मोक्षोपायटीका · अध्याय 1.18
लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि ।
संसारसागरे जन्म बाल्यं दुःकाय केवलम् ॥
अशक्तिर् आपदस् तृष्णा मूकता मूढबुद्धिता ।
गृध्नुता लोलता दैन्यं सर्वम् बाल्ये प्रवर्तते ॥
रोषरोदनरौद्रीषु दैन्यजर्जरितासु च ।
दशासु बन्धनम् बाल्यम् आलानं करिणीष्व् इव ॥
न मृतौ न जरारोगे न चापदि न यौवने ।
ताश् चिन्ता न निकृन्तन्ति श्4: °कृत° हृदयं शैशवेषु न्11: शै(ष)श° याः ॥
तिर्यग्जातिसमारम्भः सर्वैर् एवावधीरितः ।
लोलो बालजनाचारो मरणाद् अपि दुःखदः ॥
प्रतिबिम्बं श्4: °म्बे घनाज्ञानां नानासङ्कल्पपेलवम् ।
बाल्यम् आलूनसंशीर्णमनः कस्य सुखावहम् ॥
जडश्यामलयाजस्रं जातभीत्या पदे पदे ।
यद् भयं शैशवे बुद्ध्या कस्याम् आपदि तद् भवेत् ॥
लीलासु दुर्विलासेषु दुरीहासु दुराशये ।
परमम् मोहम् आदत्ते बालो बलवदापदम् ॥
विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् ।
शैशवं शासनायैव पुरुषस्य न शान्तये ॥
ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः ।
ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः न्11, श्4: °कः ॥
बाल्यं रम्यम् इति व्यर्थबुद्धयः कथयन्ति ये ।
तान् मूर्खपुरुषान् ब्रह्मन् धिग् अस्तु हतचेतसः ॥
यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु ।
त्रैलोक्यराज्यम् अपि तत् कथं वहति तुष्टये ॥
सर्वेषाम् एव सत्त्वानां सर्वावस्थासु चैव हि ।
मनश् चञ्चलताम् एति बाल्ये दशगुणं मुने ॥
मनः प्रकृत्यैव चलम् बाल्यं च चलतावरम् ।
तयोः संश्लिष्टयोः तात केनैवान्तः कुचापले ॥
स्त्रीलोचनैस् तडित्पुञ्जैर् ज्वालामालैस् तरङ्गकैः ।
चापलं शिक्षितम् ब्रह्मञ् शैशवान् मनसो ऽथ वा ॥
शैशवं च मनश् चैव सर्वास्व् एव हि वृत्तिषु ।
भ्रातराव् इव लक्ष्येते सततम् भङ्गुरस्थिती ॥
सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः ।
बाल्यम् एवोपजीवन्ति श्रीमन्तम् इव मानवाः ॥
नवं नवम् प्रीतिकरं न शिशुः प्रत्यहं यदि ।
प्राप्नोति तद् असौ याति विषवेगस्य मूर्छनाम् ॥
स्तोकेन वशम् आयाति स्तोकेनैति विकारिताम् ।
अमेध्य एव रमते बालः कौलेयको यथा ॥
अजस्रम् बाष्पवदनः कर्दमान्तर् जडाशयः ।
वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥
भयाहारपरं दीनं यथादृष्टाभिलाषि च ।
लोलबुद्धिः वपुर् धत्ते बालो दुःखाय केवलम् ॥
स्वसङ्कल्पाभिलषितान् भावान् अप्राप्य तप्तधीः ।
दुःखम् एत्य् अबलो श्4: अन° बालो विनिकृत्त इवाशये ॥
दुरीहालब्धलक्ष्याणि श्4: लक्षा° बहुपक्षोल्वणानि न्11, श्4: °ओल्ल्व° च ।
बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥
बालो बलवताश्वेन मनोरथविलासिना ।
मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम् ॥
विद्यागृहगतो बालः पराम् एति कदर्थनाम् ।
आलान इव नागेन्द्रो विषवैषम्यभीषणम् ॥
नानामनोरथमयी मिथ्याकल्पितकल्पना ।
दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥
सम्भृष्टं तुहिनम् न्11: तु(दि)*हि*° भोक्तुम् इन्दुम् आदातुम् अम्बरात् ।
वाञ्छ्यते येन मौर्ख्येण श्4: °र्ख्ये न तत् सुखाय कथम् भवेत् ॥
अन्तश्चितेर् श्4: °चित्तेर् अशक्तस्य शीतातपनिवारणे ।
को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च ॥
उड्डीनम् अभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः ।
भयाहारपरा नित्यम् बाला विहगधर्मिणः ॥
शैशवे गुरुतो भीतिर् मातृतः पितृतस् तथा ।
जनतो ज्येष्ठबालाच् न्11: °लाश् च शैशवम् भयमन्दिरम् ॥
सकलदोषदशाविहताशयं शरणम् अप्य् अविवेकविलासिनः ।
इह न कस्यचिद् एव महामुने भवति बाल्यम् अलम् परितुष्टिदम् ॥
मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0