मोक्षोपाय · अध्याय 6.92
अस्ति कश्चित् पुमाञ् श्रीमान् स्थानं नित्यविरुद्धयोः ।
गुणलक्ष्म्योर् अशेषेण यथाब्धिर् वडवाम्बुनोः ॥
कलावाञ् शास्त्रकुशलो व्यवहारे विचक्षणः ।
सर्वसङ्कल्पसीमान्तं न तु जानात्य् अजं पदम् ॥
अनन्तयत्नसंसाध्ये स चिन्तामणिसाधने ।
प्रवृत्तो वाडवो वह्निर् अब्धिसंशोषणे यथा ॥
तस्य यत्नेन महता कालेनाध्यवसायिनः ।
सिद्धश् चिन्तामणिः किं वा न सिध्यत्य् उन्नतात्मनाम् ॥
प्रवृत्तिम् उद्यमं प्रज्ञां प्रयुङ्क्ते चेद् अखेदवान् ।
अकिञ्चनो ऽपि शक्रत्वं तद् अवाप्नोत्य् अविघ्नतः ॥
मणिम् अग्रे स्थितं प्राप्तं हस्तप्राप्यं ददर्श सः ।
मेरोर् उदयशृङ्गस्थो मुनिर् इन्दुम् इवोदितम् ॥
बभूव मणिराजेन्द्रे न तु निश्चयवान् असौ ।
राज्ये झगिति सम्प्राप्ते सुदीन इव पामरः ॥
इदं सञ्चिन्तयाम् आस मनसा स्मयशालिना ।
सम्प्राप्तोपेक्षया दीर्घदुःखसम्भ्रमभाविना ॥
अयं मणिर् मणिर् नायं मणिश् चेत् तद् भवेन् न सः ।
स्पृशामि न स्पृशाम्य् एनं कदाचित् स्पर्शतो व्रजेत् ॥
नैतावतैव कालेन मणीन्द्रः किल सिध्यति ।
यत्नेनाजीवितान्तेन सिध्यतीत्य् आगमक्रमः ॥
क्रियानिकूणितेनाक्ष्णा लोलालाततलोपमम् ।
रत्नालोकं प्रपश्यामि द्विचन्द्रत्वम् इव भ्रमात् ॥
कुत एतावती स्फीता भाग्यसम्पन् ममातता ।
अधुनैव यद् आप्नोमि मणीन्द्रं सर्वसिद्धिदम् ॥
केचिद् एव महान्तस् ते महाभाग्या भवन्ति हि ।
येषाम् अल्पेन कालेन प्रयान्त्य् अभिमुखं श्रियः ॥
अहम् अल्पतपास् साधुर् वराको मानुषः किल ।
सिद्धयः कथम् आयान्ति माम् अभाग्यैकभाजनम् ॥
एवं विकल्पसङ्कल्पैश् चिरम् अज्ञः परामृशन् ।
न मणिग्रहणे यत्नम् अकरोन् मौर्ख्यमोहितः ॥
न यदा येन लब्धव्यं न तत् प्राप्नोत्य् असौ तदा ।
चिन्तामणिर् अवाप्तो ऽपि दुर्धिया हेलयोज्झितः ॥
इति तस्मिन् स्थिते यातो मणिर् उड्डीय सिद्धयः ।
त्यजन्ति ह्य् अवमन्तारं शरा गुणम् इवोज्झिताः ॥
हृत्वा प्राक्सम्पदः पुंसस् स यातस् सिद्धयः किल ।
आगतास् सम्प्रयच्छन्ति सर्वं याता हरन्त्य् अलम् ॥
पुमान् भूयः क्रियायत्नं चक्रे रत्नेन्द्रसाधने ।
नोद्विजन्ते हि कार्येषु जना अध्यवसायिनः ॥
ददर्शाथ कचद्रूपं काचखण्डम् अपण्डितः ।
हसद्भिर् वञ्चकैस् सिद्धैः पुरस् त्यक्तम् अलक्षितैः ॥
अयं चिन्तामणिर् इति मूढस् तस्मिन् स वस्तुताम् ।
बुबुधे मोहितो ह्य् अज्ञो मृदं हेमेति पश्यति ॥
अष्टौ षष्टिं द्विषन् मित्रं रज्जुं सर्पं स्थलं जलम् ।
चन्द्रौ द्वौ कुरुते चित्ते शिशोर् मोहो ऽमृतं विषम् ॥
तं दग्धमणिम् आदाय प्राक्तनीं स श्रियं जहौ ।
सर्वं चिन्तामणेर् अस्मात् प्राप्यते किं धनैर् इति ॥
देशो ऽयम् असुखो रूक्षो जनैः पापिभिर् आवृतः ।
किं तद् गेहं हतप्रायं के नाम मम बन्धवः ॥
दूरं गत्वा यथाकामं सुखं तिष्ठामि सम्पदा ।
इत्य् आदाय मणिं मूढश् शून्यं काननम् आययौ ॥
तत्र काचदलेनासौ तेन ताम् आपदं ययौ ।
कज्जलाद्रेर् इव निशा मौर्ख्यस्यैवाङ्ग या समा ॥
दुःखानि मौर्ख्यविभवेन भवन्ति यानि नैवापदा न च जरामरणेन तानि ।
सर्वापदां शिरसि तिष्ठति मौर्ख्यम् एकं कृष्णं जनस्य वपुषाम् इव केशजालम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0