भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.97

6.97.1

अथोत्थाय ददाहासौ शुष्कं तत् पर्णमन्दिरम् ।
अज्ञेन स्वेन मनसा वृथा सङ्कल्प्यकल्पितम् ॥

6.97.2

शिष्टं यत् किञ्चिद् अभवत् तत्र तत् स शिखिध्वजः ।
असंरब्धमना मौनी क्रमेण समया धिया ॥

6.97.3

ददाह दूरे चिक्षेप तत्याज च बभञ्ज च ।
भाण्डजातं स्ववसनभोजनाद्य् अपि रुष्टवत् ॥

6.97.4

स बभूवाश्रमस् तस्य दग्धनष्टनिजस्थितिः ।
वीरभद्रबलध्वस्तदक्षयज्ञाश्रमोपमः ॥

6.97.5

आश्रमात् ते मृगखगास् त्यक्तरोमन्थम् उद्ययुः ।
साग्निदाहात् पुरवराद् भीतभीता जना इव ॥

6.97.6

भाण्डजातं दहत्य् अग्नौ सह शुष्केन्धनेन तत् ।
केवलाकृतिर् अस्नेहस् तुष्टिमान् आह भूपतिः ॥

6.97.7

अहो नु चिरकालेन देवपुत्र प्रबोधितः ।
सम्पन्नः केवलश् शुद्धस् सुखितो बोधवान् अहम् ॥

6.97.8

किं नाम किल वस्त्व् एतद् भवेत् साङ्कल्पिकक्रमम् ।
यद् भाण्डोपस्करस्थानसदनाद्यवलम्बनम् ॥

6.97.9

यावद् यावत् प्रहीयन्ते विबन्धा बन्धहेतवः ।
तावत् तावत् समायाति परमां निर्वृतिं मनः ॥

6.97.10

शाम्यामि परिनिर्वामि सुखितो ऽस्मि जयाम्य् अहम् ।
विबन्धाः प्रक्षयं यातास् सर्वत्यागो मया कृतः ॥

6.97.11

दिगम्बरो दिक्सदनो दिक्सखो ऽयम् अहं स्थितः ।
देवपुत्र महात्यागात् किम् अन्यद् अवशिष्यते ॥

6.97.12

सर्वम् एव न सन्त्यक्तं त्वया राजञ् शिखिध्वज ।
सर्वत्यागपरानन्दं मा मुधाभिनयीकुरु ॥

6.97.13

तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः ।
यं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम् ॥

6.97.14

इति श्रुतवता तेन किञ्चित् सञ्चिन्त्य भूभृता ।
इदम् उक्तं महाबाहो राम राजीवलोचन ॥

6.97.15

इन्द्रियव्यालसङ्घातो रक्तमांसमयाकृतिः ।
शिष्यते सर्वसन्त्यागे देहो मे देवतात्मज ॥

6.97.16

तद् उत्थाय पुरस्संस्थभृगुपाताद् अविघ्नजात् ।
विनाशात्मकतां नीत्वा सर्वत्यागी भवाम्य् अहम् ॥

6.97.17

इत्य् उक्त्वा देहम् अग्रस्थे श्वभ्रे त्यक्तुम् असौ जवात् ।
करोति यावद् उत्थानं तावत् कुम्भो ऽभ्युवाच ह ॥

6.97.18

राजन् किम् इति देहं त्वं निरागस्कं महावटे ।
त्यजस्य् अज्ञो हि वृषभः कुपितो हन्ति तर्णकम् ॥

6.97.19

जडो वराको मूकात्मा तपस्वी देहको ह्य् अयम् ।
न कश्चन तवैतस्मै मा मुधैव रुषं कुरु ॥

6.97.20

आत्मन्य् एवैष मूढात्मा ध्यानवान् इव तिष्ठति ।
सञ्चाल्यते परेणैव तरङ्गेणेव काष्ठकम् ॥

6.97.21

क्षोभयत्य् अन्य एवैनं निग्रहार्हो मुहुर् बलात् ।
तपस्विनं यथैकान्तसंस्थितं मत्ततस्करः ॥

6.97.22

सुखदुःखानुभूत्या हि नापराधि शरीरकम् ।
नात्मनः फलपातात् स स्पन्दैर् वृक्षो ऽपराधवान् ॥

6.97.23

वातः फलशिखापुष्पपातनं कुरुते स्फुरन् ।
तरुणा साधुना साधोर् अपराद्धं किम् आत्मनः ॥

6.97.24

त्यक्तेनापि शरीरेण किल तामरसेक्षण ।
सर्वत्यागो न ते याति निष्पत्तिं विषमो हि सः ॥

6.97.25

भृगोः केवलम् एतत् त्वं निरागस्कं शरीरकम् ।
मुधा क्षिपसि नो देहत्यागेन त्यागिता भवेत् ॥

6.97.26

येनायं क्षोभ्यते देहो मत्तेभेनेव पादपः ।
तत् सन्त्यजसि चेत् पापं तन् महात्यागवान् भवान् ॥

6.97.27

तस्मिंस् त्यक्ते भवेत् त्यक्तं सर्वं देहादि भूपते ।
नो चेन् निर्दग्धम् अप्य् एतद् भूयो भूयः प्ररोहति ॥

6.97.28

केनायं चाल्यते देहः किं बीजं जन्मकर्मणाम् ।
कस्मिंस् त्यक्ते परित्यक्तं सर्वं भवति सुन्दर ॥

6.97.29

साधो न देहत्यागेन न राज्यत्यजनेन च ।
न चोटजादिप्लोषेण सर्वत्यागो भवेन् नृणाम् ॥

6.97.30

यत् सर्वं सर्वतो यच् च तस्मिन् सर्वैककारणे ।
सर्वस्मिन् सम्परित्यक्ते सर्वत्यागः कृतो भवेत् ॥

6.97.31

सर्वं सर्वगतं सार्वं हेयं त्याज्यं च सर्वथा ।
सर्वं किम् उच्यते ब्रूहि सर्वतत्त्वविदां वर ॥

6.97.32

साधो सर्वकलाधारं जीवप्राणादिनामकम् ।
न जडं नाजडं भ्रान्तं चित्तं सर्वम् इति स्मृतम् ॥

6.97.33

राज्यादेर् अथ देहादेर् आश्रमादेर् महीपते ।
सर्वस्यैव मनो बीजं तरुबीजं तरोर् इव ॥

6.97.34

सर्वस्य बीजे सन्त्यक्ते सर्वं त्यक्तं भवत्य् अलम् ।
सम्भवासम्भवाद् भूयस् सर्वत्यागो भवेद् इति ॥

6.97.35

सर्वं धर्माद्य् अधर्मादि राज्यादि विपिनादि च ।
सचित्तस्य परं दुःखं निश्चित्तस्य परं सुखम् ॥

6.97.36

इदं विवर्तते सर्वं चित्तम् एव जगत्तया ।
देहाद्याकारजालेन बीजं वृक्षतया यथा ॥

6.97.37

पादपः पवनेनेव भूकम्पेनेव पर्वतः ।
भस्त्रा भस्त्राहिनेवायं देहश् चित्तेन चाल्यते ॥

6.97.38

सर्वभूतोपभोग्यानां जरामरणजन्मनाम् ।
महामणीनां सुदृढं चित्तं विद्धि समुद्गकम् ॥

6.97.39

चित्तं जीवो मनो माया प्राणश् चेत्यादिभिर् मुने ।
क्रियानुरूपैर् अभिधाव्यापारैश् चित्तम् उच्यते ॥

6.97.40

चित्तं सर्वम् इति प्राहुस् तस्मिंस् त्यक्ते महीपते ।
सर्वाधिव्याधिसीमान्ते सर्वत्यागः कृतो भवेत् ॥

6.97.41

चित्तत्यागं विदुस् सर्वत्यागं त्यागविदां वर ।
तस्मिन् सिद्धे महाबाहो सत्यं केनापि भूयते ॥

6.97.42

चित्ते त्यक्ते लयं याति द्वैतम् ऐक्यं च सर्वतः ।
केनचिद् भूयते शान्तं स्वच्छम् एकम् अनामयम् ॥

6.97.43

अस्याः क्षेत्रं विदुश् चित्तं संसृतेस् सस्यसन्ततेः ।
क्षेत्रे त्व् अक्षेत्रतां याते शालेः क इव सम्भवः ॥

6.97.44

चित्तम् एव विचित्रेहं भावाभावविलासिना ।
विवर्तते ऽर्थभावेन जलम् ऊर्मितया यथा ॥

6.97.45

चित्तोत्सादनरूपेण सर्वत्यागेन भूपते ।
सर्वम् आसाद्यते सम्यक् साम्राज्येनेव सर्वदा ॥

6.97.46

सर्वत्यागस्य विषयो यथैवान्यो ऽस्ति ते तथा ।
त्वम् अप्य् अन्यस्य भवसि त्यागिन् गृह्णासि चेन् नृप ॥

6.97.47

सूत्रं मुक्ताफलेनेव जगज्जालं त्रिकालगम् ।
सर्वम् अन्तःकृतं तेन येन सर्वं समुज्झितम् ॥

6.97.48

येन सर्वं परित्यक्तं तस्मिञ् शून्ये ऽपि संस्थितं ।
जगत् सर्वं त्रिकालस्थं तन्तुर् मुक्ताफले यथा ॥

6.97.49

सस्नेहेनेव दीपेन तेन सर्वं प्रकाशितम् ।
स्थितस् सर्वं परित्यज्य यश् शान्तो ऽस्नेहदीपवत् ॥

6.97.50

अस्नेहेनेव दीपेन येन सर्वं तिरोहितम् ।
स राजते प्रकाशात्मा समस् सस्नेहदीपवत् ॥

6.97.51

समस्तवस्तुनिष्कासे यथा खम् अवशिष्यते ।
सर्वत्यागे कृते तादृग् विज्ञानम् अवशिष्यते ॥

6.97.52

समस्तवस्तूदासो हि यथा खं नेतरन् नृप ।
सर्वसन्त्याग एवाङ्ग तथा निर्वाणम् उच्यते ॥

6.97.53

सर्वत्यागो हि शून्यात्माप्य् आश्रयस् सर्वसम्पदाम् ।
अनन्तानाम् उदाराणां खम् इवेदं दिवौकसाम् ॥

6.97.54

सर्वत्यागरसापानाज् जरामरणभीतयः ।
न काश्चन प्रबाधन्ते खस्येव मललेखिकाः ॥

6.97.55

सर्वत्यागो महत्त्वस्य कारणं निर्मलद्युतेः ।
सर्वं त्यजति खं यस्मात् तस्माच् छुद्धं स्थिरं बृहत् ॥

6.97.56

सर्वत्यागः परानन्दो दुःखम् अन्यत् सुदारुणम् ।
इत्य् ओम् इत्य् उररीकृत्य यद् इच्छसि तद् आचर ॥

6.97.57

सर्वं त्यजति यस् तस्य सर्वम् एवोपतिष्ठते ।
यथैवाम्बु विशत्य् अग्नौ तथैवायाति वारिधौ ॥

6.97.58

सर्वत्यागान्तर् एवास्ति ज्ञानम् आत्मप्रसादकम् ।
यच् छून्यं किल भाण्डस्य तत्र रत्नादि तिष्ठति ॥

6.97.59

सर्वत्यागवशाद् एव हतकाले कलाव् अपि ।
शाक्येन विगताशङ्कं मुनिना मेरुवत् स्थितम् ॥

6.97.60

सर्वत्यागो महाराज सर्वसम्पत्समाश्रयः ।
न गृह्णाति हि यः कश्चित् सर्वं तस्मै प्रदीयते ॥

6.97.61

कृत्वा सर्वपरित्यागं शान्तस् स्वच्छो वियत्समः ।
सोम्यो भवसि यद्रूपस् तद्रूपो भव भूपते ॥

6.97.62

सर्वं परित्यज्य महानुभाव त्यजस्य् अलं येन च तद् विहाय ।
त्यागं च सादानम् अलं विमुच्य विमुक्तरूपो भव भूमिपाल ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc