मोक्षोपाय · अध्याय 6.93
अथेमम् अपरं रम्यं वृत्तान्तं शृणु भूपते ।
परं प्रबोधनं बुद्धेस् साधो सदृशम् आत्मनः ॥
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।
अगस्त्यरुद्धया वृद्ध्या विन्ध्येनेवैधितस् स्वतः ॥
वज्राश्रिविषमौ दीर्घौ स्तस् तस्य दशनौ शितौ ।
कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ ॥
स बद्धो लोहजालेन हस्तिपेन च्छलादितः ।
मुनीन्द्रेणेव विन्ध्याद्रिर् उपेन्द्रेणेव वा बडिः ॥
निबद्धो यन्त्रणापाशशस्त्रकुम्भार्पितो गजः ।
तां जगाम व्यथां वीरो न वाग्गोचरम् एति या ॥
रिपौ हस्तिपके दूराद् गुप्तं पश्यति वारणः ।
अयस्समुद्गके तस्मिन् निनाय दिवसत्रयम् ॥
खेदान् निगडनिर्भेदयत्नवान् स झणज्झणम् ।
चकार किङ्किणीक्वाणम् उपोद्घातै रथो यथा ॥
दन्ताभ्यां यत्नतस् ताभ्यां मुहूर्तद्वितयेन सः ।
बभञ्ज शृङ्खलाजालं स्वर्गार्गडम् इवासुरः ॥
तं तस्य निगडच्छेदम् अपश्यद् दूरतो रिपुः ।
बडेस् स्वर्गावदलनं हरिर् मेरुतटाद् इव ॥
तस्यावच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।
पपाताक्रमतस् स्वर्गं हरिर् मेरोर् बडेर् इव ॥
स पतन् पादपान् मोहाद् अप्राप्य करिणश् शिरः ।
पपातोर्ध्व्यां फलं पक्वं वाताहतम् इवाकुलः ॥
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।
स्फुरत्स्फारगुणास् सन्तस् सन्ति तिर्यग्गताव् अपि ॥
पतितं दलयामीति किं नाम मम पौरुषम् ।
वारणो ऽपीति कलयन् न जघान च तं रिपुम् ॥
केवलं निगडव्यूहं विदार्याशु जगाम ह ।
विततं सेतुम् उत्सार्य विपुलौघ इवाम्भसः ॥
तम् अनादृत्य मातङ्गो भङ्क्त्वा जालं जवाद् ययौ ।
विदार्य मेघसङ्घातं नभसीव दिवाकरः ॥
गते गजे समुत्तस्थौ हस्तिपस् स्वस्थदेहधीः ।
गजेनैव समं तस्य व्यथा दूरतरं गता ॥
प्रोत्तालतालविटपात् स तथा पतितो ऽपि सन् ।
न भेदम् आप दुर्भेदा मन्ये देहा दुरात्मनाम् ॥
वर्धते प्रावृषीवाब्दः कुकार्येष्व् असतां बलम् ।
अतीवासीत् समुत्साही स गजाक्रमणे तदा ॥
वारणारिर् असिंहो ऽसौ गतेभो दुःखम् आययौ ।
आगत्योपगते ऽन्तर्धिं निधान इव निर्धनः ॥
सो ऽन्वियेष गजं यत्नाद् गुल्मकान्तरितं वने ।
पयोदपिहितं भोक्तुं राहुर् इन्दुम् इवाम्बरे ॥
चिरेणालभतेभेन्द्रं कस्मिंश्चित् कानने स्थितम् ।
विश्राम्यन्तं तरुतले समराद् इव निर्गतम् ॥
अथ यत्र स्थितो नागस् तत्र तद्बन्धनक्षमम् ।
परया राजसामग्र्या गजलम्पटरूपया ॥
स खातवलयं चक्रे हस्तिपः कानने नवम् ।
सर्वदिक्कं विधिर् भूमौ समुद्रवलयं यथा ॥
उपर्य् अस्थगयज् जीर्णलतौघेन स तं शठः ।
शून्यं तन्वभ्रजालेन शरत्काल इवाम्बरम् ॥
दिनैः कतिपयैर् एव वारणो विहरन् वने ।
तस्मिन् निपतितः खाते शुष्काब्धाव् इव पर्वतः ॥
व्रजन् सर्पाकृतौ कूपे पातालतलभीषणे ।
खाते शुष्काब्धिखाताभे गजरत्नसमुद्गके ॥
इति भूयो दृढं बद्धस् तेन हस्तिपकेन सः ।
तिष्ठत्य् अद्यापि दुःखेन भूसद्मनि यथा बडिः ॥
अहनिष्यत् पुरैवासौ यद्य् अग्रोपगतं रिपुम् ।
तन् नालप्स्यत तद् दुःखं गजः खातनिबन्धनम् ॥
मौर्ख्याद् आगामिनं कालं वर्तमानक्रियाक्रमैः ।
अशोधयन् नरो दुःखं याति विन्ध्यगजो यथा ॥
मुक्तो ऽस्मि शस्त्रनिगडाद् इति तुष्टो ऽपि वारणः ।
दूरस्थो ऽपि पुनर् बद्धो मौर्ख्यं क्वेव न बाधते ॥
मौर्ख्यं निबन्धनम् अवैहि परं महात्मन् बन्धो न बन्ध इह चेतसि तद्वियुक्ते ।
आत्मोदये त्रिजगद् आत्ममयं समस्तम् अश्वे स्थितस्य सहया ननु सर्वभूमिः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0