भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.9

6.9.1

आकारजातम् उदितं शुद्धं हरिहराद्य् अपि ।
अविद्यैवेत्य् अहं श्रुत्वा ब्रह्मन् भ्रमम् इवागतः ॥

6.9.2

संवेद्येनापरामृष्टं शान्तं सर्वात्मकं च यत् ।
तत् सच् चिद् अपि चाभासम् अस्तीह कलनोज्झितम् ॥

6.9.3

समुदेति ततस् तस्मात् कला कलनरूपिणी ।
जलाद् आवर्तरूपेव स्फुरद्रूपतयोदिता ॥

6.9.4

सूक्ष्मा मध्या तथा स्थूला चेति सा कल्प्यते त्रिधा ।
पश्चान् मनस्त्वं यातेन स्वेनैव वपुषा पुनः ॥

6.9.5

तिसृष्व् अवस्थास्व् एतासु भेदतः कल्पिताभिधा ।
सत्त्वं रजस् तम इति सैषैव प्रकृतिस् स्फुटा ॥

6.9.6

अविद्यां प्रकृतिं विद्धि गुणत्रितयधर्मिणीम् ।
एषैव संसृतिर् जन्तोर् अस्याः पारं परं पदम् ॥

6.9.7

अत्रैते ये त्रयः प्रोक्ता गुणास् ते ऽपि त्रिधा स्मृताः ।
सत्त्वं रजस् तम इति प्रत्येकं भिद्यते गुणः ॥

6.9.8

नवधैव विभक्तेयम् अविद्या गुणभेदतः ।
यावत् किञ्चिद् इदं दृश्यम् अनयैव तद् आश्रितम् ॥

6.9.9

ऋषयो मुनयस् सिद्धा नागा विद्याधरास् सुराः ।
इति भागम् अविद्यायास् सात्त्विकं विद्धि राघव ॥

6.9.10

सात्त्विकस्यास्य भागस्य नागा विद्याधरास् तमः ।
रजस् तु मुनयस् साध्यास् सत्त्वं देवा हरादयः ॥

6.9.11

सत्त्वजाते देवयोनाव् अविद्याप्रकृतेर् गुणे ।
निर्मलं पदम् आयातं सत्त्वं हरिहरादयः ॥

6.9.12

सात्त्विकः प्रकृतेर् भागो राम तज्ज्ञो हि यो भवेत् ।
न प्रमुह्यत्य् असौ भूयस् तेनासौ मुक्त उच्यते ॥

6.9.13

तेन रुद्रादयो ह्य् एते सत्त्वभागा महामते ।
तिष्ठन्ति मुक्तपुरुषा यावद्देहं जगत्स्थितौ ॥

6.9.14

यावद्देहं महात्मानो जीवन्मुक्ता व्यवस्थिताः ।
विदेहमुक्ता देहान्ते स्थास्यन्ति परमेश्वराः ॥

6.9.15

भाग एष त्व् अविद्याया एव विद्यात्वम् आगतः ।
बीजं फलत्वम् आयाति फलम् आयाति बीजताम् ॥

6.9.16

उदेत्य् अविद्या विद्यायास् सलिलाद् इव बुद्बुदः ।
विद्यायां लीयते ऽविद्या पयसीव हि बुद्बुदः ॥

6.9.17

पयस्तरङ्गयोर् द्वित्वभावनाद् एव भिन्नता ।
विद्याविद्यादृशोर् भेदभावनाद् एव भिन्नता ॥

6.9.18

पयस्तरङ्गयोर् ऐक्यं यथैव परमार्थतः ।
विद्याविद्यादृशोर् ऐक्यं तथैव परमार्थतः ॥

6.9.19

नाविद्यात्वं न विद्यात्वम् इह किञ्चन विद्यते ।
विद्याविद्यादृशौ त्यक्त्वा यद् अस्तीह तद् अस्ति हि ॥

6.9.20

प्रतियोगिव्यवच्छेदवशाद् एते रघूद्वह ।
विद्याविद्यादृशौ न स्तश् शेषे बद्धपदो भव ॥

6.9.21

नाविद्यास्ति न विद्यास्ति कृतं कल्पनयानया ।
किञ्चिद् अस्ति नकिञ्चिद् यच् चित्संविद् इति तत् स्थितम् ॥

6.9.22

तद् एवाविदिताभासं सद् अविद्येत्य् उदाहृतं ।
विदितं सत् तद् एवेदम् अविद्याक्षयसञ्ज्ञितम् ॥

6.9.23

विद्याभावाद् अविद्याख्या मिथ्यैवोदेति कल्पना ।
मिथस् सत्तैतयोर् अन्ते छायातापदृशोर् इव ॥

6.9.24

अविद्यायां तु लीनायां क्षणाद् द्वे एव कल्पने ।
एते राघव लीयेते अवाच्यं परिशिष्यते ॥

6.9.25

अविद्यासङ्क्षयात् क्षीणे विद्यापक्षे ऽपि राघव ।
यच् छिष्टं तन् नकिञ्चिद् वा किञ्चिद् वापीदम् आततम् ॥

6.9.26

तत्रेदं दृश्यते सर्वं न च किञ्चन दृश्यते ।
वटस् स्ववटधानायाम् इव पुष्पफलादिमान् ॥

6.9.27

तत् सर्वशक्ति कचितं सर्वशक्तिसमुद्गकम् ।
नभसो ऽप्य् अधिकं शून्यम् अवेद्यं च चिदात्मकम् ॥

6.9.28

सूर्यकान्ते यथा वह्निर् यथा क्षीरे घृतं तथा ।
तत्रेदं संस्थितं सर्वं देशकालक्रमोदयम् ॥

6.9.29

यथा स्फुलिङ्गा अनलाद् यथा भासो दिवाकरात् ।
तस्मात् तथेमा निर्यान्ति स्फुरन्त्यस् संविदस् स्थिताः ॥

6.9.30

यथाम्भोधिस् तरङ्गाणां यथामलमणिस् त्विषाम् ।
कोशो नित्यम् अनन्तानां तथा तत् संविदां त्विषाम् ॥

6.9.31

सबाह्याभ्यन्तरं सर्ववस्तूनां तद् अवस्थितम् ।
सर्वदैवाविनाशात्म कुम्भानां गगनं यथा ॥

6.9.32

यथा मणेर् अयस्स्पन्देष्व् अयस्कान्तस्य कर्तृता ।
अकर्तुर् एव हि तथा कर्तृता तस्य कल्प्यते ॥

6.9.33

मणिसन्निधिमात्रेण यथायस् स्पन्दते जडम् ।
तत्सत्तया तथैवायं देहश् चोपत्य् अचिद्वपुः ॥

6.9.34

तत्र स्थितं जगद् इदं जगदेकबीजे चिन्नाम्नि संविद् इति कल्पितकल्पने च ।
लोलोर्मिजालम् इव वारिणि चित्स्वरूपं खाद् अप्य् अरूपवति यत्र नकिञ्चिद् अस्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc