भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.30

1.30.1

प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुलवभङ्गुरे न्11: °लम्बाबु° ।
आयुषीशानशीतांशुकलामृदुनि देहके ॥

1.30.2

केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे ।
वागुरावलये जन्तोः सुहृत्स्वजनसङ्गमे ॥

1.30.3

वासनावातवलितकदाशातडिति स्फुटे ।
मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति ॥

1.30.4

नृत्यत्य् उत्ताण्डवं चण्डे लोले लोभकलापिनि ।
सुविकासिनि सस्फोटम् अनर्थकुटजद्रुमे ॥

1.30.5

क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि ।
अश्रुतस्पन्दसञ्चारे कुतो ऽप्य् उपरिपातिनि ॥

1.30.6

क उपायो गतिः का वा का चिन्ता कः समाश्रयः ।
केनेयम् अशुभोदर्का श्4: °र्को न भवेज् जीविताटवी ॥

1.30.7

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् ।
सुधियस् तुच्छम् अप्य् एतद् यन् न याति नरम्यताम् ॥

1.30.8

अयं हि दग्धसंसारो न्11: °(र)*रो* नीरन्ध्रकलनाकुलः ।
कथं सुस्वादुताम् एति नीरसो मूर्खतां विना ॥

1.30.9

आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् ।
उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी ॥

1.30.10

अपमृष्टमलोदेति क्षालनेनामृतद्युतिः ।
मनश्चन्द्रमसः केन तेन कामकलङ्किनः ॥

1.30.11

दृष्टसंसारगतिना दृष्टादृष्टविनाशिना ।
केन वा व्यवहर्तव्यं संसारवनवीथिषु ॥

1.30.12

रागद्वेषमहारोगा भोगपूर्वातिपूतयः ।
कथं जन्तोर् न बाधन्ते न्11, °4: °ध्यन्ते संसारारण्यचारिणः ॥

1.30.13

कथं च वीरवैराग्नौ पततापि श्4: पति° न दह्यते ।
पावके पारतेनेव रसेन रसशालिना ॥

1.30.14

यस्मात् किल जगत्य् अस्मिन् व्यवहारक्रियां विना ।
न स्थितिः सम्भवत्य् अब्धौ पतितस्याजला यथा ॥

1.30.15

रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता ।
कृशानोर् श्4: °नो दाहहीनेव शिखा नास्तीह सत्क्रिया ॥

1.30.16

मनोमननमानिन्याः सतापाभुवनत्रये ।
क्षययुक्तिं विना नास्ति ब्रूत ताम् अलम् उत्तमाः ॥

1.30.17

व्यवहारवतो युक्त्या दुःखं नायाति मे यया ।
अथ वाव्यवहारस्य ब्रूत तां गतिम् उत्तमाः ॥

1.30.18

तत् कथं केन वा किं वा कृतम् उत्तमचेतसा ।
पूर्वं येनैति विश्रामम् परमम् पावनम् मनः ॥

1.30.19

यथा जानासि भगवंस् तथा मोहनिवृत्तये ।
ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः ॥

1.30.20

अथ वा तादृशी ब्रह्मन् युक्तिर् यदि न विद्यते ।
न युक्तिम् मम वा कश्चिद् विद्यमानाम् अपि स्फुटम् ॥

1.30.21

स्वयं चैव न चाप्नोमि तां विश्रान्तिम् अनुत्तमाम् ।
तद् अहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥

1.30.22

न भोक्ष्ये न श्4: °क्ष्येव पिबाम्य् अम्बु नाहम् परिदधे ऽम्बरम् ।
करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥

1.30.23

न च तिष्ठामि कार्येषु सम्पत्स्व् आपद्दशासु च ।
न किञ्चिद् अपि वाञ्छामि देहत्यागाद् ऋते मुने ॥

1.30.24

केवलं विगताशङ्को निर्ममो गतमत्सरः ।
मौनम् एवेह तिष्ठामि लिपिकर्मस्व् इवार्पितः ॥

1.30.25

अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम् श्4: °सोच्छ्वासं° ।
सन्निवेशं त्यजामीमम् अनर्थं देहनामकम् ॥

1.30.26

नाहम् अस्य न मे देहः शाम्याम्य् अस्नेहदीपवत् श्4: °यामि स्ने° ।
सर्वम् एव परित्यज्य त्यजामीदं कलेवरम् ॥

1.30.27

इत्य् उक्तवान् अमलशीतकराभिरामो रामो महत्तरविवेकविकासिचेताः ।
तूष्णीम् बभूव पुरतो महतां घनानां केकारवश्रमवशाद् इव नीलकण्ठः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc