भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.90

6.90.1

आत्मस्वभाववशतो जातं जगद् इदं महत् ।
स्थितिं वासनयाभ्येत्य धर्माधर्मवशे स्थितम् ॥

6.90.2

वासनांशं समानीय धर्माधर्मैर् न गृह्यते ।
ततो न जायते मुक्त इति नो दर्शनं मुने ॥

6.90.3

अत्युदारं महार्थं च वक्षि त्वं वदतां वर ।
अनुभूतिम् उपारूढं गूढं च परमार्थवत् ॥

6.90.4

त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर ।
पीतेनेवेन्दुना राहुर् अन्तर् यातो ऽस्मि शीतताम् ॥

6.90.5

तत् समासेन तां तावद् आत्मोत्पत्तिं वदाशु मे ।
ततश् श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव ॥

6.90.6

तेन पद्मजपुत्रेण मुनिना नारदेन तत् ।
क्व कृतं वीर्यम् आर्येण कथयार्य यथास्थितम् ॥

6.90.7

ततो निबध्नता तेन मनोमत्तमतङ्गजम् ।
विवेकविपुलालाने शुद्धबुद्धिवरत्रया ॥

6.90.8

तद् वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् ।
रसानां पारतादीनां दिव्यानाम् अनुजं नवम् ॥

6.90.9

मुनिना पार्श्वगे कुम्भे स्फाटिके विसरद्रुचौ ।
अद्रुते विद्रुताकारं चन्द्रे चन्द्रम् इवार्पितम् ॥

6.90.10

रत्नशैलैर् वृतः कान्तैस् तले पार्श्वेषु चाभितः ।
गम्भीरकुक्षिस् सुदृढश् चाचलाहननक्षमः ॥

6.90.11

सङ्कल्पितेन क्षीरेण स कुम्भस् तेन पूरितः ।
अमृतापूरभिन्नेन विधिनेवामृतार्णवः ॥

6.90.12

तत्र मासं गतो वृद्धिं मुनिमन्त्राहुतिक्रमैः ।
अमृतात्मा शुभो गर्भ इन्दोर् इन्दुर् इवानुजः ॥

6.90.13

इन्दुं मास इवापूर्णं मासेन सुषुवे घटः ।
गर्भं कमलपत्त्राक्षं प्रसूनम् इव माधवः ॥

6.90.14

परिपूर्णसमस्ताङ्गः कुम्भाद् गर्भस् स निर्ययौ ।
इन्दुस् सूक्ष्माद् इवाम्भोधेर् अपरः क्षयवर्जितः ॥

6.90.15

दिनैः कतिपयैर् एव वृद्धिम् अभ्याजगाम सः ।
अप्रमेयाङ्गसौन्दर्यश् शुक्लपक्षे शशी यथा ॥

6.90.16

सर्वसंस्कारसम्पन्ने स तस्मिन् नारदो मुनिः ।
भाण्डाद् भाण्ड इवाशेषं विद्याधनम् अयोजयत् ॥

6.90.17

दिनैः कतिपयैर् एव विज्ञाताशेषवाङ्मयम् ।
चकारैनं मुनिवरः प्रतिबिम्बम् इवात्मनः ॥

6.90.18

तेनाराजत पुत्रेण मुनिना मुनिनायकः ।
रत्नाद्रौ प्रतिबिम्बेन सद्योदित इवोडुराट् ॥

6.90.19

अथैनं पुत्रम् आदाय ब्रह्मलोकं स नारदः ।
जगाम तत्र पितरं ब्रह्माणं चाभ्यवादयत् ॥

6.90.20

कृताभिवादनं ब्रह्मा पौत्रम् आदाय तं तदा ।
अभिवादितवेदादिं स्वयम् अङ्के न्यवेशयत् ॥

6.90.21

अथाशीर्वादमात्रेण सर्वज्ञं ज्ञानपारगम् ।
पौत्रं तं कुम्भनामानं चकार कमलोद्भवः ॥

6.90.22

साधो सो ऽयम् अहं पौत्रः कुम्भो ऽहं पद्मजन्मनः ।
पुत्रो ऽहं नारदमुनेः कुम्भनामास्मि कुम्भजः ॥

6.90.23

निवसाम्य् अब्जजपुरे पित्रा सह यथासुखम् ।
चत्वारस् सुहृदो वेदा मम लीला विलासिनी ॥

6.90.24

मातृष्वसा मे गायत्री माता मम सरस्वती ।
ब्रह्मलोके मम गृहं पौत्रस् तत्रास्मि सुस्थितः ॥

6.90.25

यथाकामम् अशेषाणि जगन्ति विहराम्य् अहम् ।
लीलया परिपूर्णत्वान् न तु कार्येण केनचित् ॥

6.90.26

राजर्षे तेन मे पादौ पततो मे न भूतले ।
रजस् स्पृशति नाङ्गानि ग्लानिं नायाति मे वपुः ॥

6.90.27

अद्याकाशपथा गच्छन् दृष्टवांस् त्वाम् अहं पुरः ।
इह तेनागतो ऽस्म्य् अङ्ग सर्वं कथितवान् इति ॥

6.90.28

एषो ऽहम् इत्य् अखिलम् एव यथानुभूतं ते वर्णितं ननु मया वनवासतज्ज्ञ ।
सन्तो ह्य् असङ्कथनम् आर्यसमागमेषु निन्दन्त्य् अलं सुभग संव्यवहारदक्षाः ॥

6.90.29

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc