भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.95

6.95.1

इदानीं राजशार्दूल वस्तुसम्प्रतिपत्तये ।
शृणु विन्ध्येभवृत्तान्तविवृतिं स्मयकारिणीम् ॥

6.95.2

यो ऽसौ विन्ध्यवने हस्ती सो ऽस्मिन् भूमितले भवान् ।
यौ वैराग्यविवेकौ ते तौ तस्य दशनौ शितौ ॥

6.95.3

यश् चासौ वारणाक्रान्तितत्परो हस्तिपस् स्थितः ।
तद् अज्ञानं त्वदाक्रान्तितत्परं तव दुःखदम् ॥

6.95.4

अतिशक्तो ऽप्य् अशक्तेन दुःखाद् दुःखं भयाद् भयम् ।
हस्ती हस्तिपकेनेव राजन् मौर्ख्येण नीयसे ॥

6.95.5

यल् लोहरज्जुसारेण वारणः परियन्त्रितः ।
तद् आशापाशजालेन भवान् आपदम् आगतः ॥

6.95.6

आशा हि लोहरज्जुभ्यो विषमा विपुला दृढा ।
कालेन क्षीयते लोहं तृष्णा तु परिवर्धते ॥

6.95.7

यद् बद्धं प्रेक्षते वैरी गजम् आराद् अलक्षितः ।
प्रेक्षते त्वां तद् अज्ञानं क्रीडार्थं बद्धम् एककम् ॥

6.95.8

यद् बभञ्ज गजश् शस्त्रशृङ्खलाजालबन्धनम् ।
तत् तत्याज भवान् भोगभूमिं राज्यम् अकण्टकम् ॥

6.95.9

कदाचित् सुकरं शस्त्रशृङ्खलाजालभेदनम् ।
न त्व् अस्य मनसस् साधो भोगाशाविनिवारणम् ॥

6.95.10

यद् इभे पाटयत्य् उच्चैर् बन्धं हस्तिपको ऽपतत् ।
त्वयि त्यजति तद् राज्यम् अज्ञानं पतितं क्षतम् ॥

6.95.11

यदा विरक्तः पुरुषो भोगाशां त्यक्तुम् इच्छति ।
तदा प्रकम्पते ऽज्ञानं छेद्यवृक्षपिशाचवत् ॥

6.95.12

यदा विवेकी पुरुषो भोगान् सन्त्यज्य तिष्ठति ।
तदा पलायते ऽज्ञानं छिन्नवृक्षपिशाचवत् ॥

6.95.13

भोगौघे नूनम् उन्मुक्ते पतत्य् अज्ञानम् अस्थिति ।
पादपे क्रकचच्छिन्ने कुलायस् तद्गतो यथा ॥

6.95.14

यदा वनं प्रयातस् त्वं तदाज्ञानं क्षतं त्वया ।
पतितं सन् न विहतं मनस्त्यागमहासिना ॥

6.95.15

तेन भूयस् समुत्थाय स्मृत्वा परिभवः कृतः ।
तपःप्रपञ्चखाते ऽस्मिन् गहने त्वं नियोजितः ॥

6.95.16

तदैवाघातयिष्यस् त्वं यद्य् अज्ञानं यदा पतत् ।
राज्यत्यागविधौ तत् त्वां नाहनिष्यत् क्षयं गतम् ॥

6.95.17

यत् खातवलयस् तेन वैरिणा हस्तिनः कृतः ।
तत् तपोदुःखम् अतुलम् अज्ञानेन तवार्पितम् ॥

6.95.18

यां तस्य राजसामग्रीं गजारेर् आहरन् नृपः ।
सा त्वदज्ञाननृपतेश् चित्तभूतिर् विसारिणी ॥

6.95.19

त्वं गजेन्द्रस् तपःखाते दीर्घे वनगतो ऽपि सन् ।
अज्ञानवैरिणा तेन निक्षिप्तस् तरसाचिति ॥

6.95.20

यत् खातवलयो बाललताभिर् अवगुण्ठितः ।
आवृतं तत् तपोदुःखम् ईषत्सज्जनवृत्तिभिः ॥

6.95.21

इत्य् अद्यापि तपःखाते दुःखे ह्य् अस्मिन् सुदारुणे ।
स्थितो ऽसि पातालतले नृप बद्धो यथा बडिः ॥

6.95.22

गजस् त्वम् आशा निगडानि वैरी मोहो निखातः पुनर् उग्रबन्धः ।
महीतलं विन्ध्य उदन्त इत्थं त्वदीय उक्तः कुरु यत् करोषि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc