भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 2.16

2.16.1

विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।
सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥

2.16.2

साधुसंगतरोर् जातं विवेककुसुमं शुभम् ।
रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥

2.16.3

शून्यम् आकीर्णताम् एति मृतिर् अप्य् उत्सवायते ।
आपत् संपद् इवाभाति विद्वज्जनसमागमे ॥

2.16.4

हिमम् आपत्सरोजिन्या मोहनीहारमारुतः ।
जयत्य् एको जगत्य् अस्मिन् साधु साधुसमागमः ॥

2.16.5

परं विवर्धनं बुद्धेर् अज्ञानतरुनाशनम् ।
समुत्सारणम् आधीनां विद्धि साधुसमागमम् ॥

2.16.6

विवेकः परमो दीपो जायते साधुसंगमात् ।
मनोहरोज्ज्वलो नूनम् अशोकाद् इव गुच्छकम् ॥

2.16.7

निरामयां निराबाधां निर्वृतिं नित्यपीवरीं नि⟨न्⟩[त्]य° ।
अनुत्तमां प्रयच्छन्ति साधुसंगविभूतयः ॥

2.16.8

अपि कष्टतरां प्राप्तैर् दशां विवशतां गतैः ।
मनाग् अपि न संत्याज्या मानवैः साधुसंगतिः ॥

2.16.9

साधुसंगतयो लोके सन्मार्गशुभदीपकाः ।
हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥

2.16.10

यः स्नातः शीतसितया साधुसंगतिगङ्गया ।
किं तस्य दानैः किं तीर्थैः किं तपोभिः °भि*ः* किम् अध्वरैः ॥

2.16.11

नीरागाश् छिन्नसंदेहा गलितग्रन्थयो गलित⟨गलित⟩° ऽनघ ।
साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥

2.16.12

विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि ।
दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥

2.16.13

सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।
कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥

2.16.14

तेनामलविलासस्य पदस्याग्रावचूलता ।
ग्रथिता येन भव्येन न त्यक्ता साधुसंगतिः ॥

2.16.15

विच्छिन्नग्रन्थयस् तज्ज्ञाः साधवः सर्वसम्मताः ।
सर्वोपायेन सर्व्⟨ए⟩[ओ]पा° संसेव्यास् ते ह्य् उपाया भवाम्बुधौ ॥

2.16.16

त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।
यैर् दृष्टा हेलया सन्तो नरकानलवारिदाः ॥

2.16.17

दारिद्र्यं मरणं दुःखम् इत्यादिविषमो भ्रमः ।
संप्रशाम्यत्य् अशेषेण साधुसंगमभेषजैः ॥

2.16.18

संतोषः साधुसंगश् च विचारो ऽथ शमस् तथा ।
एत एव भवाम्भोधाव् उपायास् तरणे नृणाम् ॥

2.16.19

संतोषः परमो लाभः सत्संगः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखं ॥

2.16.20

चत्वार एते विमला उपाया भवभेदने ।
यैर् अभ्यस्तास् त उत्तीर्णा मोहवारेर् भवार्णवात् ॥

2.16.21

एकस्मिन्न् एव चैतेषाम् अभ्यस्ते विमलोदये ।
चत्वारो ऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥

2.16.22

एको ऽप्य् एको ऽपि सर्वेषां एषां प्रसवभूर् इव ।
सर्वसंसिद्धये तस्माद् यत्नेनैकं समाश्रयेत् ॥

2.16.23

सत्समागमसंतोषविचारास् त्व् अविचारितम् ।
प्रवर्तन्ते शमस्वच्छे वहनानीव सागरे ॥

2.16.24

विचारसंतोषशमाः सत्समागमशालिनि ।
प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥

2.16.25

विचारशमसत्संगाः संतोषवति मानवे ।
प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या सौन्द[र्]या° गुणा इव ॥

2.16.26

सत्संगसंतोषशमा विचारवति सन्मतौ ।
प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥

2.16.27

तस्माद् एकतमं नित्यम् एतेषां रघुनन्दन ।
पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद् गुणम् ॥

2.16.28

परं पौरुषम् आश्रित्य जित्वा चित्तमतङ्गजम् ।
यावद् एको गुणो नाप्तस् तावन् नास्त्य् उत्तमा गतिः ॥

2.16.29

पौरुषेण प्रयत्नेन दन्तैर् दन्तान् विचूर्णयन् ।
यावन् नाभिनिविष्टं ते मनो राम गुणार्जने ॥

2.16.30

देवो भवाथ यक्षो वा पुरुषः पादपो ऽथ वा ।
तावत् तव महाबाहो नोपायो ऽस्तीह कश्चन ॥

2.16.31

एकस्मिन्न् एव फलिते गुणे बलम् उपागते ।
क्षीयन्ते सर्व एवाशु दोषा द्⟨ए⟩[ओ]षा विषदचेतसः ॥

2.16.32

गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः ।
दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥

2.16.33

मनोमहावने ह्य् अस्मिन् वेगिनी वासनासरित् ।
शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥

2.16.34

सा हि स्वेन प्रयत्नेन यस्मिन्न् एव निपात्यते ।
कूले तेनैव वहति यथेच्छसि तथा कुरु ॥

2.16.35

पुरुषयत्नजवेन मनोवने शुभतटानुगतां क्रमशः कुरु ।
वरमते निजभावमहानदीम् इह हि तेन मनाग् अपि नोह्यसे ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc