भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.27

1.27.1

यच् चेदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
तत् सर्वम् अस्थिरम् ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥

1.27.2

शुष्कसागरसङ्काशो निखातो यो ऽद्य दृश्यते ।
स प्रातर् अभ्रसंवीतो नगः सम्पद्यते मुने ॥

1.27.3

यो वनव्यूहविस्तीर्णो विलीढगगनो ऽचलः ।
दिनैर् एव स यात्य् उर्वीसमतां कूपतां च वा ॥

1.27.4

यद् अङ्गम् अद्य संवीतं कौशेयस्रग्विलेपनैः ।
दिगम्बरं तद् एव श्वो दूरे विशरितावटे ॥

1.27.5

यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् ।
तत्रैवोदेति दिवसैः संशून्यारण्यधन्वता ॥

1.27.6

यः पुमान् अद्य तेजस्वी मण्डलान्य् अधितिष्ठति ।
स भस्मकूटतां राजन् दिवसैर् अधिगच्छति ॥

1.27.7

अरण्यानी महाभीमा या नभोमण्डलोपमा ।
पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥

1.27.8

या लतावलिता भीमा भात्य् अद्य विपिनावली ।
दिवसैर् एव सा याति मुने मरुमहीपदम् ॥

1.27.9

सलिलं स्थलतां याति स्थली भवति वारिभूः ।
विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥

1.27.10

अनित्यं यौवनम् बाल्यं शरीरं द्रव्यसञ्चयाः ।
भावाद् भावान्तरं यान्ति तरङ्गवद् अनारतम् ॥

1.27.11

वातात्तदीपकशिखालोलं जगति जीवितम् ।
तडित्स्फुरणसङ्काशा पदार्थश्रीर् जगत्त्रये ॥

1.27.12

विपर्यासम् इयं याति भूरिभूतपरम्परा ।
बीजराशिर् इवाजस्रम् प्रथमानः पुनः पुनः ॥

1.27.13

मनःपवनपर्यस्तभूरिभूतरजःपटा न्11: °टाः; श्4: °टः ।
पातोत्पातपरावर्तवराभिनयभूषिता ॥

1.27.14

आलक्ष्यते स्थितिर् इयं जागती जनितभ्रमा ।
नृत्तावेशविवृत्तेव संसारारभटीनटी ॥

1.27.15

गन्धर्वनगराकारविपर्यासविधायिनी ।
अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥

1.27.16

तडित्तरलम् आलोकम् आतन्वाना पुनः पुनः ।
संसाररञ्जना ब्रह्मन् नृत्तमत्तेव राजते ॥

1.27.17

दिवसास् ते महान्तस् ते संपदस् ताः क्रियाश् च ताः ।
सर्वं स्मृतिपदं यातं यामो वयम् अपि क्षणात् ॥

1.27.18

प्रत्यहं क्षयम् आयाति प्रत्यहं जायते पुनः ।
अद्यापि हतरूपाया नान्तो ऽस्या दग्धसंसृतेः ॥

1.27.19

तिर्यक्त्वम् पुरुषा यान्ति तिर्यञ्चो श्4: तिरञ्° नरताम् अपि ।
देवाश् चादेवतां श्4: च दे° चैते किम् एवेह विभो स्थिरम् ॥

1.27.20

रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः ।
अतिवाह्य रविः कायं श्4: काय° विनाशावधिम् ईक्षते ॥

1.27.21

ब्रह्मा विष्णुश् च रुद्रश् च सर्वा वा भूतजातयः ।
नाशम् एवानुधावन्ति सलिलानीव वाडवम् ॥

1.27.22

द्यौः क्षमा वायुर् आकाशम् पर्वताः सरितो दिशः ।
विनाशवाडवस्यैतत् श्4: °स्येतत् सर्वं संशुष्कम् इन्धनम् ॥

1.27.23

धनानि बन्धवो भृत्या मित्राणि विभवाश् च ये ।
विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥

1.27.24

स्वदन्ते तावद् एवैते भावा जगति धीमतः ।
यावत् स्मृतिपथं याति न विनाशकुराक्षसः ॥

1.27.25

क्षणम् ऐश्वर्यम् आयाति क्षणम् एति दरिद्रता ।
क्षणं विगतरोगत्वं क्षणम् आगतरोगता ॥

1.27.26

प्रतिक्षणं विपर्यासदायिना महतामुना ।
जगद्भ्रमेण के नाम धीमन्तो ऽपि न मोहिताः ॥

1.27.27

तमःपङ्कसमालब्धं क्षणम् आकाशमण्डलम् ।
क्षणं कनकनिःष्यन्दकोमलालोकसुन्दरम् श्4: °निष्यन्द° ॥

1.27.28

क्षणं जलदनीलाब्जमालावलितकोटरम् ।
क्षणम् उड्डामररवं क्षणम् मूकम् अवस्थितम् ॥

1.27.29

क्षणं ताराविलसितं क्षणम् अर्केण भूषितम् ।
क्षणम् इन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥

1.27.30

आगमापायपरया स्थित्या संस्थितनाशया ।
न बिभेतीह संसारे धीरो ऽपि क इवानया ॥

1.27.31

आपदः क्षणम् आयान्ति क्षणम् आयान्ति सम्पदः ।
क्षणं जन्माथ मरणम् मुने किम् इव न क्षणम् ॥

1.27.32

प्राग् आसीद् अन्य एवेह तातस् त्व् अन्येतरो दिनैः ।
अप्य् एकरूपम् भगवन् किञ्चिद् अस्ति न सुस्थितम् श्4: °स्थि(र)*त*म् ॥

1.27.33

घटस्य पटता दृष्टा पटस्यापि घटस्थितिः ।
न तद् अस्ति न यद् दृष्टं विपर्यस्यति संसृतौ न्11, श्4: °तिः ॥

1.27.34

अशूरेण हतः शूर एकेनापि शतं हतम् ।
प्राकृताः प्रभुतां याताः सर्वम् आवर्तते जगत् ॥

1.27.35

जनतेयं विपर्यासम् अजस्रम् अनुगच्छति ।
जडस्पन्दपरामर्शात् तरङ्गानाम् इवावली ॥

1.27.36

बाल्यम् अद्य दिनैर् एव यौवनश्रीस् ततो जरा ।
देहे ऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥

1.27.37

क्षणम् आनन्दिताम् एति क्षणम् एति विषादिताम् ।
क्षणम् सौम्यत्वम् आयाति सर्वस्मिन् नटवन् मनः ॥

1.27.38

इतश् चान्यद् इतश् चान्यद् इतश् चान्यद् अयं विधिः ।
रचयन् वस्तु नायाति खेदं लीलास्व् इवार्भकः ॥

1.27.39

चिनोत्य् उन्मादयत्य् अत्ति निहन्त्य् आहन्ति चात्मसात् ।
जगज्जातम् इदं धाता पातोत्पातशतैर् इह ॥

1.27.40

क्षणेनान्यद् दिनेनान्यत् प्रातर् अन्यद् इतस् ततः ।
रचयन् वञ्चनादक्षो विधिर् दृष्टो न केनचित् ॥

1.27.41

यद् अद्य तत् तु न प्रातर् यत् प्रातस् तत् तु नाद्य च ।
यद् अन्यदा तु तन् नाद्य सर्वम् आवर्ततेतराम् ॥

1.27.42

सन्ततानीह दुःखानि सुखानि विरलानि च ।
सततं रात्र्यहानीव विवर्तन्ते नरम् प्रति ॥

1.27.43

आविर्भावतिरोभावभागिनो श्4: °भाविनो भवभाविनः ।
जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥

1.27.44

पदात् पदम् अयम् पापः सर्वम् आपदि पातयन् ।
हेलाविवलिताशेषः खलः श्4: खल° काललवः स्थितः ॥

1.27.45

समविषमदशाविपाकभिन्नास् त्रिभुवनभूतपरम्पराफलौघाः ।
समयपवनपातिताः पतन्ति प्रतिदिनम् आततसंसृतिद्रुमेभ्यः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc