मोक्षोपायटीका · अध्याय 1.20
मांसपुत्तलिकायाश् च यन्त्रलोलाङ्गपञ्जरे ।
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः श्4: °यः किम् इव शोभनम् ॥
त्वङ्मांसरक्तबाष्पास्रु पृथक् कृत्वा विलोचनम् ।
समालोकय रम्यं चेत् किम् मुधा परिमुह्यसि ॥
इतः केशा इतो रक्तम् इतीयम् प्रमदातनुः ।
किम् एतया निन्दितया करोतु विपुलाशयः ॥
वासोविलेपनैर् यानि लालितानि न्11: ल्*आ*लि° पुनः पुनः ।
तान्य् अङ्गान्य् अवलुम्पन्ति न्11: अव्(इ)अ° क्रव्यादाः सर्वदेहिनाम् ॥
मेरोः शृङ्गतटोल्लासिगङ्गाजलरयोपमा ।
दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः ॥
श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
श्वभिर् आस्वाद्यते काले लघुपिण्ड इवान्धसः ॥
रक्तमांसादिदिग्धानि करभस्य यथा वने ।
तथैवाङ्गानि कामिन्यास् तत् प्रत्य् अपि हि को ग्रहः ॥
आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः ।
मन्ये तद् अपि नास्त्य् अत्र मुने मोहैककारणे ॥
विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् ।
को विशेषो विकारिण्या मदिराया इह स्त्रियाः श्4: °यः ॥
ललनालानसंलीना मुने मानवदन्तिनः ।
प्रबोधं नाधिगच्छन्ति दीर्घैर् अपि शमाङ्कुशैः ॥
केशकज्जलधारिण्यस् तीक्ष्णाः प्रकृतितः सदा ।
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन् नरम् ॥
ते वन्द्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णाः साधो यौवतसङ्कटात् ॥
ज्वलताम् अतिदूरे ऽपि सरसा अपि नीरसम् ।
स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम् ॥
कीर्णान्धकारकवरी तरत्तारकलोचना ।
पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी ॥
लीलाविलोलपुरुषा न्11, श्4: °परु° कार्यसंहारकारिणी ।
परं विमोहनम् बुद्धेः कामिनी दीर्घयामिनी ॥
पुष्पाभिराममधुरा करपल्लवलासिनी ।
भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी ॥
पुष्पकेसरगौराङ्गी नरमारणतत्परा ।
ददात्य् उत्तमवैवश्यं कान्ता विषमहालता ॥
सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया ।
कान्तयोद्ध्रियते जन्तुः करिण्येवोरगो बिलात् ॥
कामनाम्ना किरातेन विकीर्णा श्4: °कीर्णां मुग्धचेतसाम् ।
नार्यो नरविहङ्गानाम् अङ्गबन्धनवागुराः ॥
ललनाविपुलालाने मनोमत्तमतङ्गजः ।
रतिशृङ्खलया ब्रह्मन् बद्धस् तिष्ठति मूकवत् ॥
जन्मपल्वलमत्स्यानां कर्मकोटरवारिणाम् ।
पुंसां दुर्वासनारज्जुर् नारी बडिशपिण्डिका ॥
मन्दुरेव तुरङ्गानाम् आलानम् इव दन्तिनाम् ।
पुंसाम् अब्जम् इवालीनाम् बन्धनं वामलोचनाः ॥
नानारसमयी चित्रा भोगभूमिर् इयम् मुने ।
स्त्रियम् आश्रित्य संयाता पराम् इह हि संस्थितिम् ॥
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
दुःखशृङ्खलया नित्यम् अलम् अस्तु मम स्त्रिया ॥
किं स्तनेन किम् अक्ष्णा न्11, श्4: अक्षा वा किं नितम्बेन किम् भ्रुवा ।
मांसमात्रैकसारेण करोम्य् अहम् अवस्तुना ॥
इतो मांसम् इतो रक्तम् इतो ऽस्थीनि च वासरैः ।
ब्रह्मन् कतिपयैर् एव याति स्त्री विशरारुताम् ॥
यास् ता निष्परुषैस् तूलैर् लालिताः पतिभिः स्त्रियः ।
ता मुने प्रविभक्ताङ्ग्यः श्4: °क्त्याङ्ग्याः स्वपन्ति पितृभूमिषु ॥
यस्मिन् घननवस्नेहम् मुखे पत्त्राङ्कुरश्रियः श्4: पन्ना°; न्11: प-(?)आ° ।
कान्तेन रचिता ब्रह्मञ् शीर्यते तत् तु श्4: तन्तु° जङ्गले ॥
केशाः श्मशानवृक्षेषु यान्ति चामरलेशताम् ।
अस्थीन्य् उडुवद् आभान्ति दिनैर् अवनिमण्डले ॥
पिबन्ति पांसवो रक्तं क्रव्यादाश् चाप्य् अनेकशः ।
चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः ॥
इत्य् एषा ललनाङ्गानाम् अचिरेणैव भाविनी ।
स्थितिर् मया वः कथिता किम् भ्रान्तिम् अनुधावथ ॥
भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् ।
रसाद् अभिवहत्व् एतत् कथं नाम धियान्वितः ॥
शाखावितानगहना कट्वम्लफलशालिनी ।
प्रतानोत्तालताम् एति चिन्ता कान्तानुसारिणी ॥
शोच्यताम् परमाम् एति तरुणस् तरुणीरतः ।
निबद्धः करिणीलोभाद् विन्ध्यखाते यथा द्विपः ॥
यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य न भोगभूः ।
स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत् ॥
आपातमात्रमधुरेषु दुरुत्तरेषु भोगेषु नाहम् अलिपक्षतिपेलवेषु न्11: °पक्य° ।
ब्रह्मन् रमे श्4: नमे मरणरोगजरादिभीत्या शाम्याम्य् अहम् परम् उपैमि वनम् प्रयत्नात् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0