भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.22

1.22.1

विकल्पकल्पनानल्पकल्पितैर् अल्पबुद्धिभिः ।
भेदैर् उद्धरतां नीतः संसारकुहकभ्रमः ॥

1.22.2

सतां कथम् इवास्थेह जायते जालपञ्जरे ।
बाला एवात्तुम् इच्छन्ति फलम् मकुरबिम्बितम् ॥

1.22.3

इहापि विद्यते यैषा पेलवा सुखभावना ।
आखुस् तन्तुम् इवाशेषं कालस् ताम् अपि कृन्तति ॥

1.22.4

न तद् अस्तीह यद् अयं कालस् सकलघस्मरः ।
ग्रसते न जगज्जातम् महाब्धिम् इव वाडवः ॥

1.22.5

समस्तसामान्यतया भीमः कालो महेश्वरः ।
दृश्यसत्ताम् इमां सर्वां कवलीकर्तुम् उद्यतः ॥

1.22.6

महताम् अपि नो देवः प्रतिपालयति क्षणात् ।
कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥

1.22.7

युगवत्सरकल्पाख्यैः किञ्चित् प्रकटतां गतः ।
रूपैर् अलक्ष्यरूपात्मा सर्वम् आक्रम्य तिष्ठति ॥

1.22.8

ये रम्या ये शुभारम्भाः सुमेरुगुरवो ऽपि ये ।
कालेन विनिगीर्णास् श्4: निर्वि° ते करभेणेव श्4: °णैव पल्लवाः ॥

1.22.9

निर्दयः कठिनः क्रूरः कर्कशः कृपणो ऽधमः ।
न तद् अस्ति यद् अद्यापि न कालो निगिरत्य् अयम् ॥

1.22.10

कालः कवलनैकान्तमतिर् अत्ति गिरीन् अपि ।
अनन्तैर् अपि भोगौघैर् नायं तृप्तो महाशनः ॥

1.22.11

हरत्य् अयं नाशयति करोत्य् अत्ति निहन्ति च ।
कालः संसारनृत्ये न्11, श्4: °यं हि नानारूपैर् यथा नटः ॥

1.22.12

भिनत्ति प्रविभागस्थो भूतबीजान्य् अनारतम् ।
जगत्य् असत्तया चञ्च्वा दाडिमानि यथा शुकः ॥

1.22.13

शुभाशुभविषाणाग्रविलूनजनपल्लवः ।
स्फूर्जति स्फीतजनताजीवराजीविनीगजः ॥

1.22.14

विरिञ्चमज्जब्रह्माण्डबृहद्विल्वफलद्रुमम् ।
ब्रह्मकाननम् आभोगि परम् आवृत्य तिष्ठति ॥

1.22.15

यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः ।
वर्षकल्पकलावल्लीर् न कदाचन खिद्यते ॥

1.22.16

भिद्यते नावभग्नो ऽपि दग्धो ऽपि हि न दह्यते ।
दृश्यते नातिदृश्यो ऽपि धूर्तचूडामणिर् न्11: धूर्तः मुने ॥

1.22.17

एकेनैव निमेषेण किञ्चिद् उत्थापयत्य् अलम् ।
किञ्चिद् विनाशयत्य् उच्चैर् मनोराज्यवद् आततः ॥

1.22.18

दुर्विलासविलासिन्या चेष्टया न्11: °यया परिपुष्टया ।
दर्व्येव सूपकृत् सूपं जनम् आवर्तयन् श्4: °वत्त° स्थितः ॥

1.22.19

तृणम् श्4: तृण° पांसुम् महेन्द्रं च सुमेरुम् पर्णम् अर्णवम् ।
आत्मस्फारतया सर्वम् आत्मसात्कर्तुम् उद्यतः ॥

1.22.20

क्रौर्यम् अत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता ।
सर्वं दौर्भाग्यम् अत्रैव सर्वम् अत्रैव चापलम् ॥

1.22.21

प्रेरयंल् लीलयार्केन्दू क्रीडतीह नभस्तले ।
निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने ॥

1.22.22

सर्वभूतास्थिमालाभिर् आपादवलिताकृतिः ।
विलसत्य् एष कल्पान्ते कालः कल्पितकल्पनः ॥

1.22.23

अस्योड्डामरनृत्तस्य कल्पान्ते ऽङ्गविनिर्गतैः ।
प्रस्फुरत्य् अम्बरे मेरुर् भूर्जत्वग् इव वायुभिः ॥

1.22.24

रुद्रो भूत्वा भवत्य् एष महेन्द्रो ऽथ पितामहः ।
शुक्रो वैश्रवणश् चापि पुनर् एव न किञ्चन ॥

1.22.25

धत्ते ऽजस्रोत्थितध्वस्तान् सर्गान् अमितभासुरान् ।
अन्यान् अन्यान् अप्य् अनन्यान् वीचीन् अब्धिर् इवात्मनि ॥

1.22.26

महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् ।
देवासुरगणान् पक्वान् फलभारान् अवस्थितः ॥

1.22.27

आलोलभूतमषकघुङ्घुमानाम् प्रपातिनाम् ।
ब्रह्माण्डोडुम्बरौघानाम् बृहत्पादपतां गतः ॥

1.22.28

सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया ।
वपुर् विनोदयत्य् एषः न्11, श्4: एकः क्रियाप्रियतमान्वितः ॥

1.22.29

अनन्तापायपर्यन्तम् बद्धपीठं निजं वपुः ।
महाशैलवद् उत्तुङ्गम् अवलम्ब्य व्यवस्थितः ॥

1.22.30

क्वचिच् छ्यामतमःश्यामं क्वचित् कान्तियुतं ततम् ।
द्वयेनापि क्रमाद् रिक्तं स्वभावम् भावयन् स्थितः ॥

1.22.31

संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया ।
गुर्वीव भारघनया न्11, श्4: गुर्व्येव तार° निबद्धपदतां गतः ॥

1.22.32

न खिद्यते न म्रियते न तिष्ठति न गच्छति ।
नास्तम् एति न चोदेति महाकल्पशतैर् अपि ॥

1.22.33

केवलं जगदारम्भलीलया घनहेलया ।
यापयत्य् आत्मनात्मानम् अनहङ्कारम् आनतम् न्11, श्4: आरु° ॥

1.22.34

यामिनीपङ्ककलिलां दिनकोकनदावलीम् ।
क्रियाभ्रमरिकाम् मन्दं सरःसु आरोपयन् स्थितः ॥

1.22.35

गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् ।
आलोककनकक्षोदम् आहरत्य् अभितो ऽवनिम् ॥

1.22.36

सञ्चारयन् क्रियाङ्गुल्या कोणकेष्व् अर्कदीपिकाम् ।
जगत्सद्मनि कारुण्यात् श्4: °ण्यत् क्व किम् अस्तीति वीक्षते ॥

1.22.37

प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्य् अलम् ।
लोकपालफलान्य् अत्ति जगज्जीर्णवनाद् अयम् ॥

1.22.38

जगज्जीर्णकुटीकीर्णान् अर्पयत्य् उग्रकोटरे श्4: अग्र° ।
क्रमेण गुणवल्लोकमणीन् मृत्युसमुद्गके ॥

1.22.39

गुणैर् आपूर्यते यैव लोकरत्नावली श्4: °वलीं भृशम् ।
भूषार्थम् इव ताम् अङ्गे कृत्वा भूयो निकृन्तति ॥

1.22.40

दिनहंसानुसृतया निशेन्दीवरमालया श्4: निशोन्दी° ।
ताराकेसरयाजस्रं चपलो वलयत्य् अलम् ॥

1.22.41

शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः ।
प्रत्यहम् पिबति प्रेक्ष्य तारारक्तकणान् अपि ॥

1.22.42

तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी ।
न तद् अस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥

1.22.43

कल्पकेलिविलासेन पिष्टपातितजन्तुना ।
न्यग्भावोद्भवहासेन श्4: न्यङ्° रमते स्वात्मनात्मनि ॥

1.22.44

कर्ता भोक्ताथ संहर्ता स्मर्ता न्11, श्4: °हन्ताः सत्ता सर्वम् पदं गतः ।
सर्वम् एव करोतीदं न करोति च किञ्चन ॥

1.22.45

सकलम् अप्य् अकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः न्11: °पु(त्)*ः* ।
प्रकटयन् सहसैव च गोपयन् विलसतीह हि कालबलं नृषु ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc