽहं कथम् अयं दोषः संसाराख्य उपागतः ।
न्यायेनेति परामर्शो विचार इति कथ्यते ॥
अन्धान्धमोहमुखरं चिरं दुःखाय केवलम् ।
कृतं शिलाया हृदयं दुर्मतेश् चाविचारिणः ॥
भावाभावग्रहोत्सर्गदृशाम् इह हि राघव ।
न विचाराद् ऋते तत्त्वं ज्ञायते ज्ञ्*आ*(त्त्वाद् विश्रं)यते साधु किंचन ॥
विचाराज् ज्ञायते तत्त्वं तत्त्वाद् विश्रान्तिर् आत्मनि ।
ततो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥
सफलता फलते भुवि कर्मणां प्रकटतां किल गच्छत °त्⟨इ⟩[अ] उत्तमात् ।
स्फुटविचारदृशैव विचारिता शमवते भवते ऽपि विरोचताम् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0