भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.3

1.3.1

लाजपुष्पाञ्जलिव्रातैर् श्4: °तैः विकीर्णः पौरवासिभिः ।
स विवेश गृहं श्रीमाञ् जयन्तो विष्टपं यथा ॥

1.3.2

प्रणनामाथ पितरं वसिष्ठम् मातृबान्धवान् ।
ब्राह्मणान् गुरुवृद्धांश् च राघवः प्रथमागतः ॥

1.3.3

सुहृद्भिर् मातृभिश् श्4: भ्रा° (wइए न्।एद्); मा° बेइ श्1, श्3, न्10 चैव पित्रा द्विजगणेन च ।
मुहुर् आलिङ्गनाचारै राघवो न ममौ तदा ॥

1.3.4

तस्मिन् दृढैर् दाशरथौ प्रियप्रकथनैर् मिथः ।
जुघूर्णुर् मधुरैर् आशा मृदुवंशस्वनैर् इव ॥

1.3.5

बहून्य् आस दिनान्य् अत्र रामागमनम् उत्सवः ।
महानन्दे जनान् मुञ्चन् केलिकोलाहलाकुलः ॥

1.3.6

उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन् विविधाचारान् देशाचारान् इतस् ततः ॥

1.3.7

प्रातर् उत्थाय रामो ऽसौ कृत्वा सन्ध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा ॥

1.3.8

कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिर् आदृतः ॥

1.3.9

जगाम पित्रनुज्ञातो महत्या सेनयावृतः ।
वराहमहिषाकीर्णं वनम् आखेटकेच्छया ॥

1.3.10

तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन् निशाम् ॥

1.3.11

एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायाः समुवास पितुर् गृहे ॥

1.3.12

नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि श्4: स्व° चन्द्रिकया तथा ।
परिनिनाय दिनानि स चेष्टया श्रुतसुधारसपेशलयानघः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc