भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.19

1.19.1

बाल्यानर्थम् अथ त्यक्त्वा पुमान् अभिहताशयः ।
आरोहति निपाताय यौवनं श्वभ्रसम्भ्रमम् श्4: °भ्रमसं° ॥

1.19.2

तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः ।
वृत्तीर् अनुसरन् याति दुःखाद् दुःखान्तरं जडः ॥

1.19.3

स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा ।
बलात् कामपिशाचेन विवशः परिभूयते ॥

1.19.4

चिन्तानां लोलवृत्तीनां ललनानाम् इवाभितः ।
अर्पयत्य् अवशश् चेतो ज्वालानाम् आत्मजो यथा ॥

1.19.5

ते ते दोषा दुरारम्भास् तत्र तं तादृशाशयम् ।
तरुणम् प्रविलुम्पन्ति दृश्यास् ते नैव ये मुने ॥

1.19.6

महानरकबीजेन सन्ततभ्रमदायिना ।
यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥

1.19.7

नानारसमयी चिन्तावृत्तान्तनिचयोम्भिता ।
भीमा यौवनभूर् येन तीर्णा धीरः स उच्यते ॥

1.19.8

निमेषभासुराकारम् आलोलघनगर्जितम् ।
विद्युत्प्रकाशम् अनिशं यौवनम् मे न रोचते ॥

1.19.9

विविधावर्तबहुलम् पङ्कलग्नं जडाशयम् ।
तरङ्गभङ्गुरम् भीमं यौवनम् मे न रोचते ॥

1.19.10

सर्वस्याग्रेसरम् पुंसः क्षणमात्रमनोहरम् ।
गन्धर्वनगरप्रख्यं यौवनम् मे न रोचते ॥

1.19.11

इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् ।
दाहदोषप्रदं नित्यं यौवनम् मे न रोचते ॥

1.19.12

मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् ।
सुराकल्लोलसदृशं यौवनम् मे न रोचते ॥

1.19.13

असत्यं सत्यसङ्काशम् अचिराद् विप्रलम्भदम् ।
स्वप्नाङ्गनासङ्गसमं यौवनम् मे न रोचते ॥

1.19.14

क्षणप्रकाशतरलम् मिथ्यारचितचक्रिकम् ।
अलातचक्रप्रतिमं यौवनम् मे न रोचते ॥

1.19.15

मृदुस्फारतरोदारम् अन्तःशून्यं क्षणात् क्षतम् ।
शरदम्बुदसङ्काशं यौवनम् मे न रोचते ॥

1.19.16

आपातमात्ररमणं सद्भावरहितान्तरम् ।
वेश्यास्त्रीसङ्गमप्रख्यं यौवनम् मे न रोचते ॥

1.19.17

ये केचन दुरारम्भास् ते सर्वे सर्वदुःखदाः न्11: °खं° ।
तारुण्ये सन्निधिं यान्ति महोत्पाता श्4: °त इव श्4: इवा° क्षये ॥

1.19.18

हार्दान्धकारकारिण्या भैरवाकारवान् अपि ।
यौवनाकारयामिन्या बिभेति भगवान् अपि ॥

1.19.19

सुविस्मृतशुभाचारम् बुद्धिवैधुर्यदायिनम् ।
ददात्य् अतितराम् एष भ्रमं यौवनविभ्रमः ॥

1.19.20

कान्तावियोगजातेन हृदि दुर्धर्षवह्निना ।
यौवने दह्यते जन्तुस् तरुर् दावाग्निना यथा ॥

1.19.21

विस्तीर्णापि प्रसन्नापि पावन्य् अपि हि यौवने ।
मतिः कलुषताम् एति प्रावृषीव तरङ्गिणी ॥

1.19.22

शक्यते घनकल्लोलभीमा रोधयितुं नदी ।
न तु तारुण्यतरला तृष्णातरलितान्तरा ॥

1.19.23

सा कान्ता तौ स्तनौ पीनौ ते विलासास् तद् आननम् ।
तारुण्य इति चिन्ताभिर् याति जर्जरतां जनः ॥

1.19.24

तरत्तरलतृष्णार्तं युवानम् इह साधवः ।
पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥

1.19.25

नाशायैव मदान्धस्य दोषमौक्तिकधारिणः ।
अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥

1.19.26

मनोविपुलमूलानां दोषाशीविषधारिणाम् ।
रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥

1.19.27

रसकेसरसम्बाधं कुविकल्पदलाकुलम् ।
दुश्चिन्ताचञ्चरीकाणाम् पुष्करं विद्धि यौवनम् ॥

1.19.28

कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् ।
आधिव्याधिविहङ्गानाम् आलयो नवयौवनम् ॥

1.19.29

जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् ।
अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥

1.19.30

सर्वेषां गुणपर्णानाम् अपनेतुं रजस्ततः ।
अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥

1.19.31

नयन्ति पाण्डुतां वक्त्रम् श्4: वक्रम् आकुलावकरोत्कटाः ।
आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥

1.19.32

उद्बोधयति दोषालीं निकृन्तति श्4: °कृन्तन्ति गुणावलिम् ।
नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाः ॥

1.19.33

शरीरपङ्कजरजश् न्11, श्4: शरीरं चञ्चलाम् श्4: चपलां मतिषट्पदीम् ।
निबध्य मोहयत्य् एष नरं यौवनचन्द्रमाः ॥

1.19.34

शरीरषण्डकोद्भूता रम्या यौवनवल्लरी ।
लग्नम् एव मनोभृङ्गम् मदयत्य् उन्नतिं गता न्11: °ताः ॥

1.19.35

शरीरमरुतापोत्थां युवताम् मृगतृष्णिकाम् ।
मनोमृगाः प्रधावन्तः पतन्ति विषमाटवीम् श्4: विषया° ॥

1.19.36

शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः श्4: चित्त्र° सटा ।
लहरी जीविताम्भोधेर् युवता मे न रोचते ॥

1.19.37

दिनानि कतिचिद् येयम् फलिता देहजङ्गले ।
युवताशरद् अस्यां हि न समाश्वासम् अर्हथ ॥

1.19.38

झगित्य् एष प्रयात्य् एव शरीराद् युवताखगः ।
क्षणेनैवाल्पभाग्यस्य हस्ताच् चिन्तामणिर् यथा ॥

1.19.39

यदा यदा परां कोटिम् अभ्यारोहति यौवनम् ।
वल्गन्ति सरसाः कामास् तदा नाशाय केवलम् ॥

1.19.40

तावद् एव विवल्गन्ति रागद्वेषपिशाचिकाः ।
नास्तम् एति समस्तैषा यावद् यौवनयामिनी ॥

1.19.41

नानाधिकारबहले वराके क्षणनाशिनि ।
कारुन्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥

1.19.42

हर्षम् आयाति यो मोहात् पुरुषः क्षणभङ्गिना ।
यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥

1.19.43

मानमोहमदोन्मत्तं यौवनं यो ऽभिलष्यति ।
अचिरेण सुदुर्बुद्धिः पश्चात्तापेन युज्यते ॥

1.19.44

ते धर्म्यास् ते महात्मानस् त एव पुरुषा भुवि ।
ये सुखेन समुत्तीर्णाः साधो यौवनसङ्कटात् ॥

1.19.45

सुखेन तीर्यते ऽम्भोधिर् उत्कृष्टमकराकरः ।
न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥

1.19.46

विनयभूषितम् आर्यजनास्पदं करुणयोज्ज्वलम् आवलितं गुणैः ।
इह हि दुर्लभम् अङ्ग सुयौवनं जगति काननम् अम्बरगं यथा ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc