भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.29

1.29.1

एवम् अभ्युत्थितानर्थसार्थसङ्कटकोटरम् ।
जगद् आलोक्य निर्मग्नम् मनोमननकर्दमे ॥

1.29.2

मनो मे भ्रमतीवेदं सम्भ्रमश् चोपजायते ।
गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥

1.29.3

अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः ।
शून्यास्पदा न्11: °स्पन्दा बिभेतीह बालेवाल्पबलेश्वरा ॥

1.29.4

विकल्पेभ्यो लुठन्त्य् एताश् चान्तःकरणवृत्तयः ।
श्वभ्रेभ्य इव सारङ्ग्यस् श्4: °रग्यस् तुच्छालम्बविडम्बिताः न्11; श्4: °आलम्भ° ॥

1.29.5

अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे ।
अन्धकूपम् इवापन्ना वराकाश् चक्षुरादयः ॥

1.29.6

नावस्थितिम् उपायाति न च याति यथेप्सितम् ।
चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥

1.29.7

जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा ।
मार्गशीर्षान्तवल्लीव धृतिर् विधुरतां गता ॥

1.29.8

अपहस्तितसर्वार्थम् अनवस्थितिर् आस्थिता ।
गृहीत्वोत्सृज्य चात्मानम् अवस्थितिर् अवस्थिता ॥

1.29.9

चलिताचलितेनान्तर् अवष्टम्भेन मे मतिः ।
दरिद्राच्छिनवृक्षस्य मूलेनेव विडम्ब्यते ॥

1.29.10

चेतश् चञ्चलम् आभोगि भुवनान्तर्विहारि च ।
सम्भ्रमं न जहातीदं स्वविमानम् इवामरः ॥

1.29.11

अतो ऽतुच्छम् अनायासम् अनुपाधि गतभ्रमम् ।
किं तत् स्थितिपदं साधु यत्र शङ्का न विद्यते ॥

1.29.12

सर्वारम्भसमारम्भाः सुजना जनकादयः ।
व्यवहारपरा एव कथम् उत्तमतां गताः ॥

1.29.13

लग्नेनापि किलाङ्गेषु बहुना न्11: °ता बहुमानद ।
कथं संसारपङ्केन पुमान् इह न लिप्यते ॥

1.29.14

कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः ।
महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥

1.29.15

लोभयन्तो भयायैव विषयाभोगभोगिनः ।
भङ्गुराकारविभवाः कथम् आयान्ति भव्यताम् ॥

1.29.16

मोहमातङ्गमृदिता कलङ्ककलितान्तरा ।
परम् प्रसादम् आयाति शेमुषीसरसी कथम् ॥

1.29.17

संसार एव निवसञ् जनो व्यवहरन्न् अपि ।
न बन्धं कथम् आयाति पद्मपत्त्रे पयो यथा ॥

1.29.18

आत्मवत् तृणवद् वेदं सकलं जनयञ् जगत् ।
कथम् उत्तमताम् न्11: उतुम° एति मनोमन्मथम् अस्पृशन् ॥

1.29.19

कम् महापुरुषम् पारम् उपयातम् भवोदधेः ।
आचारेणानुसृत्यायं न्11: °आनृसृ°; श्4: °आनृसत्या° जनो याति न दुष्कृतम् ॥

1.29.20

किं तद् यद् उचितं श्रेयः किं तत् स्याद् उचितम् फलम् ।
वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥

1.29.21

तत् त्वं कथय मे किञ्चिद् येनास्य जगतः प्रभो ।
वेद्मि पूर्वापरां धातुश् चेष्टितस्यासमस्थितिम् ॥

1.29.22

हृदयाकाशशशिनश् चेतसो मलमार्जनम् ।
यथा मे जायताम् ब्रह्मंस् तथा निर्विघ्नम् आचर ॥

1.29.23

किम् इह स्याद् उपादेयं किं वा हेयम् अथेतरत् ।
कथं विश्रान्तिम् आयातु चेतश् चपलम् अद्रिवत् ॥

1.29.24

केन पावनमन्त्रेण दुःसंसृतिविषूचिका ।
शाम्यतीयम् अनायासम् आयासशतकारिणी ॥

1.29.25

कथं शीतलताम् अन्तर् आनन्दतरुमञ्जरीम् ।
पूर्णचन्द्र इवाक्षीणां राकाम् आसादयाम्य् अहम् ॥

1.29.26

प्राप्यान्तःपूर्णताम् अन्तर् न शोचामि यथा पुनः ।
सन्तो भवन्तस् तत्त्वज्ञास् तथैवोपदिशन्तु माम् ॥

1.29.27

अनुत्तमानन्दपदप्रधान- विश्रान्तिरिक्तं हि मनो महात्मन् ।
कदर्थयन्तीह भृशं विकल्पाः श्वानो वने देहम् इवाल्पजीवम् ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc