भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.28

1.28.1

इति मेधोपदावाग्निदग्धे न्11, श्4: °आग्निर् महति चेतसि ।
प्रस्फुरन्ति न भोगाशा मृगतृष्णाः श्4: °ष्णा सरस्स्व् इव ॥

1.28.2

प्रत्यहं चातिकटुताम् एति संसारसंस्थितिः ।
कालपाकवशोल्लासिरसा निम्बलता यथा ॥

1.28.3

वृद्धिम् आयाति दौर्जन्यं सौजन्यं याति तानवम् ।
करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि ॥

1.28.4

भज्यते भुवि मर्यादा झगित्य् एव दिशम् प्रति ।
शुष्केव माषशिमिका टाङ्कारकठिनारवम् ॥

1.28.5

राज्येभ्यो भोगपूगेभ्यश् चिन्तावन्तो महीश्वराः श्4: महेश्° ।
निरस्तचिन्ताकलिका वरम् एकान्तशीलता ॥

1.28.6

नानन्दाय ममोद्यानं न सुखाय मम श्रियः ।
न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥

1.28.7

अनित्यश् चासुखो लोकस् तृष्णा तात दुरुत्सहा ।
चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥

1.28.8

नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् ।
यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥

1.28.9

किम् मे राज्येन किम् भोगैः किम् अर्थेन किम् ईहितैः ।
अहङ्कारवशाद् एतत् स एव गलितो मम ॥

1.28.10

जन्मावलिवरत्रायाम् इन्द्रियग्रन्थयो दृढाः ।
ये लग्नास् तद्विमोक्षार्थं ये यतन्ते त उत्तमाः ॥

1.28.11

दलितम् मानिनीलोकैर् मनो मकरकेतुना न्11: °नाः ।
कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥

1.28.12

अद्य चेत् स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते ।
भूयश् चित्तचिकित्सायां कः किलावसरः न्11: °र्(आ)अः कुतः ॥

1.28.13

विषं विषयवैषम्यं न विषं विषम् उच्यते ।
जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥

1.28.14

न सुखानि न दुःखानि न मित्राणि न बन्धवः ।
न जीवितं न मरणम् बन्धाय ज्ञस्य चेतसः ॥

1.28.15

तद् भवामि यथा ब्रह्मन् पूर्वापरविदां वर ।
वीतशोकभयायासो श्4: °सौ ज्ञस् तथोपदिशाशु मे ॥

1.28.16

वासनाजालवलिता दुःखकण्टकसङ्कटा न्11: °कण्टसं° ।
निपातोत्पातबहला भीमरूपाज्ञताटवी ॥

1.28.17

क्रकचोग्रविनिष्पेषं सोढुं शक्तो ऽस्म्य् अहम् मुने ।
संसारव्यवहारोत्थं नाशाविषमवैशसम् ॥

1.28.18

इदं नास्तीदम् अस्तीति व्यवहारिजनभ्रमः ।
धुनोतीदं चलं चेतो रजोराशिम् इवानिलः ॥

1.28.19

तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् ।
चिदच्छाङ्गतया नित्यम् प्रकटं चित्तनायकम् श्4: चित° ॥

1.28.20

संसारहारम् अरतिः कालव्यालविभूषणम् ।
त्रोटयाम्य् अहम् अक्रूरां वागुराम् इव केसरी ॥

1.28.21

नीहारं हृदयाटव्याम् मनस्तिमिरम् आशु मे ।
केनचिज् ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥

1.28.22

विद्यन्त एवेह न ते महात्मन् दुराधयो न क्षयम् आप्नुवन्ति ।
ये सङ्गमेनोत्तममानसानां निशातमांसीव निशाकरेण ॥

1.28.23

आयुर् वायुविघट्टिताब्जपटलीलम्बाम्बुवद् भङ्गुरम् भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः न्11, श्4: °विलसा° ।
लोलो यौवनलालनाजलरयश् चेत्य् आकलय्य द्रुतम् मुद्रैवाद्रिदृढार्पिता न्11: °र्पितां ननु मया चित्ते चिरं शान्तये ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc