भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.94

6.94.1

मणिसाधनवन्येभबन्धनाद्य् अमरात्मज ।
सूचितं सत्कथाजालं पुनर् मे प्रकटीकुरु ॥

6.94.2

वाक्यार्थदृष्टेर् निष्पत्त्या हृद्गृहे चित्तभित्तिषु ।
शृणुष्व सत्कथाचित्रं चित्रम् उन्मीलयामि ते ॥

6.94.3

यो ऽसौ शास्त्रार्थकुशलस् तत्त्वज्ञाने त्व् अपण्डितः ।
रत्नसंसाधने प्रोक्तस् स त्वम् एव महीपते ॥

6.94.4

तज्ज्ञो भवसि शास्त्रेषु रविर् मेरुतटेष्व् इव ।
तत्त्वज्ञाने तु विश्रान्तो न त्वं दृषद् इवाम्बरे ॥

6.94.5

विद्धि चिन्तामणिं साधो सर्वत्यागम् अकृत्रिमम् ।
तम् अन्तं सर्वदुःखानां संसाधयसि शुद्धधीः ॥

6.94.6

सर्वत्यागेन शुद्धेन सर्वम् आसाद्यते ऽनघ ।
सर्वत्यागो हि साम्राज्यं किं चिन्तामणिना भवेत् ॥

6.94.7

सिद्धस् स सर्वसन्त्यागस् साधो संसाधितस् तव ।
खर्वीकुर्वञ् जगद्भूतिं विन्ध्यस्यात्मोदयो यथा ॥

6.94.8

सन्त्यक्तं भवता राज्यं सदारधनबान्धवम् ।
ब्रह्मणेव जगत्सर्गव्यापारस् स्वनिशागमे ॥

6.94.9

स्वदेशस्यातिदूरस्थम् आगतो ऽसीमम् आश्रमम् ।
भुवो ऽन्तम् इव विश्रान्त्यै वैनतेयस् सकच्छपः ॥

6.94.10

केवलं सर्वसन्त्यागे शेषिताहम्मतिस् त्वया ।
मृष्टाखिलकलङ्केन स्वसत्तेवानिलेन खे ॥

6.94.11

मनोमात्रे हृदस् त्यक्ते यावत् ते याति पूर्णताम् ।
त्यागस् तावद् विकल्पस् त्वां खम् अम्बुद इवावृणोत् ॥

6.94.12

नायं स परमानन्दस् सर्वत्यागो महोदयः ।
को ऽप्य् उच्चैर् अन्य एवासौ चिरसाध्यो महान् इति ॥

6.94.13

चिन्तयेति गते वृद्धिं सङ्कल्पग्रहणे शनैः ।
वात्ययेव वनस्पन्दे त्यागः प्रोड्डीय ते गतः ॥

6.94.14

त्यागिता स्यात् कुतस् तस्य चिन्ताम् अप्य् आवृणोति यः ।
पवनस्पन्दयुक्तस्य निस्स्पन्दत्वं कुतस् तरोः ॥

6.94.15

चिन्तैव चित्तम् इत्य् आहुस् सङ्कल्पेतरनामकम् ।
तस्याम् एव स्फुरन्त्यां तु चित्तं त्यक्तं कथं भवेत् ॥

6.94.16

चित्ते गृहीते त्रिजगज्जालबीजकणे क्षणात् ।
कथं सम्पद्यते साधो सर्वत्यागो निरञ्जनः ॥

6.94.17

सङ्कल्पग्रहणेनान्तस् त्यागः प्रोड्डीय ते गतः ।
शब्दसंश्रवणेनाङ्ग यथा ग्रामविहङ्गमः ॥

6.94.18

निश्चिन्तत्वधनं सर्वं त्याग आदाय ते गतः ।
आमन्त्र्यापूजितो याति यस् स दुःखं करोति हि ॥

6.94.19

सर्वत्यागमणाव् एवं गते कमललोचन ।
तपःकाचमणिर् दृष्टस् त्वया सङ्कल्पचक्षुषा ॥

6.94.20

त्वया तस्मिंस् तपस्य् एव दुःखे दृष्टिभ्रमोदिते ।
ग्राह्यैकभावना बद्धा जलेन्दौ शिशुना यथा ॥

6.94.21

अवासनम् अनारभ्य कृतानन्दा सवासना ।
आद्यन्तमध्यविषमा दुःखायैव तपःक्रिया ॥

6.94.22

अमितानन्दम् उत्सृज्य सुसाधं यः प्रवर्तते ।
मिते वस्तुनि दुस्साधे स्वात्महा स शठस् स्मृतः ॥

6.94.23

सर्वत्यागस् समारभ्य न विनिष्पादितस् त्वया ।
तपोदुःखैकतज्ज्ञेन बद्धेन वनसद्मनि ॥

6.94.24

राज्यबन्धाद् विनिष्क्रम्य गजवद् दुःखपूरिते ।
वनवासाभिधे साधो बद्धो ऽसि दृढबन्धने ॥

6.94.25

द्विगुणा एव ते चिन्ताश् शीतवातातपादयः ।
बन्धनाद् अधिकं मन्ये वनवासम् अजानतः ॥

6.94.26

चिन्तामणिर् मया प्राप्त इत्य् अलं बुद्धवान् असि ।
न लब्धवान् भवान् साधो स्फटिकस्यापि खण्डिकाम् ॥

6.94.27

इत्य् एतद् अङ्ग मणियत्नकथासमानं सम्यङ् मया प्रकटितं तव पद्मनेत्र ।
उद्बोध्य बोधम् अमलं स्वयम् एव बुद्ध्या यद् वच्मि तत् परिणतिं कुरु चित्तकोशे ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc