मोक्षोपायटीका · अध्याय 1.31
वदत्य् एवम् मनोमोहविनिवृत्तिकरं वचः ।
रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके ॥
सर्वे बभूवुस् तत्रस्था विस्मयोत्फुल्ललोचनाः ।
धृताम्बरा देहरुहैर् गिरः श्रोतुम् इवोद्गतैः ॥
विरामवासनापास्तसमस्तभववासनाः ।
मुहूर्तम् अमृताम्भोधिवीचीविलुलिता न्11, श्4: °वीचीर् वि° इव ॥
ता गिरो रामभद्रस्य तस्य चित्रार्पितैर् इव ।
संश्रुताः शृणुकैर् न्11, श्4: शृण्व° अन्तर् आनन्दपरिपीवरैः ॥
वसिष्ठविश्वामित्राद्यैर् मुनिभिः संसदि स्थितैः ।
जयन्तघृष्टिप्रमुखैर् मन्त्रिभिर् मन्त्रकोविदैः ॥
नृपैर् दशरथप्रख्यैः पौरैः पारशवादिभिः ।
सामन्तै राजपुत्रैश् च ब्राह्मणैर् ब्रह्मवादिभिः ॥
तथा भृत्यैर् अमात्यैश् च पञ्जरस्थैश् च पक्षिभिः ।
क्रीडामृगैर् गतस्पन्दैस् तुरङ्गैर् गतचर्वणैः ॥
कौसल्याप्रमुखैश् चैव निजवातायनस्थितैः ।
संशान्तभूषणारावैर् अस्पन्दैर् वनितागणैः ॥
उद्यानवल्लीनिलयैर् विटङ्कनिलयैर् अपि ।
अक्षुब्धपक्षततिभिर् विहगैर् विरतारवैः ॥
सिद्धैर् नभश्चरैश् चैव तथा गन्धर्वकिन्नरैः ।
नारदव्यासपुलहप्रमुखैर् मुनिपुङ्गवैः ॥
अन्यैश् च देवदेवेशविद्याधरमहोरगैः ।
रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥
अथ तूष्णीं स्थितवति रामे राजीवलोचने ।
तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे श्4: °स्मिन्न् अम्बु° ॥
साधुवादगिरा सार्धं सिद्धसार्थसमीरिता ।
वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह ॥
मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी ।
मदिरामोदसौन्दर्यमुदितोन्मदमानवा ॥
व्योमवातविनुन्नेव तारकाणाम् परम्परा ।
पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा ॥
वृष्टिष्व् एकशरन्मेघलवावलिर् इव च्युता ।
हैयङ्गवीनपिण्डानाम् न्11, श्4: हैय्य° ईरितेव परम्परा ॥
हिमवृष्टिर् इवोदारा मुक्ताहारचयोपमा ।
ऐन्दवीरश्मिमालेव क्षीरोर्मीणाम् इवाततिः ॥
किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका ।
सीत्कारगायदामोदमधुरानिलदोलिता ॥
प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा ।
प्रपतत्कुन्दवलया वलत्कुवलयालया ॥
आपूरिताङ्गनारामगृहच्छादनचत्वरा ।
उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता ॥
निरभ्रोत्पलसङ्काशव्योमवृष्टिर् अनाकुला ।
अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥
अदृष्टपूर्वसिद्धौघकरोत्करसमीरिता ।
सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह ॥
आपूरितसभालोके शान्ते कुसुमवर्षणे ।
इमान् सिद्धगणालापाञ् शुश्रुवुस् न्11: शु(श्रु)श्रु° ते सभागताः ॥
आकल्पं सिद्धसेनासु भ्रमद्भिर् अभितो दिवम् ।
अपूर्वम् अद्य त्व् अस्माभिः श्रुतं श्रुतिरसायनम् ॥
यद् अनेन किलोदारम् उक्तं रघुकुलेन्दुना ।
वीतरागतया तद् धि वाक्पतेर् न्11, श्4: वाक्य° अप्य् अगोचरम् ॥
अहो वत महत् पुण्यम् अद्यास्माभिर् इदं श्रुतम् ।
वचो राममुखोद्भूतम् अमृताह्लादकं धियः ॥
उपशमामृतसुन्दरम् आदराद् अधिगतोत्तमतापदम् एष यत् ।
कथितवान् उचितं रघुनन्दनः सपदि तेन वयम् प्रतिबोधिताः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0