भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.16

1.16.1

हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया ।
चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥

1.16.2

अन्तर्दाहप्रदायिन्या समूढरसमार्दवः ।
पङ्क आदित्यदीप्त्येव शोषं नीतो ऽस्मि चिन्तया ॥

1.16.3

मम चित्तमहारण्ये व्यामोहतिमिराकुले ।
शून्ये ताण्डविनी मत्ता भृशम् आशा पिशाचिका ॥

1.16.4

रजोरचितनीहारा काञ्चनावचयोज्ज्वला ।
नूनं विकासम् आयाति चिन्ता मे ऽशोकमञ्जरी ॥

1.16.5

अलम् अन्तर् भ्रमायैषा तृष्णा कवलिताशया ।
आयाता विमलोल्लासम् ऊर्मिर् अम्बुनिधाव् इव ॥

1.16.6

उद्दामकल्लोलरवा देहाद्रौ वहतीव मे ।
तरङ्गिततराकारा तरतृष्णातरङ्गिणी ॥

1.16.7

वेगं संरोद्धुम् उदितो वात्ययेव न्11: °एवा जरत्तृणम् ।
नीतः कलुषया क्वापि धियायं चित्तचातकः ॥

1.16.8

यां याम् अहम् अधीतास्थाम् आश्रयामि गुणश्रियम् ।
तां तां कृन्तति मे तृष्णा तन्त्रीम् इव कुमूषिका ॥

1.16.9

पयसीव जरत्पर्णं श्4: त्यर्° वायाव् इव जरत्तृणम् ।
नभसीव शरन्मेघश् चिन्ताचक्रे भ्रमाम्य् अहम् ॥

1.16.10

गन्तुम् आस्पदम् आत्मीयम् असमर्थधियो श्4: असर्थ° वयम् ।
चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥

1.16.11

तृष्णाभिधानया तात दग्धो ऽस्मि ज्वालया तथा ।
यथा दाहोपशमनम् आशङ्के नामृतैर् अपि ॥

1.16.12

दूरं दूरम् इतो गत्वा समेत्य च पुनः पुनः ।
भ्रमत्य् आशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥

1.16.13

जडसंसङ्गिणी श्4: °सर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा ।
क्षुब्धा ग्रन्थिमती नित्यम् अरघट्टोग्ररज्जुवत् ॥

1.16.14

अन्तर् ग्रथितया देहे सम्भ्रमोच्छिद्यमानया ।
रज्ज्वेवाशु बलीवर्दस् तृष्णया वाह्यते जनः ॥

1.16.15

पुत्रदारकलत्रादितृष्णया श्4: °त्राणि नित्यकृष्णया ।
खगेष्व् इव किरात्येह श्4: °रत्ये° जालं लोकेषु रच्यते ॥

1.16.16

भाययत्य् अपि धीरेहम् अन्धयत्य् अपि सेक्षणम् ।
खेदयत्य् अपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥

1.16.17

कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी ।
दहत्य् अपि मनाक् स्पृष्टा श्4: सृष्° तृष्णा कृष्णेव भोगिनी ॥

1.16.18

भिनत्ति हृदयम् पुंसाम् मायामयविधायिनी ।
दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥

1.16.19

तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् ।
नानन्दे राजते ब्रह्मंस् तृष्णाजर्जरवल्लकी ॥

1.16.20

नित्यम् एवातिमलिना कटुकोन्मादशालिनी ।
दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी ॥

1.16.21

अनानन्दकरी शून्या निष्फलात्यर्थम् उन्नता ।
अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥

1.16.22

अनावर्जितचित्तापि सर्वम् एवानुधावति ।
न चाप्नोति फलं किञ्चित् तृष्णा जीर्णेव कामिनी ॥

1.16.23

संसारनृत्ते महति नानारससमाकुले ।
भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी ॥

1.16.24

जरा कुसुमिता रूढा पातोत्पातफलावलिः ।
संसारजङ्गले दीर्घे तृष्णाविषलता तता ॥

1.16.25

यन् न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् ।
नृत्यत्य् आनन्दरहितं तृष्णा जीर्णेव नर्तकी ॥

1.16.26

भृशं स्फुरति नीहारे शाम्यत्य् आलोक आगते ।
दुःखौघेषु पदं धत्ते न्11, श्4: दत्ते तृष्णाचपलवर्हिणी ॥

