भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.24

1.24.1

अत्रैव दुर्विलासानां चूडामणिर् इवापरः ।
करोत्य् अस्तीति लोकेन दैवं कालश् च कथ्यते ॥

1.24.2

क्रियामात्राद् ऋते यस्य स्वपरिस्पन्दरूपिणः ।
नान्यद् आलक्ष्यते रूपं कर्मणो न समीहितम् ॥

1.24.3

तेनेयम् अखिला भूतसन्ततिर् नित्यपेलवा ।
तापेन हिममालेव नीता विधुरताम् न्11: °रिताम् भृशम् ॥

1.24.4

यद् इदं दृश्यते किञ्चिज् जगदाभोगिमण्डलम् ।
तत् तस्य नर्तनागारम् इहासाव् अभिनृत्यति ॥

1.24.5

तृतीयं च कृतान्तेति नाम बिभ्रत् सुदारुणम् ।
कापालिकवपुर् मत्तं दैवं जगति नृत्यति ॥

1.24.6

नृत्यतो हि कृतान्तस्य नितान्तम् अविरागिणः ।
नित्यं नियतिकान्ताया मुने परमकामिनः ॥

1.24.7

शेषः शशिकलाशुभ्रो गङ्गावाहश् च तौ त्रिधा ।
उपवीते अवीताभे उभे संसारवक्षसि ॥

1.24.8

चन्द्रार्कमण्डले हेमकटके करमूलयोः ।
लीलासरसिजं हस्ते ब्राह्मम् ब्रह्माण्डकर्णिकम् श्4: °र्णिकाम्; न्11: °र्णिक्(आ)अम् ॥

1.24.9

ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् ।
एकार्णवपयोधौतम् न्11: °पयौधौ° एकम् अम्बरम् अम्बरम् ॥

1.24.10

एवंरूपस्य तस्याग्रे नियतिर् नित्यकामिनी ।
अनस्तमितसंरम्भम् आरम्भैः परिनृत्यति ॥

1.24.11

तस्या नर्तनलोलाया जगन्मण्डपकोटरे ।
अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥

1.24.12

चारुभूषणम् अङ्गेषु देवलोकान्तरावली ।
आपातालं नभो लम्बं कवरीमण्डलम् बृहत् ॥

1.24.13

नरकाली च मञ्जीरमाला कलकलाकुला ।
प्रोता दुष्कृतसूत्रेण पातालचरणे चला ॥

1.24.14

कस्तूरिकातिलककं क्रियासख्योपकल्पितम् ।
चित्रितं चित्रगुप्तेन यामे वदनपट्टके ॥

1.24.15

कालीरूपम् उपस्थाय कल्पान्तेषु क्रियाकुलम् ।
नृत्यत्य् एषा पुनर् देवी स्फुटच्छैलघनारवम् ॥

1.24.16

पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः ।
नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥

1.24.17

लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः ।
उच्चरच्चारुमन्दारगौरीकवरिचामरैः ॥

1.24.18

उत्ताण्डवाचलाकारभैरवादरतुम्बकैः ।
रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥

1.24.19

शुष्का शरीरखट्वाङ्गभङ्गैर् आपूरिताम्बरम् ।
भाययत्य् आत्मनात्मानम् अपि कृष्णैर् घनासितम् ॥

1.24.20

विश्वरूपशिरश्चक्रचारुपुष्करमालया श्4: °शरश्च° ।
ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते ॥

1.24.21

प्रमत्तपुष्करावर्तडमरूड्डामरारवैः ।
तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥

1.24.22

नृत्यतो ऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः ।
तारकाचन्द्रकाचारुव्योमपिञ्छावचूलिनः श्4: °पिच्छावचूलितः ॥

1.24.23

एकस्मिञ् श्रवणे दीर्घा हिमवान् अस्ति मुद्रिका ।
अपरे ऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥

1.24.24

अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले ।
लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥

1.24.25

इतश् चेतश् च गच्छन्ती विद्युद्वलयवर्णिका ।
अनिलान्दोलिता भाति न्11: °ता(न्)भाति; श्4: °तात्माति° नीरदांशुकपट्टिका ॥

1.24.26

मुसुलैः पट्टिसैः शूलैः प्रासैस् तोमरमुद्गरैः ।
तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैर् इव सम्भृतैः ॥

1.24.27

संसारबन्धनादीर्घे पाशे कालकरच्युते ।
शेषभोगमहासूत्रे प्रोतैर् मालास्य शोभते ॥

1.24.28

जीवोल्लसन्मकरिकारत्नतेजोभिर् उज्ज्वला ।
सप्ताब्धिकङ्कणश्रेणी भुजयोर् अस्य भूषणम् ॥

1.24.29

व्यवहारमहावर्ता सुखदुःखपरम्परा ।
रजःपूर्णा तमःश्यामा रोमाली तस्य राजते ॥

1.24.30

एवम्प्रायां स कल्पान्ते कृतान्तस् ताण्डवोद्भटाम् ।
उपसंहृत्य नृत्येहां सृष्ट्या सह महेश्वरः ॥

1.24.31

पुनर् हास्यमयीं श्4: °मयी नृत्तलीलां सर्वस्वरूपिणीम् ।
तनोतीमां जरादुःखशोकाभिनयभूषिताम् ॥

1.24.32

भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च ।
आचारचारुकलनां च चलाचलां च पङ्काद् यथार्भकजनो रचनाम् अखिन्नः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc