मोक्षोपायटीका · अध्याय 1.21
अपर्याप्तं हि बालत्वम् बाल्यम् पिबति यौवनम् ।
यौवनं च जरा पश्चात् पश्य कर्कशताम् मिथः ॥
हिमाशनिर् इवाम्भोजं वात्येव शरदम्बुदम् ।
देहं जरा जरयति सरित् तीरतरुं यथा ॥
शिथिलादीर्घसर्वाङ्गं न्11: शिलिला° जराजीर्णकलेवरम् ।
समम् पश्यन्ति कामिन्यः पुरुषं करभं तथा ॥
श्वासायासकदर्थिन्या न्11, श्4: श्वासया° गृहीते जरसा जने ।
पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना ॥
दासाः पुत्राः स्त्रियश् चैव बान्धवाः सुहृदस् तथा ।
हसन्त्य् उन्मत्तकम् इव नरं वार्धककम्पितम् ॥
दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः ।
गृध्रो न्11, श्4: °द्ध्रो वृक्षम् इवादीर्घं गर्धो ह्य् अभ्येति वृद्धताम् ॥
दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी ।
सर्वापदाम् एकसखी वर्धते वार्धके स्पृहा ॥
कर्तव्यं किम् मया कष्टम् परत्रेत्य् अतिदारुणम् ।
अप्रतीकारयोग्यं हि वार्धके वर्धते भयम् ॥
को ऽहं वराकः किम् इव करोमि कथम् एव वा ।
तिष्ठामि मौनम् एवेति दीनतोदेति वार्धके ॥
गर्धो ऽभ्युदेति सोल्लासम् उपभोक्तुं न शक्यते ।
हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥
जराजीर्णबकी °4: °बके यावत् कासक्रेङ्कारकारिणी ।
रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥
तावद् आगत एवाशु कुतो ऽपि परिदृश्यते ।
घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः ॥
सायंसन्ध्याप्रजातैव तमः समनुधावति ।
जरा वपुषि दृष्टैव मृतिं समनुधावति श्4: समुनु° ॥
जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः ।
मृतिभृङ्गी द्रुतम् ब्रह्मन् नरस्यायाति सूत्सुका ॥
शून्यं नगरम् आभाति श्4: आया° भाति च्छिन्नलतो द्रुमः ।
भात्य् अनावृष्टिमान् देशो न जराजर्जरं वपुः ॥
क्षणान् निगिरणायैव कासक्वणितकारिणी ।
गृध्रीवामिषम् न्11, श्4: °द्ध्री° आदत्ते न्11, श्4: आध° तरसैव नरं जरा ॥
दृष्ट्वैव सूत्सुकेवाशु प्रगृह्य शिरसि क्षणात् ।
प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥
सीत्कारकारिणी पांसुपरुषा परिजर्जरम् ।
शरीरं शातयत्य् एषा वात्येव तरुपल्लवम् ॥
जरसोपहतो देहो धत्ते जर्जरतां गतः ।
तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् श्4: °कीर्णं ॥
जराज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः ।
विकासयति संरब्धवातां कासकुमुद्वतीम् ॥
परिपक्वं समालोक्य जराक्षारविधूसरम् ।
शिरःकुष्माण्डकम् श्4: °के भुङ्क्ते पुंसः कालः किलेश्वरः ॥
जराजह्नुसुतोद्युक्ता मूलान्य् अस्य निकृन्तति ।
शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम् ॥
जरामार्जारिका भुक्तयौवनाखुतयेन्धिता न्11, श्4: °एधि° ।
परम् उल्लासम् आयाति शरीरामिषगर्धिनी ॥
काचिद् अस्ति जगत्य् अस्मिन् नामङ्गलकरी तथा ।
यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥
कासश्वासससीत्कारा दुःखधूमतमोमयी ।
जराज्वाला ज्वलत्य् एषा ययासौ दग्ध एव हि ॥
जरसा श्4: जारा° वक्रताम् एति शुक्लावयवपल्लवा ।
तात तन्वी तनुर् नॄणां लता पुष्पानता यथा ॥
जराकर्पूरधवलं देहकर्पूरपादपम् ।
मुने मरणमातङ्गो नूनम् उद्धरति क्षणात् ॥
मरणस्य मुने राज्ञो जराधवलचामरा ।
आगच्छतो ऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥
न जिताः शत्रुभिः सङ्ख्ये ये निष्पिष्टाद्रिकोटयः ।
ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥
जरातुषारधवले शरीरसदनान्तरे ।
शक्नुवन्त्य् अक्षशिशवः स्पन्दितुं न मनाग् अपि ॥
संसारसंसृतेर् अस्या गन्धकुट्याः शिरोगता ।
देहयष्ट्या जरानाम्नी चामरश्रीर् विराजते ॥
जराचन्द्रोदयसिते शरीरनगरे स्थिते ।
क्षणाद् विकासम् आयाति मुने मरणकैरवम् ॥
जरासुधालेपसिते शरीरान्तःपुरान्तरे ।
अशक्तिर् आधिर् आर्तिश् च तिष्ठन्ति सुखम् अङ्गनाः ॥
अभावाग्रे सरा यत्र जरा जयति जन्तुषु ।
कस् तत्रेह समाश्वासो मम मन्दमतेर् मुने ॥
किं तेन दुर्जीवितदुर्ग्रहेण श्4: °हेहेण जरां गतेनापि हि जीव्यते यत् ।
जरा जगत्याम् अजिता नराणां सर्वैषणास् तात तिरस्करोति ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0