मोक्षोपाय · अध्याय 6.99
आब्रह्मस्तम्बपर्यन्तं यद्य् अयं भासते भ्रमः ।
अर्थक्रियासमर्थश् च तत् स्थितं दुःखकारणम् ॥
एवं जगद्भ्रमस्यास्य तानवं तावद् आगतम् ।
शिलीभूतस्य शीतेन सलिलस्येव सूष्मणा ॥
अज्ञानं शिथिलीभूतम् एव नष्टं विदुर् बुधाः ।
न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः ॥
तनुत्वं सर्गबोधस्य यत् तद् एव हि कारणम् ।
सर्गोपशमसम्पत्तेः प्रतिपत्तेः परे पदे ॥
तानवं दृश्यते यस्य तस्यानुक्रमतस् स्वयम् ।
पूर्वसंस्थानविगमात् प्रशमो ऽप्य् उपपद्यते ॥
अनेनैव क्रमेणैनं त्वम् आदिपुरुषं नृप ।
भ्रमाकारोदयं विद्धि मृगतृष्णाम्ब्व् इवोदितम् ॥
एषा पितामहाभावे ऽप्य् असती भूतसन्ततिः ।
न कदाचन तत् सिद्धं यद् असिद्धेन साध्यते ॥
अयं भूतोपलम्भो हि मृगतृष्णाम्ब्व् इवोदितः ।
विचाराद् विलयं याति शुक्तौ रजतधीर् इव ॥
कारणाभावतः कार्यम् अभूत्वा भवतीति यत् ।
मिथ्याज्ञानाद् ऋते तस्य न रूपम् उपपद्यते ॥
मिथ्यादृष्टिः प्रेक्षिता च न कदाचन विद्यते ।
मृगतृष्णाम्भसा केन घटकाः परिपूरिताः ॥
स्रष्टुर् आद्यस्य परमं ब्रह्म कस्मान् न कारणम् ।
अनन्तम् अजम् अव्यक्तम् ईश्वरं शान्तम् अच्युतम् ॥
हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस् ततः ।
अद्वैतैक्याविकारात्म न कार्यं न च कारणम् ॥
अकर्तृकर्मकरणम् अकारणम् अबीजकम् ।
अप्रतर्क्यम् अविज्ञेयं ब्रह्म कर्तृ कथं भवेत् ॥
अकारणत्वात् कार्यत्वरहितं तद् यदा भवेत् ।
अद्वैतैक्यम् अनाद्यन्तं तदा तदुपलम्भनम् ॥
अप्रतर्क्यम् अविज्ञेयं यच् छिवं शान्तम् अव्ययम् ।
तत् कथं कस्य केनेव कर्तृ भोक्तृ कदा भवेत् ॥
अतो नेदं कृतं किञ्चिज् जगदादि न विद्यते ।
न कर्तास्ति न भोक्तास्ति सर्वं शान्तम् अजं शिवम् ॥
कारणाभावतः कार्यं न कस्यचिद् इदं जगत् ।
अकार्यत्वाच् च नास्त्य् एतत् सर्ग इत्थं न विद्यते ॥
यदा न कस्यचित् कार्यं कारणस्य जगत् तदा ।
पदार्थाभावसंसिद्धिस् तत्सिद्धौ कस्य वेदनम् ॥
एवं तु वेदनाभावे नास्त्य् अहन्त्वस्य कारणम् ।
अतश् शुद्धो ऽसि मुक्तो ऽसि केवोक्तिर् बन्धमोक्षयोः ॥
आं प्रबुद्धो ऽस्मि भगवन् युक्तम् उक्तं त्वयोत्तमम् ।
कारणाभावतः कर्तृ नेह ब्रह्मेति वेद्म्य् अहम् ॥
कर्त्रभावाज् जगन् नास्ति तेन नास्ति पदार्थदृक् ।
नातश् चित्तादि तद्बीजं नातो ऽहन्तादि किञ्चन ॥
एवं स्थिते विशुद्धो ऽस्मि विबुद्धो ऽस्मि न चास्मि च ।
नमो मह्यं परं नौमि नकिञ्चिद् अपि बोधतः ॥
पदार्थवेदनं मिथ्यैवासद् एवावभासते ।
अहमाद्य् अलम् एतेन शान्तम् आसे खकोशवत् ॥
जगत्पदार्थप्रविभागदृष्टिस् सदेशदिक्कालकलाक्रियौघा ।
अहो नु कालेन चिरेण शान्ता ब्रह्मैव वा नूनम् अवस्थितेति ॥
शाम्यामि निर्वामि परं स्थितो ऽस्मि न यामि नोदेमि न चास्तम् एमि ।
तिष्ठाम्य् अनिष्ठं च यथास्थितात्मा शिवं शुभं पावनमौनम् अस्मि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0