1.16.27

जडकल्लोलबहला चिरं शून्यतरान्तरा ।
क्षणम् उल्लासम् आयाति तृष्णाप्रावृट्तरङ्गिणी ॥

1.16.28

नष्टम् उत्सृज्य तिष्ठन्तं वृक्षाद् वृक्षम् इवा परम् ।
पुरुषात् पुरुषं याति तृष्णा लोलेव पक्षिणी ॥

1.16.29

पदं करोत्य् अलङ्घ्ये ऽपि तृप्तापि फलम् ईहते ।
चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥

1.16.30

इदं कृत्वेदम् आयाति सर्वम् एवासमञ्जसम् ।
अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥

1.16.31

क्षणम् आयाति पातालं क्षणं याति नभस्तलम् ।
क्षणम् भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी ॥

1.16.32

सर्वसंसारदोषाणां श्4: सर्वं तृष्णैका दीर्घदुःखदा ।
अन्तःपुरस्थम् अपि या योजयत्य् अतिसङ्कटे ॥

1.16.33

प्रयच्छति परं जाड्यम् परमालोकरोधिनी ।
मोहनीहारगहना तृष्णाजलदमालिका ॥

1.16.34

सर्वेषां जन्तुजालानां न्11: °ना संसारव्यवहारिणाम् ।
परिप्रोतमनोमालास् तृष्णा बन्धनरज्जवः ॥

1.16.35

विचित्रवर्णा विगुणा न्11: °ण्(आ)अ; श्4: °ण दीर्घा मलिनसंस्थितिः ।
शून्याशून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी ॥

1.16.36

अशनिर् गुणसस्यानाम् फलिता शरद् आपदे ।
हिमं सम्पत्सरोजिन्यास् तमसां दीर्घयामिनी ॥

1.16.37

संसारनाटकनटी कायालयविहङ्गमी ।
मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥

1.16.38

व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला ।
मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका ॥

1.16.39

जरामरणदुःखानाम् एका रत्नसमुद्गिका ।
आधिव्याधिविलासानां नित्यमत्ता विलासिनी ॥

1.16.40

क्षणम् आलोकविमला सान्धकारलवा क्षणम् ।
व्योमवीथीसमा तृष्णा नीहारगहना क्षणम् ॥

1.16.41

गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये ।
तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥

1.16.42

तावन् मुह्यत्य् अयं लोको मूको विलुलिताशयः ।
यावद् एवानुसन्धत्ते तृष्णाविषविषूचिकाम् ॥

1.16.43

लोको ऽयम् अखिलं दुःखं चिन्तयोज्झित उज्झति ।
चिन्ताविषूचिकामन्त्रश् चिन्तात्यागो हि कथ्यते ॥

1.16.44

तृणपाषाणकाष्ठादि सर्वम् आमिषशङ्कया न्11: आसि° ।
आदधाना स्फुरत्य् न्11, श्4: °रन्त्य् अन्तस् तृष्णा मत्स्यी ह्रदे न्11: हृदे यथा ॥

1.16.45

रोगार्तिर् अङ्गगा तृष्णा गम्भीरम् अपि मानवम् ।
उत्तानतां नयत्य् आशु सूर्यांशव इवाम्बुजम् ॥

1.16.46

अहो बत महच् चित्रं तृष्णाम् अपि महाधियः ।
दुश्छेदाम् न्11: दुच्छे° अपि कृन्तन्ति विवेकेनामलासिना ॥

1.16.47

नासिधारा न वज्राग्निर् न तप्तायःकणार्चिषः ।
तथा तीक्ष्णा यथा ब्रह्मंस् तृष्णेयं हृदि संस्थिता ॥

1.16.48

कज्जलासिततीक्ष्णाग्राः स्नेहदीर्घदशापराः ।
प्रकाशा न्11, श्4: °शाः दाहदस्पर्शास् तृष्णा दीपशिखा इव ॥

1.16.49

अपि मेरूपमम् प्राज्ञम् अपि शूरम् अपि स्थिरम् ।
तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥

1.16.50

विस्तीर्णगहना भीमा घनजालरजोमयी ।
सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी ॥

1.16.51

एकैव सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्षताम् श्4: °लक्ष्य° उपगतैव पुरःस्थितेव ।
तृष्णा स्थिता जगति चञ्चलवीचिमाले क्षीरार्णवाम्बुपटले मधुरेव शक्तिः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc