मोक्षोपायटीका · अध्याय 1.1
दिवि भूमौ तथाकाशे बहिर् अन्तश् च मे विभुः ।
यो ऽवभात्य् अवभासात्मा तस्मै विश्वात्मने नमः ॥
अहम् बद्धो विमुक्तः स्याम् इति यस्यास्ति निश्चयः ।
नात्यन्ततज्ज्ञो नातज्ज्ञः श्4: नात्यन्तम् अज्ञो नो तज्ज्ञः सो ऽस्मिञ् शास्त्रे ऽधिकारवान् ॥
कथोपायान् विचार्यादौ मोक्षोपायान् श्4: °यान्न् इमान् अथ ।
यो विचारयति प्राज्ञो न स भूयो ऽभिजायते ॥
अस्मिन् रामायणे राम कथोपायान् महाफलान् ।
एतांस् तु प्रथमं कृत्वा पुराहम् अरिमर्दन ॥
शिष्यायास्मै विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवान् रम्यान् मणीन् अब्धिर् न्11: अःकिर् इवार्थिने ॥
तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन् मेरुगहने ब्रह्मणो ऽग्र उदाहृताः ॥
अथास्य तुष्टो भगवान् ब्रह्मा श्4: °ह्म° लोकपितामहः ।
वरम् पुत्र गृहाणेति समुवाच महाशयः ॥
भगवन् भूतभव्येश वरो ऽयम् मे ऽद्य रोचते ।
येनेयं जनता दुःकान् मुच्यते तद् उदाहर ॥
गुरुं वाल्मीकिम् अत्राशु प्रार्थयस्व प्रयत्नतः ।
तेनेदं यत् समारब्धं रामायणम् अनिन्दितम् ॥
तस्मिञ् ज्ञाते नरो मोहात् समग्रात् सन्तरिष्यति ।
सेतुनेवाम्बुधेः पारम् अपारगुणशालिना ॥
इत्य् उक्त्वा स भरद्वाजम् परमेष्ठी ममाश्रमम् ।
अभ्यागमत् समं तेन भरद्वाजेन भूतकृत् ॥
तूर्णं सम्पूजितो देवः सो ऽर्घ्यपाद्यादिना मया ।
अवोचन् माम् महासत्त्वः सर्वभूतहिते रतः ॥
रामस्वभावकथनाद् अस्माद् वरमुने त्वया ।
नोद्योगः सम्परित्याज्य आ समाप्तेर् अनिन्दितात् ॥
ज्ञातेनानेन लोको ऽयम् अस्मात् संसारसङ्कटात् ।
समुत्तरिष्यति क्षिप्रम् पोतेनेवाथ सागरात् ॥
वक्तुं तवैतम् एवार्थम् अहम् आगतवान् न्11, श्4: °वान्न् अयम् ।
कुरु लोकहितार्थं त्वं शास्त्रम् इत्य् उक्तवान् अजः ॥
राम पुण्याश्रमात् तस्मात् क्षणाद् अन्तर्धिम् आगतः ।
मुहूर्ताद् उद्यतः प्रोच्चैस् तरङ्ग इव वारिणः ॥
तस्मिन् प्रयाते भगवत्य् अहं विस्मयम् आगतः ।
पुनस् तत्र भरद्वाजम् अपृच्छं स्वच्छया धिया ॥
किम् एतद् ब्रह्मणा प्रोक्तम् भरद्वाज वदाशु मे ।
इत्य् उक्तेन पुनः प्रोक्तम् भरद्वाजेन मे ऽनघ ॥
एतद् उक्तम् भगवता यथा रामायणं कुरु ।
सर्वलोकहितायाशु संसारार्णवपोतकम् ॥
मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे ।
रामो व्यवहृतो ऽप्य् अस्मिन् भरतश् च महामनाः ॥
शत्रुघ्नो लक्ष्मणश् चापि सीता चापि यशस्विनी ।
रामानुयायिनस् ते वा मन्त्रिपुत्रा महाधियः ॥
निर्दुःखतां यथैते तु प्राप्तास् तद् ब्रूहि मे स्फुटम् ।
तथैवाहं तरिष्यामि ततो जनतया सह ॥
भरद्वाजेन राजेन्द्र यदेत्य् उक्तो ऽस्मि सादरम् ।
तदा कर्तुं विभोर् आज्ञाम् अहं वक्तुम् प्रवृत्तवान् ॥
शृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन सम्मोहम् अलं दूरे करिष्यसि ॥
तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥
लक्ष्मणो भरतश् चैव शत्रुघ्नश् च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस् तथा ॥
कृतास्थश् चाविरोधश् च बोधपारम् उपागतः ।
वसिष्ठो वामदेवश् च मन्त्रिणो ऽष्टौ तथेतरे ॥
घृष्टिर् विकुन्तो भामश् च सत्यवर्धन एव च ।
विभीषणः सुषेणश् च हनुमान् इन्द्रजित् तथा ॥
एते ऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥
एभिर् यथा हृतं दत्तं गृहीतम् उषितं स्मृतम् ।
तथा चेद् वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥
अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिम् उदारसत्त्वः ।
न शोकम् आयाति न दैन्यम् एति गतज्वरस् तिष्ठति नित्यतृप्तः ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0