भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.98

6.98.1

एवं वदति वै कुम्भे चित्तत्यागं मुहुर् मुहुः ।
अन्तर् विचारयन् सोम्यो राजा वचनम् अब्रवीत् ॥

6.98.2

हृदयाकाशविहगो हृदयद्रुममर्कटः ।
भूयो भूयो निरस्तं हि समायात्य् एव मां मनः ॥

6.98.3

जानामि नैतद् आदातुं मत्स्यं बाल इवाकुलम् ।
त्यागम् अस्य न जानामि चित्रम् अन्ध इवोत्तमम् ॥

6.98.4

चित्तस्यादौ स्वरूपं मे यथावद् भगवन् वद ।
ततश् चित्तपरित्यागं यथावद् भगवन् वद ॥

6.98.5

वासनैव महाराज स्वरूपं विद्धि चेतसः ।
चित्तशब्दस् तु पर्यायो वासनाया उदाहृतः ॥

6.98.6

त्यागस् त्व् अस्यातिसुकरस् सुसाधस् स्पन्दनाद् अपि ।
रताद् अप्य् अधिकानन्दः कुसुमाद् अपि सुन्दरः ॥

6.98.7

मूर्खस्य तु मनस्त्यागो नूनं दुस्साधतां गतः ।
पुक्कसस्येव साम्राज्यं तृणस्येव सुमेरुता ॥

6.98.8

स्वरूपं वेद्मि चित्तस्य वासनामयम् आकुलम् ।
त्यागो ऽस्य मन्ये दुस्साधो वज्रनिर्दलनाद् अपि ॥

6.98.9

संसृत्यामोदपुष्पस्य दुःखतैलतिलस्य च ।
जगद्वालमृणालस्य मोहमारुतखस्य च ॥

6.98.10

शरीरयन्त्रवाहस्य हृत्पद्मभ्रमरस्य च ।
अयत्नाच् चेतसस् त्यागो यथा भवति तद् वद ॥

6.98.11

सर्वनाशो ऽस्य यस् साधो चेतसस् संसृतिक्षयः ।
स एव चित्तसन्त्याग इत्य् उक्तं दीर्घदर्शिभिः ॥

6.98.12

चित्तत्यागाद् अहं मन्ये चित्तनाशस् स्वसिद्धये ।
अभावश् चेतसो व्याधेः कथम् अस्यानुभूयते ॥

6.98.13

अहम्बीजद्रुमं चित्तं सशाखाफलपल्लवम् ।
उन्मूलय समूलं त्वम् आकाशविशदो भवन् ॥

6.98.14

चेतसः किं मुने मूलं को ऽङ्कुरः कश् च सम्भवः ।
काश् शाखाः के च वा स्कन्धाः कथम् उन्मूल्यते च तत् ॥

6.98.15

अहमर्थोदयो यो ऽयं चिदात्मा वेदनात्मकः ।
एतच् चित्तद्रुमस्यास्य विद्धि बीजं जगद्गतम् ॥

6.98.16

अहम्भावात्मकं वित्त्वं चित्तबीजम् उदाहृतम् ।
परमात्मपदक्षेत्रं नेत्रं मायामयस्य तत् ॥

6.98.17

एतस्मात् प्रथमोद्भिन्नाद् यो ऽङ्कुरो ऽनुभवाकृतिः ।
निश्चयात्मा निराकारो बुद्धिर् इत्य् एव सोच्यते ॥

6.98.18

अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता ।
सङ्कल्परूपिणी तस्याश् चित्तं नाम मनो ऽभिधा ॥

6.98.19

जीवो मिथ्योपलम्भात्मा शून्यात्माप्य् उपलोपमः ।
स्तम्भः कायो ऽयम् एतस्य स्नाय्वस्थिरसरञ्जितः ॥

6.98.20

देशाद् देशान्तरे दूरे देशकालविदो ऽस्य याः ।
शाखास् ताश् चित्तवृक्षस्य दीर्घा दूरतरास् तताः ॥

6.98.21

इन्द्रियाण्य् अथ भोगाश् च भावाभावमयोर्मयः ।
विटपौघा महान्तो ऽस्य शुभाशुभफलाकुलाः ॥

6.98.22

ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम् ।
शाखाविलवनं कुर्वन् मूलकाषे भरं कुरु ॥

6.98.23

चित्तद्रुमस्य शाखादेः कुर्वाणो ऽहं विकर्तनम् ।
कथं करोमि मूलस्य निश्शेषं कषणं मुने ॥

6.98.24

वासना विविधाश् शाखाः फलस्कन्धादिनान्विताः ।
अभाविता भवन्त्य् अन्तर् लूनास् संविद्बलेन ते ॥

6.98.25

असंसक्तमना मौनी शान्तवादविचारणः ।
सम्प्राप्तकारी यस् सो ऽन्तर् लूनचित्तलतो भवेत् ॥

6.98.26

चित्तद्रुमलताजालं पौरुषेण विकर्तयन् ।
यस् तिष्ठति स मूलस्य योग्यो निकषणे भवेत् ॥

6.98.27

गौणं शाखाविलवनं मुख्यं मूलविकर्तनम् ।
चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव ॥

6.98.28

मुख्यत्वेन महाबुद्धे मूलदाहम् अलं कुरु ।
चित्तकण्टकषण्डस्य भवत्य् एवम् अचित्तता ॥

6.98.29

अहम्भावात्मनश् चित्तद्रुमबीजस्य हे मुने ।
को ऽनलो दाह्यदहनसमर्थो ऽर्थकरो भवेत् ॥

6.98.30

राजन् स्वात्मविचारो ऽयं को ऽहं स्याम् इति रूपधृत् ।
चित्तदुर्द्रुमबीजस्य दहने दहनस् स्मृतः ॥

6.98.31

मुने मया महाबुद्ध्या बहुशः प्रविचारितम् ।
यावन् नाहं जगन् नोर्वी न च मण्डलमण्डलम् ॥

6.98.32

नाद्रेस् तटं न विपिनं न पर्णसदनादि वा ।
जडत्वान् न च देहादि न मांसास्थ्यसृगादि च ॥

6.98.33

कर्मेन्द्रियाण्य् अपि न च न च बुद्धीन्द्रियाणि च ।
न मनो नापि च मतिर् नाहम्भावश् च जाड्यतः ॥

6.98.34

कटकत्वं यथा हेम्नि तथाहन्त्वं चिदात्मनि ।
जडं त्व् असद्रूपतया तेन तन् नास्मि हे मुने ॥

6.98.35

सन्निवेशविशेषात्मशब्दार्थादि परे पदे ।
विद्यते नात्यनन्तत्वान् नभसीव महाद्रुमः ॥

6.98.36

जानन्न् अपीति भगवन्न् अहन्त्वमलमार्जनम् ।
अन्तर् यदा न जानामि तेन तप्ये महामुने ॥

6.98.37

एतावन्मात्रकं वृन्दं यदि न त्वं महीपते ।
जडत्वात् तन् महाबुद्धे यो ऽसि तं वद मे नवम् ॥

6.98.38

चिन्मात्रम् अहम् अच्छात्मवेदनं विदुषां वर ।
यत्र भावास् स्वदन्त्य् एते निर्मीयन्ते च येन वा ॥

6.98.39

एवंरूपस्य मे लग्नं नूनं मलम् अकारणम् ।
सकारणं चाहम् इति यत् तत् त्यक्तुं न वेद्म्य् अहम् ॥

6.98.40

असद् एतद् अनात्मीयं प्रमार्ष्टुं मलम् आत्मनः ।
मुने यदा न शक्तो ऽस्मि तेन तप्ये सुदारुणम् ॥

6.98.41

ब्रूहि किं तन् महाबाहो लग्नं तव मलं महत् ।
स्थितो ऽसि येन संसारी सता वाप्य् असताथ वा ॥

6.98.42

चित्तद्रुमस्य यद् बीजम् अहम्भावस् स मे मलम् ।
तच् च त्यक्तुं न जानामि त्यक्तं त्यक्तम् उपैति माम् ॥

6.98.43

कारणाज् जायते कार्यं यत् तत् सर्वत्र सद् भवेत् ।
अन्यत् त्व् असद् द्विचन्द्राभं दृष्टम् एव न विद्यते ॥

6.98.44

कारणाज् जायते कार्यम् अहम्भावात्मकं ततः ।
इतिकारणम् अन्विष्य कथयाशु ममात्मना ॥

6.98.45

मुने ऽहम् इति दोषस्य वेदनं वेद्मि कारणम् ।
तद् यथोपशमं याति तन् मे वद मुनीश्वर ॥

6.98.46

चितश् चेत्योन्मुखत्वेन दुःखायाहम् इति स्थितः ।
चेत्योपशमनं ब्रूहि मुने तदुपशान्तये ॥

6.98.47

कारणं कारणज्ञो ऽसि वेदनस्य वदाशु मे ।
ततस् त्वां बोधयिष्यामि कारणाकारणक्रमम् ॥

6.98.48

वेद्यवेदनरूपस्य चेत्यसञ्चेतनस्य च ।
अकारणं कारणतां यद् गतं तव तद् वद ॥

6.98.49

चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः ।
इयं पदार्थसत्तेह देहाद्या कारणं मुने ॥

6.98.50

शरीरादितयोदेति वेदनं वस्तुसत्तया ।
असत्याभासया स्पन्दो यथा पवनलेखया ॥

6.98.51

असत्तां वस्तुसत्ताया नावगच्छाम्य् अहं यया ।
अहन्त्ववेदनं चित्तबीजं समुपशाम्यति ॥

6.98.52

विद्यते यदि देहादिवस्तुसत्ता तद् अस्ति ते ।
अभावाद् देहसत्तादेः किंनिष्ठं तव वेदनम् ॥

6.98.53

यस्योपलभ्यते किञ्चित् स्वरूपं कलनात्मकम् ।
असद्रूपं कथं तत् स्यात् प्रकाशस् स्यात् कथं तमः ॥

6.98.54

हस्तपादादिसंयुक्तः क्रियाफलविलासवान् ।
सदानुभूयमानो ऽपि देहो नास्ति कथं मुने ॥

6.98.55

कारणं यस्य कार्यस्य भूमिपाल न विद्यते ।
विद्यते नेह तत् कार्यं तत्संवित्तिस् तु विभ्रमः ॥

6.98.56

कारणेन विना कार्यं विद्यते न कदाचन ।
विद्यते यस्य नो बीजं तद् द्रव्यं क्वेव जायते ॥

6.98.57

अकारनं तु यत् कार्यं सद् इवाग्रे ऽनुभूयते ।
तद् द्रष्टुर् विभ्रमं विद्धि मृगतृष्णाजलोपमम् ॥

6.98.58

अविद्यमानम् एव त्वं विद्धि मिथ्याभ्रमोदितम् ।
नातियत्नवताप्य् एतन् मृगतृष्णाम्बु लभ्यते ॥

6.98.59

असतो द्वीन्दुबिम्बादेर् न युक्तं कारणेक्षणम् ।
वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते ॥

6.98.60

कारणेन विना कार्यं शरीराद्य् अस्थिपञ्जरम् ।
अविद्यमानम् एवेदं विद्ध्य् असम्भवतो नृप ॥

6.98.61

हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर ।
नित्यम् आलक्ष्यमाणस्य पिता कस्मान् न कारणम् ॥

6.98.62

कारणाभावतो राजन् पिता नाम न विद्यते ।
असतो यत् तु सञ्जातम् असद् एव तद् उच्यते ॥

6.98.63

पदार्थानां च कार्याणां कारणं बीजम् उच्यते ।
सम्भवत्य् अङ्ग जगति न बीजेन विनाङ्कुरः ॥

6.98.64

तस्मान् न कारणं यस्य कार्यस्येहोपपद्यते ।
बीजाभावे हि तन् नास्ति तत्संवित्तिस् तु विभ्रमः ॥

6.98.65

अवश्यम् एव यन् नास्ति निर्बीजं तन् मतिभ्रमः ।
द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदृशा समः ॥

6.98.66

पितामहानां पुत्राणां पितॄणां च जगत्त्रये ।
आद्यः पितामहः कस्मात् पूर्वोत्पन्नो न कारणम् ॥

6.98.67

आद्यः पितामहो यस् स्यात् सो ऽपि नास्त्य् एव भूपते ।
कारणाभावतो नित्यं यदा कार्यं न कस्यचित् ॥

6.98.68

कारणस्य स्वबीजस्य नित्याभावात् पितामहः ।
आद्यस् सन् दृश्यमानो ऽपि भ्रमाद् अन्यो न विद्यते ॥

6.98.69

मृगतृष्णाम्बुवद् भ्रान्तिरूप एवावभासते ।
पितामहो ऽर्थकारित्वम् अपि त्व् अस्य भ्रमात्मकम् ॥

6.98.70

पितामहादेर् एतस्य मिथ्याप्रत्ययतस् त्व् इति ।
घनता तु निवृत्तैव मार्जयिष्याम्य् अथेतरत् ॥

6.98.71

तस्माच् चिदात्मकतयात्मनि चिन्नभो यन् नित्यं स्वयं कचति चारु तद् एष देवः ।
तेनैव पद्मज इति स्वयम् आत्मनात्मा प्रोक्तः खरूप इति शान्तम् इदं समस्तम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc