भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपायटीका · अध्याय 1.15

1.15.1

दोषैर् जर्जरतां यातं सत्कार्याद् आर्यसेवितात् श्4: °तम् ।
वातात्तपिञ्छलववच् श्4: °पिच्छ°; न्11: °लववश् चेतश् चलति चञ्चलम् ॥

1.15.2

इतश् चेतश् च सुव्यग्रं व्यर्थम् न्11: व्य(क्त)*र्थ*म् एवाभिधावति ।
दूराद् दूरतरं दीनं ग्रामे कौलेयको यथा ॥

1.15.3

न प्राप्नोति क्वचित् किञ्चित् प्राप्तैर् अपि महाधनैः ।
नान्तः सम्पूर्णताम् एति करण्डक इवाम्बुभिः ॥

1.15.4

नित्यम् एव मनः शून्यं कदाशावागुरावृतम् ।
न मनाङ् निर्वृतिं श्4: निवृ° याति मृगो श्4: मृग्यो यूथाद् इव च्युतः ॥

1.15.5

तरङ्गतरलां श्4: तरग° वृत्तिं दधद् आलूनशीर्णताम् ।
परित्यज्य क्षणम् अपि न मनो याति निर्वृतिम् ॥

1.15.6

मनो मननविक्षुब्धं दिशो दश विधावति ।
मन्दराहननोद्भूतं क्षीरार्णवपयो यथा ॥

1.15.7

कल्लोलकलनावर्तम् मायामकरमालितम् ।
न निरोद्धुं समर्थो ऽस्मि मनोमोहमहार्णवम् ॥

1.15.8

भोगदूर्वाङ्कुराकाङ्क्षी श्4: °ङ्कुर° श्वभ्रपातम् अचिन्तयन् ।
मनोहरिणको ब्रह्मन् दूरं विपरिधावति ॥

1.15.9

न कदाचन मे चेतस् ताम् आलूनविशीर्णताम् ।
त्यजत्य् आकुलया न्11: °ल्(आ)अ*या* वृत्त्या श्4: °त्त्या (चिन्तानिचयचञ्चुरम्) चञ्चलत्वम् इवार्णवः ॥

1.15.10

चेतश् चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् ।
धृतिम् बध्नाति नैकत्र केसरी पञ्जरे यथा ॥

1.15.11

मनो मोहरथारूढं शरीराच् छमतासुखम् ।
हरत्य् उपगतोद्योगं हंसः क्षीरम् इवाम्भसः ॥

1.15.12

अनल्पकल्पनातल्पे निलीनाश् चित्तवृत्तयः ।
मुनीन्द्र न प्रबुध्यन्ते तेन तप्तो ऽहम् आकुलः ॥

1.15.13

क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना ।
विहगो जालकेनेव ब्रह्मन् बद्धो ऽस्मि चेतसा ॥

1.15.14

सततामर्षधूमेन चिन्ताज्वालाबिलेन च ।
वह्निनेव तृणं शुष्कम् मुने दग्धो ऽस्मि चेतसा ॥

1.15.15

क्रूरेण जडतां यातस् तृष्णाभार्यानुगामिना ।
शवः कौलेयकेनेव ब्रह्मन् भुक्तो ऽस्मि चेतसा ॥

1.15.16

तरङ्गतरलास्फालवृत्तिना जडरूपिणा ।
तटवृक्ष इवौघेन ब्रह्मन् नीतो ऽस्मि चेतसा ॥

1.15.17

अवान्तरनिपाताय शून्येनाक्रमणाय च ।
तृणं न्11: °ण्(आ)अं चण्डानिलेनेव दूरे नुन्नो ऽस्मि चेतसा ॥

1.15.18

संसारजलधेर् अस्मान् नित्यम् उत्तरणोन्मुखः ।
सेतुनेव पयःपूरो रोधितो ऽस्मि कुचेतसा ॥

1.15.19

पातालाद् गच्छता पृष्ठम् पृष्ठात् पातालगामिना ।
कूपकाष्ठं कुदाम्नेव वेष्टितो ऽस्मि कुचेतसा ॥

1.15.20

मिथ्यैव स्फाररूपेण न्11, श्4: स्थार° विचारविशरारुणा ।
बालो वेतालकेनेव गृहीतो ऽस्मि स्वचेतसा ॥

1.15.21

वह्नेर् उष्णतरः श्4: °तराच् शैलाद् अपि कष्टतरक्रमः ।
वज्राद् अपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः ॥

1.15.22

चेतः पतति कार्येषु विहगश् चामिषेष्व् इव ।
क्षणेन विरतिं याति बालः क्रीडनकाद् इव ॥

1.15.23

जडप्रकृतिर् आलोलो विततावर्तवृत्तिमान् ।
मनोऽब्धिर् ईहितव्यालो दूरान् नयति तात माम् ॥

1.15.24

अप्य् अब्धिपानान् महतः सुमेरूल्लङ्घनाद् श्4: समेरूलङ्° अपि ।
अपि वह्न्यशनात् साधो विषमश् चित्तनिग्रहः ॥

1.15.25

चित्तं कारणम् अर्थानां तस्मिन् सति जगत्त्रयम् ।
तस्मिन् क्षीणे जगत् क्षीणं तच् चिकित्स्यम् प्रयत्नतः ॥

1.15.26

चित्ताद् इमानि सुखदुःखशतानि नूनम् अभ्यागतान्य् अगवराद् इव काननानि ।
तस्मिन् विवेकवशतस् तनुताम् प्रयाते मन्ये मुने निपुणम् एव गलन्ति तानि ॥

1.15.27

सकलगुणजयाशा यत्र बद्धा महद्भिस् तम् अरिम् इह विजेतुं चित्तम् अभ्युत्थितो ऽहम् ।
विगतरतितयान्तर् नाभिनन्दामि लक्ष्मीं श्4: °क्ष्मी जडमलिनविशालाम् मेघमालाम् इवेन्दुः ॥

मूल पाठ: Mokṣopāyaṭīkā · Edition: Walter Slaje 1. (Vairāgya-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kritische Ausgabe des Mokṣopāya 3 Walter Slaje 2. Prakaraṇa (Mumukṣuvyavahāra). Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz Leykam Materialien für eine kritische Ausgabe des Mokṣopāya 1 Walter Slaje 3. (Utpatti-)Prakaraṇa. Bhāskarakaṇṭhas Mokṣopāya-Ṭīkā Graz EWS-Fachverlag Materialien für eine kri · Data entry Walter Slaje · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc