भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.96

6.96.1

यद् उक्तं नयशालिन्या तया विदितवेद्यया ।
तदा चूडालया ज्ञानं तत् कस्मान् नोररीकृतम् ॥

6.96.2

सा हि तत्त्वविदां मुख्या यद् यद् वक्ति करोति च ।
तत् सर्वं सत्यम् एवाङ्ग तद् अनुष्ठेयम् आदरात् ॥

6.96.3

अथ चेद् वचनं तस्यास् त्वया नानुष्ठितं नृप ।
तत् स सर्वपरित्यागः कस्मान् न निपुणीकृतः ॥

6.96.4

राज्यं त्यक्तं गृहं त्यक्तं देशस् त्यक्तस् तथाविधः ।
दारास् त्यक्तास् तथाप्य् अङ्ग सर्वत्यागो न किं कृतः ॥

6.96.5

धनं दारा गृहं राज्यं भूमिश् छत्त्रं च बान्धवाः ।
इति सर्वं न ते राजन् सर्वत्यागो ऽत्र कस् तव ॥

6.96.6

तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः ।
तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम् ॥

6.96.7

राज्यं चेन् मम नो सर्वं तत् सर्वं वनम् एव मे ।
सालवृक्षादिगुल्माढ्यं तद् अप्य् एतत् त्यजाम्य् अहम् ॥

6.96.8

इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः ।
निमेषान्तरमात्रेण वशी वीरश् शिखिध्वजः ॥

6.96.9

प्रममार्ज वनास्थां तां हृदस् सुदृढनिश्चयः ।
प्रावृड्वातस् तटगतां रजोरेखाम् इवात्मनः ॥

6.96.10

सवृक्षादिवनश्वभ्राद् विपिनाद् अपि वासना ।
परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम ॥

6.96.11

अद्रेस् तटवनं श्वभ्रं सलिलं पादपास् स्थलम् ।
इत्यादि तव नो सर्वं सर्वत्यागः कथं तव ॥

6.96.12

तवास्त्य् एवापरित्यक्तस् सर्वस्माद् भाग उत्तमः ।
तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम् ॥

6.96.13

एतच् चेन् मम नो सर्वं तत् सर्वं स्वाश्रमो मुने ।
वापीस्थलोटजयुतस् तम् एवाशु त्यजाम्य् अहम् ॥

6.96.14

इति राम वदन्न् एव कुम्भवाक्यप्रचोदितः ।
निमेषध्यानमात्रेण वशी वीरश् शिखिध्वजः ॥

6.96.15

प्रममार्जाश्रमास्थां तां संविदा शुद्धया हृदि ।
स्फुरन्तीं स्फुरणेनैव रजोरेखाम् इवानिलः ॥

6.96.16

सवृक्षोटजवीरुत्काद् वासना स्वाश्रमाद् अपि ।
परित्यक्ता मया नूनं सर्वत्यागस् स्थितो मम ॥

6.96.17

वृक्षो वापी स्थलं गुल्म उटजं व्रततीवृतिः ।
इति किञ्चिन् न ते सर्वं सर्वत्यागः कुतस् तव ॥

6.96.18

तवास्त्य् अन्यो ऽपरित्यक्तस् सर्वस्माद् भाग उत्तमः ।
तं परित्यज्य निश्शेषं पराम् आयास्य् अशोकताम् ॥

6.96.19

एतच् चेन् मम नो सर्वं तत् सर्वं भाजनादि मे ।
चर्मकुट्यक्षसूत्रादि तत् तावत् सन्त्यजाम्य् अहम् ॥

6.96.20

इत्य् उक्त्वा स समुत्तस्थाव् अविक्षुब्धमनाश् शमी ।
विष्टराद् अवदातात्मा शृङ्गाद् इव शरद्घनः ॥

6.96.21

कुम्भस् त्व् आलोकयन्न् एव तत्क्रियां संस्थितस् समाम् ।
आसने लोककार्येषु स्वे स्यन्दन इवांशुमान् ॥

6.96.22

यत् करोति करोत्व् एतद् अस्यैतत् पावनं परम् ।
इति तूष्णीं स्थितः कुम्भश् शिखिध्वजम् अवैक्षत ॥

6.96.23

शिखिध्वजस् तु तत् सर्वं भाण्डोपस्करम् आश्रमात् ।
एकत्रैवानयाम् आस भुवो वार्य् अब्धिभूर् इव ॥

6.96.24

तत् संस्थाप्येन्धनैश् शुष्कैर् ज्वलयाम् आस पावकम् ।
करसञ्चारवान् अर्कस् सूर्यकान्ततटं यथा ॥

6.96.25

भाण्डोपस्करजातं तद् अग्नौ त्यक्तुं विवेश सः ।
बृसिकायां जगद् दग्धुं मेरुशृङ्गे यथा रविः ॥

6.96.26

एतावन्तं मया कालं वृतो यत् त्वं व्रतिप्रिय ।
अजातबुद्धिभेदेन तेनैवानृण्यम् अस्तु ते ॥

6.96.27

भ्रान्तौ तु विनिवर्तिन्यां नाधुनोपकरोषि मे ।
देवपुत्रप्रसादेन दण्डकाष्ठ नमो ऽस्तु ते ॥

6.96.28

इत्य् उक्त्वा वैणवं दण्डं चिक्षेपाग्नौ शिखिध्वजः ।
गाङ्गं प्रवाहम् आदीर्घं वडवाग्नाव् इवार्णवः ॥

6.96.29

प्रसङ्ख्यातान्य् असङ्ख्यानि जन्मानीव त्वया मया ।
सखि मन्त्रपदान्य् अद्य याहि नोपकरोषि मे ॥

6.96.30

मन्त्राटव्यां चिरं भ्रान्तं विहृतं कार्यवर्त्मसु ।
दृष्टानि धर्मस्थानानि विश्राम्याम्य् अधुना सखि ॥

6.96.31

इत्य् अक्षमालां ज्वलने चिक्षेपोक्त्वा शिखिध्वजः ।
कल्पान्ताग्नाव् इव व्योमतारालीं पवनो ऽमलाम् ॥

6.96.32

मया नरमृगेण त्वं चिरं वनमृगच्युतम् ।
अबोधेन धृतं वृत्त्या दययेव मृगाजिन ॥

6.96.33

इदानीं गच्छ सच्छाय पन्थानस् सन्तु ते शिवाः ।
वह्निना व्योमतां गच्छ सतारं व्योम ते समम् ॥

6.96.34

उन्मोच्याङ्गात् कराभ्यां च धृत्वा चर्म जहाव् इति ।
नृपो ऽग्नाव् अम्बुदं वातो दववह्नाव् इवाचलात् ॥

6.96.35

मया धृतेन भवता त्वया वारि धृतं मम ।
साधो कमण्डलो सम्यक्कृते प्रतिकृतं कृतम् ॥

6.96.36

सौहृदस्य मनोज्ञस्य सौजन्यस्य स्थिरस्य च ।
साधुत्वस्य च सर्वस्य त्वम् एकः परमास्पदम् ॥

6.96.37

येनैव वह्निना देहं संशोध्याभ्यागतो ऽसि माम् ।
तेनैव गच्छ हे मित्र पन्थानस् सन्तु ते शिवाः ॥

6.96.38

इत्य् उक्त्वा श्रोत्रियायैष कमण्डलुम् अदात् तदा ।
अग्नये महते वापि दातव्यं साधु यद् भवेत् ॥

6.96.39

मूर्खस्येव मतिर् गुप्ते नित्यम् एव वसस्य् अधः ।
उचिता ते गतिः केव बृसिके भस्मतां व्रज ॥

6.96.40

इत्य् उक्त्वादाय बृसिकाम् अग्नाव् इन्धनवृद्धिदाम् ।
शुद्ध्यर्थम् आसनार्थं चेत्य् अग्नौ तत्याज भासुरे ॥

6.96.41

यत् त्याज्यम् अचिरेणैव त्यक्तव्यं किल तत् सता ।
उपायः क्रियते सद्भिर् उपादेये मते सति ॥

6.96.42

शीघ्रम् अग्नाव् इदं सर्वं भाण्डजालं त्यजाम्य् अहम् ।
एकवारं दहन्न् अग्निर् दाह्यं भवति तुष्टये ॥

6.96.43

साधो क्रियोपकरण निष्क्रियस् त्वां त्यजाम्य् अहम् ।
न खेदस् त्व् अत्र कर्तव्यो ऽनुपयोग्यं बिभर्ति कः ॥

6.96.44

इत्य् उक्तवाञ् झगिति भोजनभाजनाद्यं सर्वं जुहाव वनवासविलासयोग्यम् ।
तद् भाण्डजालम् अनले समम् एव राजा कल्पान्ततेजसि जगज् ज्वलतीव कालः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc