मोक्षोपाय · अध्याय 6.91
सर्गे स्फुरद्भिर् मत्पुण्यैर् मन्ये सम्प्रेषितो भवान् ।
अलक्ष्यैस् सम्भृतैर् अद्रौ प्रावृड्वातैर् इवाम्बुदः ॥
अद्य तिष्ठाम्य् अहं साधो धन्यानां धुरि धर्मतः ।
अमृतस्यन्दवचसा यत् त्वयास्मि समागतः ॥
न केचन तथा भावाश् चेतश् शीतलयन्ति मे ।
राज्यलाभादयो ऽप्य् एते यथा साधुसमागमः ॥
निरर्गलतया यत्र साम्यम् एव विजृम्भते ।
मुक्तरागादिमननं तन् न कस्य सुखावहम् ॥
एवंवादिन एवास्य वाक्यम् आक्षिप्य भूपतेः ।
भूयः प्रोवाच चूडाला मुनिदारकरूपिणी ॥
आस्ताम् एषा कथा तावत् सर्वं ते वर्णितं मया ।
त्वं मे कथय हे साधो कस् त्वम् अद्रौ करोषि किम् ॥
कियत्पर्यवसानेयं तव वा वनवासिता ।
सत्यं कथय नासत्यं वक्तुं जानाति तापसः ॥
देवपुत्रो ऽसि जानासि सर्वम् एव यथास्थितम् ।
लोकवृत्तान्ततज्ज्ञो ऽसि किम् अन्यत् कथयाम्य् अहम् ॥
संसारभयभीतत्वान् निवसामि वनान्तरे ।
जानतो ऽपि हि हासाय कथयाम्य् एव ते मनाक् ॥
शिखिध्वजो ऽहं भूपालस् त्यक्त्वा राज्यम् इह स्थितः ।
भृशं भीतो ऽस्मि तत्त्वज्ञ संसृतौ जन्मनः पुनः ॥
पुनस् सुखं पुनर् दुःखं पुनर् मरणजन्मनी ।
भवतस् तेन तप्ये ऽहं सर्वज्ञ वनवीथिषु ॥
भ्रमन्न् अपि दिगन्तांश् च चरन्न् अपि परं तपः ।
नासादयामि विश्रान्तिम् एकां निधिम् इवाधनः ॥
अपत्त्रो ऽप्य् अफलो ऽप्य् एको नीरसो ऽप्य् अस्तसङ्गतिः ।
शुष्याम्य् एव वने साधो घुणक्षुण्ण इव द्रुमः ॥
इमाम् अखण्डितां सम्यक् क्रियां सम्पादयन्न् अपि ।
दुःखाद् गच्छामि दुःखौघम् अमृतं मे विषं स्थितम् ॥
पितामहम् अहं पूर्वं कदाचित् पृष्टवान् इदम् ।
यत् क्रियाज्ञानयोर् एकं श्रेयस् तद् ब्रूहि मे विभो ॥
ज्ञानं हि परमं श्रेयः क इवैतन् न वेत्त्य् अलम् ।
कालातिवाहनायैव विनोदायोचिता क्रिया ॥
अलब्धज्ञानदृष्टीनां क्रियामुत्र परायणम् ।
यस्य नास्त्य् अम्बरं पट्टं कम्बलं किं त्यजत्य् असौ ॥
वासनामात्रसारत्वाद् अज्ञस्य सफलाः क्रियाः ।
सर्वा एवाफला ज्ञस्य वासनामात्रसङ्क्षयात् ॥
सर्वा हि वासनाभावे प्रयान्त्य् अफलतां क्रियाः ।
सुशुभाः फलवत्यो ऽपि सेकाभावे लता इव ॥
ऋत्वन्तरे यथा याति विलयं पूर्वम् आर्तवम् ।
तथैव वासनानाशे नाशम् एति क्रियाफलम् ॥
न स्वभावेन फलति यथा शरलता फलम् ।
क्रिया निर्वासनामुत्र फलं फलति नो तथा ॥
सयक्षवासनो बालो यक्षं पश्यति नान्यथा ।
सदुःखवासनो मूढो दुःखं पश्यति नान्यथा ॥
आकारभासुराप्य् उच्चैर् न ददाति फलं क्रिया ।
शुभाशुभा च तज्ज्ञस्य फुल्ला शरलता यथा ॥
वासना चेह नास्त्य् एव स्वाहङ्कारादिरुपिणी ।
असत्यैवोदिता मौर्ख्यान् मरुभूमाव् इवाम्बुधीः ॥
यस्य मौर्ख्यं क्षयं यातं सर्वं ब्रह्मेति भावनात् ।
नोदेति वासना तस्य प्राज्ञस्येवाम्बुधीर् मरौ ॥
वासनामात्रसन्त्यागाज् जरामरणवर्जितम् ।
पदं प्राप्नोति जीवो ऽन्तर् भूयोजन्मविवर्जितम् ॥
सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ।
ज्ञानेन ज्ञेयताम् एत्य पुनर् जीवो न जायते ॥
ज्ञानम् एव परं श्रेय इति ब्रह्मादयो ऽपि ते ।
प्राहुर् महान्तो राजर्षे त्वं किम् अज्ञानवान् स्थितः ॥
इतः कमण्डलुर् इतो दण्डकाष्ठम् इतो बृसी ।
इत्य् अनर्थविलासे ऽस्मिन् रमसे किं महीपते ॥
को ऽहं कथम् इदं जातं कथं शाम्यति चेति भोः ।
राजन् नावेक्षसे कस्मात् किम् अज्ञ इव तिष्ठसि ॥
कथं बन्धः कथं मोक्ष इति प्रश्नान् उदाहरन् ।
परावरविदां पादान् कस्माद् अङ्ग न सेवसे ॥
दुस्स्पन्दसंविदा शैलकोटरे क्रिययानया ।
जीवितं क्षपयन् किं त्वं शिलाकीटवद् आस्थितः ॥
साधूनां समदृष्टीनां परिप्रश्नेन सेवया ।
सङ्गमेन च सा युक्तिर् लभ्यते मुच्यते यया ॥
मा नराधमवद् ग्रासं भुञ्जानो वनकोटरे ।
तिष्ठावष्टब्धदुश्चेष्टो धराविवरकीटवत् ॥
कान्तया देवरूपिण्या तयैवं प्रतिबोधितः ।
अस्रुपूर्णमुखो वाक्यं शिखिध्वज उवाच ह ॥
अहो ऽवबोधितो ऽस्म्य् अद्य चिरात् सुरसुत त्वया ।
मौर्ख्याद् आर्यसमासङ्गमुक्तो ऽहम् अवसं वने ॥
अहो नु मे क्षयं यातं मोहध्वान्तम् अशेषतः ।
यत् त्वम् एवं समागत्य सम्प्रबोधयसीह माम् ॥
गुरुस् त्वं मे पिता त्वं मे मित्रं त्वं मे वरानन ।
शिष्यो नमस्करोम्य् अग्रे पादौ तव कृपां कुरु ॥
यद् उदारतमं वेत्सि यस्मिञ् ज्ञाते न शोच्यते ।
भवामि निर्वृतो येन तद् ब्रह्मोपदिशाशु मे ॥
घटज्ञानादयो ज्ञानविभवास् सन्त्य् अनेकशः ।
ज्ञानानां परमं ज्ञानं कतरत् तारकं भवेत् ॥
यद्य् उपादेयवाक्यो ऽहं राजर्षे तद् वदामि ते ।
यथाज्ञानम् इदं किञ्चिन् न वक्ष्ये स्थाणुकाकवत् ॥
अनुपादेयवाक्यस्य वक्तुः पृष्टस्य लीलया ।
फलन्त्य् अफलतां वाचस् तमसीवाक्षिसंविदः ॥
यद् वक्षि तद् अनुष्ठेयं मया विधिर् इव श्रुतेः ।
अविकारितम् एवाशु सत्यम् एतद् व्रतं मम ॥
यथा बालः पितुर् वाक्यं मुक्तहेतूपपादनम् ।
आदत्ते हि तथैवेदं गृहाण त्वं वचो मम ॥
श्रवणानन्तरं बुद्ध्या शुभम् इत्य् एव भावयन् ।
शृणु गीतम् इव त्यक्त्वा हेत्वर्थित्वं वचो मम ॥
स्वचरितसदृशं तवोदयन्त्याश् चिरसमयेन विबोधनं च बुद्धेः ।
भवभयभिदुरं महाकवीनां शृणु कथयामि यथाक्रमं मनोज्ञम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0