भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.89

6.89.1

एवं शिखिध्वजः पर्णमठिकायां वने स्थितः ।
इदानीं शृणु चूडाला सा किं कृतवती गृहे ॥

6.89.2

तत्रार्धरात्रसमये दूरं याते शिखिध्वजे ।
हरिणी ग्रामसुप्तेव चूडाला बुबुधे भयात् ॥

6.89.3

अपश्यत् पतिनिर्हीनं शयनं शून्यतां गतम् ।
अभास्करम् अपूर्णेन्दुं शान्तशोभम् इवाम्बरम् ॥

6.89.4

उत्तस्थौ किञ्चिद् आम्लानवदना खेदशालिनी ।
कुसिक्तेव महावल्ली निरुत्साहाङ्गपल्लवा ॥

6.89.5

न प्रसन्ना न विमला बभूवाकुलतां गता ।
दिनश्रीर् इव नीहारधूसरा सा व्यतिष्ठत ॥

6.89.6

क्षणं शय्योपविष्टैव चिन्तयाम् आस चिन्तया ।
कष्टं राज्यं प्रभुस् त्यक्त्वा वनं यातो गृहाद् इति ॥

6.89.7

तन् मयेहाद्य किं कार्यं तत्समीपं व्रजाम्य् अहम् ।
भर्तैव गतिर् उद्दिष्टा विधिना प्रकृता स्त्रियः ॥

6.89.8

इति सञ्चिन्त्य भर्तारम् अनुगन्तुं समुत्थिता ।
चूडाला वातरन्ध्रेण निर्गत्याम्बरम् आययौ ॥

6.89.9

बभ्रामाम्बरमार्गेण वातस्कन्धेन योगिनी ।
कुर्वती सिद्धसार्थस्य मुखेनान्येन्दुविभ्रमम् ॥

6.89.10

ददर्शाथ पथा यान्तं रात्रौ खड्गकरं पतिम् ।
भ्रमन्तम् एकम् एकान्ते वेतालेशम् इवोत्थितम् ॥

6.89.11

तादृशं पतिम् आलोक्य रुद्धा गगनकोटरे ।
भविष्यच् चिन्तयाम् आस सर्वं भर्तुर् अखण्डितम् ॥

6.89.12

यथा तेन यदा यत्र यावत् कार्यं यथोदयम् ।
यथा च निर्वृतिस् स्फारा गन्तव्या तेन राघव ॥

6.89.13

अवश्यभवितव्यं तद् भर्तुर् दृष्ट्वा पुरस्स्थितम् ।
तद् एव सम्पादयितुं गमनात् सा न्यवर्तत ॥

6.89.14

आस्तां ममाद्य गमनं कालेनातिचिरेण हि ।
मयास्य पार्श्वं गन्तव्यं नियतेर् एष निश्चयः ॥

6.89.15

इति सञ्चिन्त्य चूडाला प्रविश्यान्तःपुरं पुनः ।
सुष्वाप शयने शम्भोश् शिरसीवैन्दवी कला ॥

6.89.16

केनचित् कारणेनासौ गतस् सम्प्रति भूपतिः ।
इति पौरजनं सर्वम् आश्वास्यातिष्ठद् अङ्गना ॥

6.89.17

राज्यं ररक्ष भर्तुस् तत् क्रमेण समदर्शना ।
यथा कलमकेदारं पक्वं कलमगोपिका ॥

6.89.18

तयोस् तदावहत् कालो दम्पत्योस् स्थितयोस् तथा ।
अदृष्टान्योऽन्यमुखयो राज्यकाननपालयोः ॥

6.89.19

जगामाथ दिनं पक्षो मासो ऽथर्तुश् च वत्सरः ।
शिखिध्वजस्य विपिने चूडालायास् स्वमन्दिरे ॥

6.89.20

बहुनात्र किम् उक्तेन वर्षाण्य् अष्टादशाङ्गना ।
चूडालोवास सदने वनकच्छे शिखिध्वजः ॥

6.89.21

अथ यातेषु बहुषु वर्षेषु जरसा वृते ।
शिखिध्वजे महाशैलतटकोटरवासिनि ॥

6.89.22

भर्तुः कषायपाकं तद् आलक्ष्य फलितं चिरात् ।
तदा तस्यात्मकार्यस्य भवितव्यतया तया ॥

6.89.23

भर्तुस् समीपगमने मम कालो ऽयम् इत्य् अपि ।
सञ्चिन्त्य मन्दरोपान्तं गन्तुं बुद्धिं चकार सा ॥

6.89.24

चचालान्तःपुराद् रात्रौ ततार च नभःपथम् ।
जगाम वातस्कन्धेन गच्छन्ती खे ददर्श च ॥

6.89.25

कल्पवृक्षांशुकच्छन्ना रत्नस्तबकभूषिताः ।
नन्दनोद्याननिलया रक्तास् सिद्धाभिसारिकाः ॥

6.89.26

परामृष्टेन्दुशकलान् प्रालेयकणकर्षिणः ।
सिद्धोत्तंसात्तसौगन्ध्यान् स्पर्शयाम् आस मारुतान् ॥

6.89.27

चन्द्रबिम्बामृताम्भोधिमहावीचिपरम्पराम् ।
अपश्यन् निर्मलां ज्योत्स्नाम् अम्बराम्बरतां गताम् ॥

6.89.28

मेघान्तरेण गच्छन्ती मेघलग्नाश् च विद्युतः ।
अभियुक्ता स्वभर्त्रा सा भूयो भूयो व्यलोकयत् ॥

6.89.29

उवाच चात्मनैवाहो यावज्जीवं शरीरिणाम् ।
न स्वभावश् शमं याति ममाप्य् उत्कण्ठते मनः ॥

6.89.30

कदा मृगेन्द्रस्कन्धं तं प्रणयप्रवणं पुरः ।
पश्यामि कान्तम् इत्य् अन्तर् ममाप्य् उत्कण्ठितं मनः ॥

6.89.31

मञ्जरीत्वं लतात्वं वा वरम् एतास् तरुं पतिम् ।
न मुञ्चन्ति क्षणम् अपि ममाप्य् उत्कण्ठितं मनः ॥

6.89.32

यथेयम् अग्रगं कान्तम् एति सिद्धाभिसारिका ।
तथा कदाहम् एष्यामि ममापीति मनस् स्थितम् ॥

6.89.33

इमे मन्दारमरुत एते च शशिनः कराः ।
वनराजय एताश् च माम् अप्य् उत्कण्ठयन्त्य् अहो ॥

6.89.34

हे चित्ताज्ञवद् एवान्तः किं त्वं ताण्डवितं स्थितम् ।
सा व्योमनिर्मला साधो क्व ते याता विवेकिता ॥

6.89.35

अथ वा चित्त भर्तारं स्वं प्रत्य् उत्कण्ठसे सखे ।
तिष्ठोत्कण्ठाविवलितं किम् अनुत्कण्ठितेन ते ॥

6.89.36

किं किलोत्कण्ठसे वापि भर्ता यातो जरां भवेत् ।
तपस्वी कृशगात्रश् च भवेन् निर्वासनस् तथा ॥

6.89.37

मत्तो राज्याच् च भोगेभ्यो मन्ये ऽस्यामूलतां गता ।
वासना लतिका प्रावृण्नदीतटगता यथा ॥

6.89.38

एकान्तमतिर् एकात्मा नीरसश् शान्तवासनः ।
मन्ये भवति मे भर्ता शुष्कवृक्षसमस्थितिः ॥

6.89.39

तथापि चित्त कोत्कण्ठा भव वोत्कण्ठयान्वितम् ।
पतिम् उद्बोध्य योगेन श्लेषयिष्याम्य् अहं गले ॥

6.89.40

प्रमृष्टवासनं भर्तुस् समीकृत्य मनो मुनेः ।
राज्य एव नियोक्ष्यामि निवत्स्यावस् सुखं चिरम् ॥

6.89.41

अहो नु चिरकालेन मनोरथम् इमं शुभम् ।
अहम् आसादयिष्यामि यद् भर्त्रा समचित्तता ॥

6.89.42

समग्रानन्दवृन्दानाम् एतद् एवोपरि स्थितम् ।
यत् समानमनोवृत्तिसङ्गम् आस्वादने सुखम् ॥

6.89.43

इति चिन्तावती व्योम्ना चूडालोल्लङ्घ्य पर्वतान् ।
देशान् अब्दान् दिगन्तांश् च प्राप मन्दरकन्दरम् ॥

6.89.44

अदृश्यैव नभस्स्थैव प्रविवेश वनान्तरम् ।
वात्येव पादपलतास्पन्दचिह्नगमागमा ॥

6.89.45

वनैकदेशे कस्मिंश्चित् कृतपर्णोटजे पतिम् ।
दृष्ट्वा योगेन बुबुधे देहान्तरम् इवास्थितम् ॥

6.89.46

हारकेयूरकटककुण्डलादिविभूषितः ।
अभवन् मेरुकान्तिर् यस् तम् एवात्र ददर्श सा ॥

6.89.47

कृशाङ्गं कृष्णवर्णं च जीर्णपर्णम् इव स्थितम् ।
कज्जलाम्बुभरस्नातं भृङ्गीशम् इव निस्सहम् ॥

6.89.48

चीराम्बरधरं शान्तम् एकाकिनम् अवस्थितम् ।
स्थले निषण्णं पुष्पाणि ग्रथयन्तं जरां गतम् ॥

6.89.49

तम् आलोक्यानवद्याङ्गी चूडाला पीवरस्तनी ।
किञ्चिज्जातविषादेदम् उवाचात्मनि चेतसा ॥

6.89.50

अहो नु विषमं मौर्ख्यं यद् अनात्मज्ञतात्मकम् ।
एवंविधास् समायान्ति दशा मौर्ख्यप्रसादतः ॥

6.89.51

अयं स राजा लक्ष्मीवान् यो ममापि प्रियः पतिः ।
हृदि मोहघुणक्षुण्णाम् इमाम् अद्यागतो दशाम् ॥

6.89.52

तद् अवश्यम् इहैवाद्य नाथं विदितवेद्यताम् ।
नयाम्य् एनं न सन्देहो भोगमोक्षश्रियं तथा ॥

6.89.53

इदं रूपं परित्यज्य रूपेणान्येन केनचित् ।
सकाशम् अस्य गच्छामि बोधं दातुम् अनुत्तमम् ॥

6.89.54

बालेयं मम कान्तेति मदुक्तं न करोत्य् अयम् ।
तस्मात् तापसरूपेण बोधयामि पतिं क्षणात् ॥

6.89.55

भर्ता कषायपाकेन परिपक्वमतिस् स्थितः ।
चेतस्य् अस्याद्य विमले स्वं तत्त्वं प्रतिबिम्बति ॥

6.89.56

इति सञ्चिन्त्य चूडाला बभूव द्विजदारकः ।
ईषद्ध्यानाद् गतान्यत्वं क्षणाद् अम्बुतरङ्गवत् ॥

6.89.57

पपात विपिने तस्मिन् द्विजपुत्रकरूपिणी ।
भर्तुर् अभ्याजगामाग्रं मन्दस्मितलसन्मुखी ॥

6.89.58

ददर्श द्विजपुत्रं तं पुरो यातं शिखिध्वजः ।
वनान्तराद् उपगतं तपोमूर्तिम् इवास्थितम् ॥

6.89.59

द्रवत्कनकगौराङ्गं मुक्ताहारविभूषितम् ।
शुक्लयज्ञोपवीताङ्गं शुक्लाम्बरयुगावृतम् ॥

6.89.60

कमण्डलुधरं कान्तं शान्तं दान्तम् अनामयम् ।
व्याप्तप्रकोष्ठं द्विगुणेनाक्षसूत्रेण चारुणा ॥

6.89.61

भूमाव् अलग्नचरणं किष्कुमात्रोपरि स्थितम् ।
कुन्तलव्याप्तमूर्धानं सालिमालम् इवाम्बुजम् ॥

6.89.62

भासयन्तं प्रदेशं तं शारीरैर् दीप्तिमण्डलैः ।
कुण्डलाभूषितमुखं नवम् अर्कम् इवोदितम् ॥

6.89.63

शिखासम्प्रोतमन्दारं शृङ्गस्थेन्दुम् इवाचलम् ।
कान्तोपशान्तवपुषम् ऊर्जितं विजितेन्द्रियम् ॥

6.89.64

हिमाभभस्मतिलकभूषितालिकसुन्दरम् ।
मेरुं हेमतटालीनपूर्णेन्दुम् इव चञ्चलम् ॥

6.89.65

तम् आलोक्य द्विजसुतं समुत्तस्थौ शिखिध्वजः ।
देवपुत्रागमधिया सम्परित्यक्तपादुकः ॥

6.89.66

देवपुत्र नमस्कार इदम् आसनम् आस्यताम् ।
इत्य् अस्य दर्शयाम् आस पाणिना पत्त्रविष्टरम् ॥

6.89.67

ददौ च द्विजपुत्रस्य पुष्पवृष्टिं करोदरे ।
चन्द्रः कुमुदषण्डस्य प्रालेयम् इव पल्लवे ॥

6.89.68

हे राजर्षे नमस् तुभ्यम् इति द्विजसुतो वदन् ।
गृहीत्वा कुसुमान्य् अस्माद् विवेश दलविष्टरे ॥

6.89.69

देवपुत्र महाभाग कुत आगमनं कृतम् ।
दिवसस् सफलो ऽयं मे यत् त्वाम् अद्यास्मि दृष्टवान् ॥

6.89.70

इदम् अर्घ्यम् इदं पाद्यं पुष्पानीमानि मानद ।
इमाः प्रग्रथिता माला गृह्यन्तां भद्रम् अस्तु ते ॥

6.89.71

इत्य् उक्त्वा पाद्यम् अर्घ्यं च मालाः पुष्पाणि चानघ ।
शिखिध्वजस् तदिष्टायै ददौ देव्यै यथाखिलम् ॥

6.89.72

सुबहूनि परिभ्रान्तो भूतलायतनान्य् अहम् ।
त्वत्तः पूजा यथा प्राप्ता मयेयं न तथान्यतः ॥

6.89.73

पेशलेनानुरूपेण प्रश्रयेणामुनानघ ।
मन्ये ऽहं नूनम् अत्यन्तचिरजीवी भविष्यसि ॥

6.89.74

शान्तेन मनसोदारम् आराद् उन्मुक्तकल्पनम् ।
निर्वाणार्हं तपस् साधो कच्चित् सम्भृतवान् असि ॥

6.89.75

असिधारासमं सोम्य शान्तं व्रतम् इदं तव ।
स्फीतं यद् राज्यम् उत्सृज्य महावननिषेवणम् ॥

6.89.76

जानासि भगवन् सर्वं देवस् त्वं को ऽत्र विस्मयः ।
श्रियैव लोकोत्तरया ज्ञायसे चिह्नभूतया ॥

6.89.77

एतान्य् अङ्गानि ते चन्द्राद् घटितानीति मे मतिः ।
अन्यथा किं समालोकाद् अमृतेनेव सिञ्चसि ॥

6.89.78

अस्ति मे दयिता कान्ता पाति मे राज्यम् अद्य तत् ।
तवेव तस्या दृष्टानि तान्य् अङ्गान्य् अद्य सुन्दर ॥

6.89.79

उपशान्तं च कान्तं च वपुर् आपादमस्तकम् ।
शृङ्गं शुभ्राम्बुदेनेव पुष्पेणाच्छादयामुना ॥

6.89.80

निष्कलङ्केन्दुसङ्काशम् अङ्गम् आदित्यतेजसा ।
मन्ये ते म्लानिम् आयाति सुमनःपत्त्रपेलवम् ॥

6.89.81

देवार्चनायावचितम् इदं यत् कुसुमं मया ।
अङ्ग त्वदङ्गसङ्गेन तत् प्रयातु कृतार्थताम् ॥

6.89.82

जीवितं याति साफल्यं ममाभ्यागतपूजया ।
देवाद् अप्य् अधिकं पूज्यस् सताम् अभ्यागतो जनः ॥

6.89.83

तत् कस् त्वं कस्य पुत्रस् त्वं किम् आयातो ऽस्य् अनुग्रहात् ।
एतं मे संशयं छिन्द्धि विमलेन्दुसमानन ॥

6.89.84

राजर्षे शृणु वक्ष्यामि यथापृष्टम् अखण्डितम् ।
अवर्णनं हि जिह्मत्वं तत् सताम् अतिनिन्दितम् ॥

6.89.85

अस्त्य् अस्मिञ् जगतः कोशे शुद्धात्मा नारदो मुनिः ।
पुण्यलक्ष्म्या मुखे कान्ते कर्पूरतिलकोपमः ॥

6.89.86

स कदाचिन् मुनिर् मेरोर् गुहायां ध्यानम् आस्थितः ।
अधित्यकायां भूतानाम् अदृश्यश् शान्तमानसः ॥

6.89.87

तत्र हेमतटे गङ्गा वहत्य् उरुतरङ्गिणी ।
मेरुलक्ष्म्यास् स्फुरद्रूपा भाति हारलतेव या ॥

6.89.88

एकदा नारदमुनिर् ध्यानान्ते सरितस् तटे ।
ध्वनद्वलयम् अश्रौषील् लीलाकलकलारवम् ॥

6.89.89

किम् एतद् इत्य् असौ किञ्चिज्जातप्रायकुतूहलः ।
हेलयालोकयन् नद्याम् अपश्यल् ललनागणम् ॥

6.89.90

रम्भातिलोत्तमाप्रायं निर्यातं जललीलया ।
क्रीडन्तं त्यक्तवसनं देशे पुरुषवर्जिते ॥

6.89.91

काञ्चनाम्भोजमुकुलसुन्दरैस् स्तनमण्डलैः ।
परिवेल्लितम् अन्योऽन्यं फलैः कान्तद्रुमं यथा ॥

6.89.92

द्रुतहेमरसापूरनिर्झराभोगभासुरैः ।
कुर्वन्तम् ऊरुभिः काममन्दिरस्तम्भविभ्रमम् ॥

6.89.93

निर्मलीकृतचन्द्रेण व्याप्तव्योम्ना विलासिना ।
लावण्यरसपूरेण तर्जयन्तम् इवापगाम् ॥

6.89.94

प्राकारैर् अमरोद्याने रथचक्रैर् मनोभुवः ।
उत्पथार्पितगङ्गाम्बुनितम्बतटसेतुभिः ॥

6.89.95

सर्वत्र दृष्टसर्वाङ्गं विश्वरूपम् इवास्थितम् ।
प्रतिबिम्बितसर्वार्थम् अन्योऽन्यादर्शतां गतम् ॥

6.89.96

कालकल्पतरोर् वर्षविटपात् पक्षपल्लवात् ।
विविधर्तुलताजालाद् दिनश्रीकलिकाकुलात् ॥

6.89.97

आलोकपुष्परजसो जाताद् गगनकानने ।
स्फुरज्जगत्खगव्रातात् सप्ताब्ध्येकालवालकात् ॥

6.89.98

मासस्तबकवृन्तेषु वृद्धिं यान्तं रसान्वितम् ।
उद्धृत्योद्धृत्य सम्पूर्णं चालिताम्भोदपल्लवम् ॥

6.89.99

आलोलालककेशाक्षितारकादिमधुव्रतम् ।
अमृतापद्विघाताय कोशसञ्चयकारिभिः ॥

6.89.100

दुष्प्रापे भूतसङ्घानां विकसत्कनकाम्बुजे ।
पद्मपल्लवसञ्छन्नं गुप्तं मेरोर् गुहान्तरे ॥

6.89.101

शीतले स्वर्धुनीतीरे यत्नोत्सृष्टमलं पुरः ।
चन्द्रबिम्बफलापूरम् एकत्रैवोपसम्भृतम् ॥

6.89.102

स्त्रैणम् आलोक्य तत् कान्तं सहसैव मनो मुनेः ।
अनाश्रितविवेकांशं बभूवानन्दितं स्फुरत् ॥

6.89.103

आनन्दवलिते चित्ते क्षुब्धे प्राणानिले स्थिते ।
बभूव तस्य तुष्टस्य मदनस्खलितं तदा ॥

6.89.104

फलं रसापूर्णम् इव ग्रीष्मान्त इव तोयदः ।
प्रत्यग्रः पादपश् छिन्नलतावृन्त इवोत्तमः ॥

6.89.105

अवश्यायकणस्यन्दी शशाङ्क इव वा मुनिः ।
बिसं द्विधा यातम् इव गलत्साररसो ऽभवत् ॥

6.89.106

तादृशो ऽपि बहुज्ञो ऽपि जीवन्मुक्तो ऽप्य् असौ मुनिः ।
निरिच्छो ऽपि निरास्थो ऽपि नकिञ्चिदुपमो ऽप्य् अलम् ॥

6.89.107

सबाह्याभ्यन्तरं नित्यम् आकाशविशदो ऽपि च ।
नारदो ऽपि कथं ब्रह्मन् मदनस्खलितो ऽभवत् ॥

6.89.108

सर्वस्या एव राजेन्द्र भूतजातेर् जगत्त्रये ।
देवादेर् अपि देहो ऽयं द्वयात्मैवं स्वभावतः ॥

6.89.109

अज्ञम् अस्त्व् अथ वा तज्ज्ञं यावन् मत्तं शरीरकम् ।
सर्वम् एव जगत्य् अङ्ग सुखदुःखमयं स्मृतम् ॥

6.89.110

हृद्यादिना पदार्थेन केनचिद् वर्धते सुखम् ।
आलोक इव दीपेन महाम्बुधिर् इवेन्दुना ॥

6.89.111

तुच्छादिना पदार्थेन दुःखं केनचिद् एति हि ।
तमो मेघपटेनेव स्वभावो ह्य् अत्र कारणम् ॥

6.89.112

स्वरूपे निर्मले सत्ये निमेषम् अपि विस्मृते ।
दृश्यम् उल्लासम् आप्नोति प्रावृषीव पयोधरः ॥

6.89.113

अनारतानुसन्धानाद् अनुन्मेषम् अविस्तृते ।
स्वरूपे नोल्लसत्य् एष चिति दृश्यपिशाचकः ॥

6.89.114

यथा तमःप्रकाशाभ्याम् अहोरात्रं स्थितिं गतम् ।
तथैव सुखदुःखाभ्यां शरीरं स्थितिम् आगतम् ॥

6.89.115

एते हि सुखदुःखे द्वे जन्मकारणदर्शनात् ।
अज्ञस्य लगतश् शुक्लपटकुङ्कुमवद् दृढम् ॥

6.89.116

तज्ज्ञस्य त्व् अङ्ग लगतो मनाग् अपि चितेर् वशात् ।
यथा शुभाशुभौ रागाव् अनाक्रान्तान्तरौ मणेः ॥

6.89.117

पुरस्स्थवस्त्वभावेन रञ्जनां स्फटिको यथा ।
तज्ज्ञस् त्यजति हे साधो जीवन्मुक्तमतिर् मुनिः ॥

6.89.118

वस्तु संश्लेषमात्रेण घनं रञ्जितचेतसः ।
गते ऽपि वस्तुनि दृढं दुर्धियः परितापिनः ॥

6.89.119

गते ऽपि कुङ्कुमे भस्त्रा तदीयम् अनुरञ्जनम् ।
न जहाति यथा मूढस् तथा विषयरञ्जनम् ॥

6.89.120

अनेनैव क्रमेणैतौ बन्धमोक्षौ व्यवस्थितौ ।
भावनातानवं मोक्षो बन्धो हि दृढभावनम् ॥

6.89.121

स्वोत्पत्तिकारणप्राप्तौ कथं दुःखं सुखं च वा ।
अभ्युदेतीति वद मे दूरस्थायाम् अपि प्रभो ॥

6.89.122

अत्युदारम् अतीवाच्छं बह्वर्थं वचनं तव ।
श्रोतुं तृप्तिं न गच्छामि मयूरो ऽभ्ररवेष्व् इव ॥

6.89.123

स्वोत्पत्तिकारणं हृद्यं वस्त्व् आदायाक्षपाणिभिः ।
सुखसंविद् इयं बाला नूनम् उल्लसति स्वतः ॥

6.89.124

हृद्गता क्षोभम् आयाता जीवं कुण्डलिनीगतम् ।
सोम्यम् उद्बोधयत्य् अन्तस् सिंहम् अभ्ररवो यथा ॥

6.89.125

प्राणावपूरिता नाडीर् जीव आक्रमति स्फुरन् ।
सम्यक्सेकप्रबुद्धात्मा रसो द्रुमलता इव ॥

6.89.126

सुखप्रबोधसञ्चारे दुःखबोधगमे तथा ।
जीवस्य नियता नाड्यः पृथग् देहे स्थितिं गताः ॥

6.89.127

सुखितः प्रस्फुरत्य् एष यासु तासु न दुःखितः ।
ये हि मार्गास् सुवेषस्य कुवेषस्य न ते शुभाः ॥

6.89.128

जीवस् सदैव सर्वत्र देहे तिष्ठति वै किल ।
तस्य दुःखे सुखे वापि नियतं स्फुरितं कुतः ॥

6.89.129

यावत्प्रमाणं जीवो ऽयं संशाम्यत्य् अपरिस्फुरन् ।
तावत्प्रमाणम् एवैनं मुक्तं मुक्तम् अवैहि वै ॥

6.89.130

यावत्प्रमाणम् अधिकं स्फुरति क्षुब्धमारुतम् ।
तावत्प्रमाणम् एवैनं बद्धं बद्धम् अवैहि मे ॥

6.89.131

सुखदुःखकलास्पन्दो बन्धो जीवस्य नेतरः ।
तदभावो हि मोक्षस् स्याद् बोधात् सम्पद्यते च सः ॥

6.89.132

सुखदुःखदशे यावद् आनीते नेन्द्रियैश् शठैः ।
तावत् सुप्तसमस् सोम्यो जीवस् तिष्ठति शान्तवत् ॥

6.89.133

सुखम् आलोक्य वा दुःखम् अक्षानीतं चलद्वपुः ।
समुत्फलति जीवो ऽन्तर् दृष्टेन्दुर् इव तोयधिः ॥

6.89.134

जीवः क्षुभ्यति दृष्टेन संविदाङ्ग सुखादिना ।
आमिषेणेव मार्जारो मौर्ख्यम् एवात्र कारणम् ॥

6.89.135

बोधेन बोध्यते जीव आत्मज्ञानात्मनात्मना ।
सुखदुःखादि नास्तीति तेनासौ याति सोम्यताम् ॥

6.89.136

न सत् सुखादि नैतन् मे मुधा चायम् अहं स्थितः ।
इति जीवः प्रबुद्धो ऽन्तर् निर्वाणं याति शाम्यति ॥

6.89.137

सुखादिवस्त्व् असद्रूपम् इत्य् अन्तर्बोधसंविदा ।
न तदुन्मुखतां याति जीवश् शाम्यति केवलम् ॥

6.89.138

सर्वम् एव चिदाकाशं ब्रह्मेति घननिश्चये ।
स्थितिं याते शमं याति जीवो निस्स्नेहदीपवत् ॥

6.89.139

दीपवच् छमम् आयाति सुखादिस्नेहसङ्क्षये ।
सर्वम् एकम् इति ज्ञात्वा जीवो द्वित्वाविभावनात् ॥

6.89.140

सर्वम् आकाशम् एवेति बुद्ध्वा क्सोभं न गच्छति ।
जीवश् शून्येन शून्यस्य कः किल क्षोभविभ्रमः ॥

6.89.141

जीवेनेदृग्विधेनैवं यद् आ प्रथमसर्गतः ।
स्वयं संविदितो मार्गस् तेनैवाद्यापि गच्छति ॥

6.89.142

सुखसञ्चारयोग्यासु जीवे सरति नाडिषु ।
देवपुत्र भवत्य् एतद् वीर्यविच्यवनं कथम् ॥

6.89.143

जीवः क्षुब्धयति क्षुब्धः प्राणादिपवनावलीम् ।
संविदाज्ञांशमात्रेण सेनाम् इव महीपतिः ॥

6.89.144

वातस्पन्देन मेदोऽन्तर् मज्जासारश् च स्वस्थितिम् ।
त्यजत्य् अम्ब्वभ्रसौगन्ध्यरजःपत्त्रतृणादि व ॥

6.89.145

चलितं वस्त्व् अधो याति वार्यादि दहनादि खम् ।
देहान् नाडीप्रणालेन शुक्रं याति बहिस्स्थितिम् ॥

6.89.146

देवपुत्र महाज्ञो ऽसि वेत्सि पूर्वापरं स्थितेः ।
ज्ञायसे वचनाद् एव स्वभावो हि किम् उच्यते ॥

6.89.147

आदिसर्गे यथा यद् यत् स्फुरितं ब्रह्म ब्रह्मणि ।
घटावटपटाद्यात्म तथैवाद्यापि च स्थितम् ॥

6.89.148

काकतालीयवद् वारिबुद्बुदोत्पत्तिनाशवत् ।
घुणाक्षरवद् उच्छूनं तं स्वभावं विदुर् बुधाः ॥

6.89.149

अस्मिन् स्वभाववशतो जगति प्ररूढे देहास् स्फुरन्ति विविधा विविधाविकाराः ।
प्रक्षीणवासनतया न भवन्ति केचिद् भूयो भवन्ति च पुनस् त्व् इतरे घनास्थाः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc