मोक्षोपायटीका · अध्याय 1.2
जीवन्मुक्तस्थितिम् ब्रह्मन् कृत्वा राघवम् आदितः ।
क्रमात् कथय मे नित्यम् भविष्यामि सुखी यथा ॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणम् मन्ये साधो विस्मरणं वरम् ॥
दृश्यात्यन्ताभावबोधं विना तन् नानुभूयते ।
कदाचित् केनचिन् नाम स बोधो ऽन्विष्यताम् अतः ॥
न्11: [अज्ञानसुघनाका]रा अज्ञानसुघनाकारा घनाहङ्कारशालिनी ।
पुनर् जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥
पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् ।
देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते ॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास् त उच्यन्ते जीवन्मुक्ता महाधियः ॥
जीवन्मुक्तपदम् प्राप्तो यथा श्4: °थ्*आ* रामो महामतिः ।
तत् ते ऽहम् सम्प्रवक्ष्यामि जरामरणशान्तये ॥
भरद्वाज महाबुद्धे रामक्रमम् इमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा ॥
विद्यागृहाद् विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्य् अनयद् गेहे लीलाभिर् अकुतोभयः ॥
अथ गच्छति काले ऽत्र पालयत्य् अवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥
तीर्थमुन्याश्रमश्रेणीं द्रष्टुम् उत्कण्ठितम् मनः ।
रामस्याभूद् भृशं तत्र कदाचिद् गुणशालिनः ॥
राघवश् चिन्तयित्वैवम् श्4: °ऐव(ं)म् उपेत्य चरणौ पितुः ।
हंसः पद्माव् इव नवौ जग्राह नवकेसरौ ॥
तीर्थानि देवसद्मानि वनान्य् आयतनानि च ।
द्रष्टुम् उत्कण्ठितं तात ममेदं हि भृशम् मनः ॥
तद् एताम् अर्थनाम् पूर्वां सफलीकर्तुम् अर्हसि ।
न सो ऽस्ति भुवने तात त्वया यो ऽर्थी विमानितः ॥
इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चद् एवैनं रामम् प्रथमम् न्11: °प्रथसमर्थ्*इ*नम् अर्थिनम् ॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥
वसिष्ठप्रहितैर् विप्रैः शास्त्रतज्ज्ञैः समन्वितः ।
स्निग्धैः कतिपयैर् एव राजपुत्रवरैः सह ॥
अम्बाभिर् विहिताशीर्भिर् श्4: °शीभिर् आलिङ्ग्यालिङ्ग्य भूषितः ।
निरगात् स गृहात् तस्मात् तीर्थयात्रार्थम् उद्यतः ॥
निर्गतः स्वपुरात् पौरैस् तूर्यघोषेण वर्धितः ।
पीयमानः पुरन्ध्रीणां नेत्रैर् भृङ्गौघभङ्गुरैः न्11: भृं(घौ)*गौ*° ॥
ग्रामीणललनालोकहस्तपद्मापवर्जितैः न्11: °क्(आ)अह°...°द्मा(स)*प*° ।
लाजवर्षैर् विकीर्णात्मा हिमैर् इव हिमाचलः ॥
आवर्जयन् श्4: °यिन् विप्रगणान् परिशृण्वन् प्रजाशिषः ।
आलोकयन् दिगन्तांश् च परिचक्राम जङ्गले ॥
अथारभ्य स्वकात् तस्मात् क्रमात् कोसलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥
नदीस् तीर्थानि पुण्यानि वनान्य् आयतनानि च ।
जङ्गलानि वनान्तेषु तटान्य् अब्धिमहीभृताम् ॥
मन्दाकिनीम् इन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रुं च चन्द्रभागाम् इरावतीम् ॥
वेणां न्11: वेण्णां च कृष्णवेणां न्11: °वेण्णां wइए ओबेन् च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशाम् बाहुदाम् न्11, श्4: बहु°; बाहु° मित् श्1, श्3, न्10 सोwइए पिन्नोw 1951: 341f. अपि ॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारम् पुष्करं तथा ॥
मानसं च क्रमसरस् तथैवोत्तरमानसम् ।
वडवाम् मडवां चैव तीर्थवृन्दं ससोदरम् ॥
अग्नितीर्थम् महातीर्थम् इन्द्रद्युम्नसरस् तथा ।
सरांसि सरसीश् चैव तथा वापीह्रदावलीम् ॥
स्वामिनं कार्त्तिकेयं न्11, श्4: कार्ति° च सालिग्रामहरिं तथा ।
स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः ॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि श्4: °तथा° च ।
विन्द्यकन्दरकुञ्जांश् श्4: °न्तांश् च कुलशैलस्थलानि च ॥
राजर्षीणां च महताम् ब्रह्मर्षीणां तथैव च ।
देवानाम् ब्राह्मणानां च पावनान् आश्रमाञ् शुभान् ॥
भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्व् अपि दिगन्तेषु सर्वान् एव महीतटान् ॥
अमरकिन्नरमानवमानितः समवलोक्य महीम् अखिलाम् इमाम् ।
उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकम् इवेश्वरः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0