मोक्षोपायटीका · अध्याय 1.23
अस्योड्डामरलीलस्य श्4: °मरस्य ली° दूरास्तसकलापदः ।
संसारे राजपुत्रस्य कालस्याकलितौजसः श्4: कालस्य क° ॥
अस्मिन्न् आचरतो दीनैर् मुग्धैर् भूतमृगव्रजैः ।
आखेटकं जर्जरिते जगज्जङ्गलजालके श्4: °ङ्गजा° ॥
एकदेशोल्लसच्चारुवडवानलपङ्कजा ।
क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥
कटुतिक्ताम्लभूताढ्यैः सदधिक्षीरसागरैः ।
तैर् एव तैः पर्युषितैर् जगद्भिः काल्यवर्तनम् ॥
चण्डी चतुरसञ्चारा सर्वमातृगणान्विता ।
संसारवनविन्यस्तनरैणाकर्षणी वृकी ॥
पृथ्वी करतले पृथ्वी पानपात्री रसान्विता ।
कमलोत्पलकल्हारलोलजालकमालिता ॥
विरावी विकटास्फालो नृसिंहो भुजपञ्जरे ।
सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः ॥
अलाबुवीणामधुरः शरद्व्योमामलच्छविः ।
देवः किल महाकालो लीलाकोकिलबालकः ॥
अजस्रस्फूर्जिताकारो वान्तदुःखशराशनिः ।
अभावनामकोदण्डः परिस्फुरति सर्वतः ॥
अनुत्तमस्फुरितविलासवर्धितो भ्रमन् हरन् परिविलसन् विदारयन् ।
जरज्जगज् जरढविलोलमर्कटः परिस्फुरद्वपुर् इह काल ईहते ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0