मोक्षोपायटीका · अध्याय 1.26
अन्यच् न्11: अन्यश् च तातातितराम् अरम्ये मनोरमे वेह जगत्स्वरूपे ।
न किञ्चिद् अप्य् एति तद् अर्थजातं येनातिविश्रान्तिम् उपैति चेतः ॥
बाल्ये गते कल्पितकेलिलोले वयोमृगे दारदरीषु कीर्णे ।
शरीरके जर्जरताम् प्रयाते विदूयते केवलम् एव लोकः ॥
जरातुषाराभिहतां शरीर- सरोजिनीं दूरतरे विहाय ।
क्षणाद् गते जीवितचञ्चरीके जनस्य संसारसरो विशुष्कम् ॥
यदा यदा पाकम् उपैति नूनं तदा तदेयं नवम् आतनोति ।
जराभरानल्पनवप्रसूनं विजर्जरा कायलता नराणाम् ॥
तृष्णानदी सारतरप्रवाह- ग्रस्ताखिलानन्तपदार्थजाता ।
तटस्थसन्तोषसुवृक्षमूल- निकाषदक्षा वहतीह लोके ॥
शरीरनौश् चर्मनिबद्धबन्धा भवाम्बुधाव् श्4: °धौ वा° आलुलिता भ्रमन्ती ।
प्रव्रोड्यते पञ्चभिर् इन्द्रियाख्यैर् अधो वहन्ती मकरैर् अधीना ॥
तृष्णालताकाननचारिणो ऽमी शाखाशतं काममहीरुहेषु ।
परिभ्रमन्तः क्षपयन्ति कामम् मनोमृगा नो फलम् आप्नुवन्ति ॥
कृच्छ्रेषु दूरास्तविषादमोहाः स्वाम्येष्व् अनुत्सिक्तमनोःभिरामाः ।
सुदुर्लभाः सम्प्रति सुन्दरीभिर् अनाहतान्तःकरणा महान्तः ॥
तरन्ति मातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः ।
शूरास् त एवेह मनस्तरङ्गं ये स्वेन्द्रियाम्भोधिम् इमं श्4: इमे तरन्ति ॥
अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिद् एव काचित् ।
क्रिया दुराशाहतचित्तवृत्तेर् याम् एत्य विश्रान्तिम् उपैति लोकः ॥
कीर्त्या जगद् दिक्कुहरम् प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् ।
ये पूरयन्त्य् अक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥
अप्य् अन्तरस्थं गिरिशैलभित्तेर् वज्रालयाभ्यन्तरसंस्थितं वा ।
सर्वं समायान्ति समिद्धवेगाः सर्वाः श्रियः सन्ततम् आपदश् च ॥
पुत्राश् च दाराश् च धनं च बुद्ध्या प्रकल्प्यते तात रसायनं च ।
सर्वं तु तन् नाम करोत्य् अथान्ते यत्रातिरम्या विषमूर्छनैव ॥
विषादयुक्तो विषमाम् अवस्थाम् उपागतः कायवयोऽवसाने ।
भावान् स्मरन् स्वान् श्4: सरस्वान् अभिधर्मरिक्ताञ् जनो जरावान् अभिदह्यते ऽन्तः ॥
कामार्थधर्माप्तिकृशान्तराभिः क्रियाभिर् आदौ दिवसानि नीत्वा ।
चेतश् चलद्बर्हिणपिञ्छलोलं श्4: °पिच्छ° विश्रान्तिम् आगच्छतु केन पुंसाम् श्4: पुसाम् ॥
पुरोगतैर् अप्य् अनवाप्तरूपैस् तरङ्गिणीतुङ्गतरङ्गकल्पैः ।
क्रियाफलैः दैववशाद् उपेतैर् विडम्ब्यते भिन्नरुचिर् हि लोकः ॥
इमान्य् अमूनीति विभावितानि न्11: विभाविभावितानि कार्याण्य् अपर्यन्तमनोरमाणि ।
जनस्य जायाजनरञ्जनेन जटाजरान्तं जरयन्ति चेतः ॥
पर्णानि शीर्णानि यथा तरूणां समेत्य जन्माशु लयम् प्रयान्ति ।
तथैव लोकाः स्वविवेकहीनाः समेत्य गच्छन्ति कुतो ऽप्य् अहोभिः ॥
इतस् ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने ।
विवेकिलोकाश्रयिसाधुकर्म- रिक्ते ऽह्नि याते क उपैति निद्राम् ॥
विद्राविते शत्रुजने समस्ते समागतायाम् अभितश् च लक्ष्म्याम् ।
सेव्यन्त एतानि सुखानि यावत् तावत् समायाति कुतो ऽपि मृत्युः श्4: मृत्तुः ॥
कुतो ऽपि संवर्धिततुच्छरूपैर् भावैर् अमीभिः क्षणदृष्टनष्टैः ।
विलोभ्यमाना जनता जगत्यां न वेत्त्य् उपायातम् अहो न यातम् ॥
यियासुभिः कालमुखं क्रियन्ते जनैडकैस् न्11: जनै(रु)*ड*° ते हतकर्मबन्धाः ।
ये पीनताम् श्4: पीनन° एव बलाद् उपेत्य शरीरबन्धे ननु ते भवन्ति ॥
अजस्रम् आगच्छति सत्वरेयम् अनारतं गच्छति सत्वरैव ।
कुतो ऽपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥
प्राणापहारैकपरा नराणाम् मनो मनोहारितया हरन्ति ।
रक्तच्छदाः षट्पदचञ्चलाक्ष्यो विषद्रुमालोललताः स्त्रियश् च ॥
इतो ऽन्यतश् चोपगता मुधैव समानसङ्केतनिबन्धभावा ।
यात्रासमासङ्गसमा न्11: य्*आ*त्रा° नराणां कलत्रमित्रव्यवहारमाया ॥
प्रदीपशान्तिष्व् इव भुक्तभूरि- दशास्व् अतिस्नेहनिबन्धनीषु ।
संसारमायासु चलाचलासु न ज्ञायते तत्त्वम् अतात्त्विकीषु ॥
संसारसंरम्भकुचक्रिकेयम् प्रावृट्पयोबुद्बुदभङ्गुरापि ।
असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययम् आतनोति ॥
शोभोज्ज्वला दैन्यवशाद् विनष्टा गुणाः स्थिताः सम्प्रति जर्जरत्वे ।
आश्वासना दूरतरम् प्रयाता न्11, श्4: °यातां जनस्य हेमन्त इवाम्बुजस्य ॥
पुनः पुनर् दैववशाद् उपेत्य स्वदेहभारेण कृतापकारः ।
विलूयते यत्र तरुः कुठारैर् आश्वासने तत्र हि कः प्रसङ्गः ॥
मनोरमस्याप्य् अतिदोषवृत्तेर् अन्तर् विघाताय समुत्थितस्य ।
विषद्रुमस्येव जनस्य सङ्गाद् आसाद्यते सम्प्रति मूर्च्छनैव ॥
कास् ता दृशो श्4: दृश्यो यासु न सन्ति दोषाः कास् ता दिशो यासु न दुःखदाहः ।
कास् ताः प्रजा यासु न भङ्गुरत्वं कास् ताः क्रिया यासु न नाम माया ॥
कल्पाभिधानक्षणजीविनो ऽपि कल्पौघसङ्ख्याकलने विरिञ्चाः ।
अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियो ऽप्य् असत्याः ॥
सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिर् एव वृक्षाः ।
मांसैर् जनाः पौरुषबद्धभावा नापूर्वम् अस्तीह विकारहीनम् ॥
आलोक्यते चेतनयानुविद्धः पयोनिबद्धो ऽणुचयो नभःस्थः ।
पृथग्विभागेन पदार्थलक्ष्म्या एतज् न्11: (जा)*ए*तज् जगन् नेतरद् अस्ति किञ्चित् ॥
चमत्कृतिश् चेह मनस्विलोके चेतश्चमत्कारकरी नराणाम् ।
स्वप्ने ऽपि साधो विषयं कदाचित् केषाञ्चिद् अप्य् एति न चित्ररूपा ॥
अद्यापयाते त्व् अपि कल्पनाया आकाशवल्लीफलवन्महत्त्वे ।
उदेति नालोभलवाहतानाम् उदारवृत्तान्तमयी कथैव ॥
आदातुम् इच्छन् पदम् उत्तमानां स्वचेतसैवोपहतो ऽद्य लोकः ।
पतत्य् अशङ्कम् पशुर् अद्रिकूटाद् आनीलवल्लीदलवाञ्छयेव ॥
अवान्तरन्यस्तनिरर्थकांस- च्छायालतापत्त्रफलप्रसूनाः श्4: °र्थकासच्° ।
शरीर एव क्षतसम्पदश् च श्वभ्रद्रुमा अद्यतना नराश् च ॥
क्वचिज् जना मार्दवसुन्दरेषु क्वचित् करालेषु च श्4: ओम्. सञ्चरन्ति ।
दशान्तरालेषु निरन्तरेषु वनान्तषण्डेष्व् श्4: वन्तान्त° इव कृष्णशाराः ॥
धातुर् नवानि दिवसम् प्रति भीषणानि रम्याणि चावलुलिताखिलमानवानि ।
कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शठस्य मनांसि केषाम् ॥
जनः कामासक्तो विविधकुकलावेदनपरः समः स्वप्ने ऽप्य् अस्मिञ् जगति सुलभो नाद्य सुजनः ।
क्रिया दुःखासङ्गाद् विधुरविधुरा नूनम् अखिला न जाने नेतव्या न्11: न्(ई)*ए*त° कथम् इव दशा जीवितमयी ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0