भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.10

6.10.1

तस्मान् नकिञ्चिद् एवेदं जगत् स्थावरजङ्गमम् ।
न किञ्चिद् भूततां यातं यत् किञ्चिद् अपि विद्धि हे ॥

6.10.2

तत्र काचिन् न कलना भावाभावमयात्मिका ।
तद् इदं राम जीवादि सर्वं व्यर्थं किम् ईहसे ॥

6.10.3

सुबुद्धो ऽयम् असाव् अन्तर् इति यो व्यपदिश्यते ।
न तं लभामहे सर्पं रज्जुसर्पभ्रमाद् इव ॥

6.10.4

अपरिज्ञात आत्मैव भ्रमतां समुपागतः ।
ज्ञात आत्मत्वम् आयाति सीमान्तं सर्वसंविदाम् ॥

6.10.5

अविद्येत्य् उच्यते लोके चिच् चेत्यमलमालिता ।
चेत्यातीताच्छताम् एति सर्वोपाधिविवर्जिता ॥

6.10.6

चित्तमात्रं हि पुरुषस् तस्मिन् नष्टे न नश्यति ।
स्थिते तिष्ठति नात्मायं घटे सति यथाम्बरम् ॥

6.10.7

गच्छन् पश्यति गच्छन्तं स्थितं तिष्ठञ् शिशुर् यथा ।
भानुम् एवम् इदं चेतः पश्यत्य् आत्मानम् आकुलम् ॥

6.10.8

कोशकारवद् आत्मानं वासनाननतन्तुभिः ।
वेष्टयंश् चैव चेतो ऽन्तर् बालत्वान् नावबुध्यते ॥

6.10.9

मौर्ख्यम् अत्यन्तघनताम् आगतं सदवस्थितम् ।
स्थावरादितनुं प्राप्तं कीदृशं भवति प्रभो ॥

6.10.10

अमनस्त्वम् असम्प्राप्तं मनस्त्वाद् अपि विच्युतम् ।
तटस्थं रूपम् आश्रित्य स्थितैषा स्थावरेषु चित् ॥

6.10.11

सुप्तपुर्यष्टका यत्र संस्थिता दुःखदायिनी ।
मूकान्धजडवत् तत्र सत्तामात्रेण तिष्ठति ॥

6.10.12

सत्ताद्वैततया यत्र संस्थिता स्थावरेषु चित् ।
तत्रादूरस्थितां मुक्तिं मन्ये वेद्यविदां वर ॥

6.10.13

बुद्धिपूर्वं विचार्येदं यथावस्त्ववलोकनात् ।
सत्तासामान्यबोधो यस् स मोक्षश् चेद् अनन्तकः ॥

6.10.14

परिज्ञाय परित्यागो वासनानां य उत्तमः ।
सत्तासामान्यरूपत्वं तत् कैवल्यपदं विदुः ॥

6.10.15

विचार्यार्यैस् सहालोक्य शास्त्राण्य् अध्यात्मभावनात् ।
सत्तासामान्यनिष्ठत्वं यत् तद् ब्रह्म परं विदुः ॥

6.10.16

अन्तस् सुप्ता स्थिता मन्दा यत्र बीज इवाङ्कुरः ।
वासना तत् सुषुप्तत्वं विद्धि जन्मप्रदं पुनः ॥

6.10.17

अन्तस् संलीनमननं परितस् सुप्तवासनम् ।
सुषुप्तं जडधर्मापि जन्मदुःखशतप्रदम् ॥

6.10.18

स्थावरादय एते हि समस्ता जडधर्मिणः ।
सुषुप्तपदम् आरूढा जन्मयोग्याः पुनः पुनः ॥

6.10.19

यथा बीजेषु पुष्पाणि मृदो राशौ यथा घटाः ।
तथान्तस् संस्थितास् साधो स्थावरेषु स्ववासनाः ॥

6.10.20

यत्रास्ति वासनाबीजं तत् सुषुप्तं न सिद्धये ।
निर्बीजा वासना यत्र तत् तुर्यं सिद्धिदं स्मृतम् ॥

6.10.21

वासनायास् तथा वह्नेर् ऋणव्याधिद्विषाम् अपि ।
स्नेहवैरविषाणां च शेषस् स्वल्पो ऽपि बाधते ॥

6.10.22

निर्दग्धवासनाबीजस् सत्तासामान्यरूपवान् ।
सदेहो वा विदेहो वा न भूयो दुःखभाग् भवेत् ॥

6.10.23

चिच्छक्तिर् वासनाबीजरूपिणी स्वापधर्मिणी ।
स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ॥

6.10.24

बीजेषूल्लासरूपेण जाड्येन जडरूपिषु ।
द्रवेषु द्रवभावेन काठिन्येनेतरेषु च ॥

6.10.25

भस्मन्य् अथादित्यरुचौ पांसुष्व् अप्य् अणुरूपिणी ।
असितेषु तलस्थित्या शितधारतयासिषु ॥

6.10.26

आत्मशक्तिः पदार्थेषु घटावटपटादिषु ।
सर्वत्र सत्तासामान्यं रूपम् आश्रित्य तिष्ठति ॥

6.10.27

इतीयम् अखिलां दृश्यदशाम् आदाय संस्थिता ।
यथा घनपटा प्रावृड् अम्बरालम्बिनी तथा ॥

6.10.28

स्वरूपम् अस्याश् चैवैतत् कथितं प्रविचारितम् ।
असर्वं सर्वतो व्यापि सद् इवासन्मयात्मकम् ॥

6.10.29

आत्मदृष्टिर् अदृष्टैषा संसृतिभ्रमदायिनी ।
दृष्टा सती समग्राणां दुःखानां क्षयकारिणी ॥

6.10.30

अस्यास् त्व् अदर्शनं यत् तद् अविद्येत्य् उच्यते बुधैः ।
अविद्या हि जगद्धेतुस् ततस् सर्वं प्रवर्तते ॥

6.10.31

अविद्या रूपरहिता यावद् एवावलोक्यते ।
तावद् एव गलत्य् आशु तुहिनाणुर् यथातपे ॥

6.10.32

यथा नरो गलन्निद्रो यावत् कलनया मनाक् ।
विमृशत्य् आशयं तावन् निद्रा तस्य विलीयते ॥

6.10.33

तथा कीदृग् अवस्त्व् एतद् इति यावद् विकल्प्यते ।
अविद्या क्षीयते तावद् आलोकेनान्धता यथा ॥

6.10.34

दीपहस्तो यदाभ्येति तमोरूपदिदृक्षया ।
तदा गलति तत् सर्वं तमस् तापे घृतं यथा ॥

6.10.35

न तु संलक्ष्यते दीपैस् तमसो रूपनिश्चयः ।
उदेति केवलं ध्वान्तध्वंसो विमलमूर्तिमान् ॥

6.10.36

एवम् आलोक्यमानैषा क्वापि याति पलायते ।
असद्रूपा ह्य् अवस्तुत्वं दृश्यते ऽस्या विचारणात् ॥

6.10.37

आलोक आगते यादृग् यद् यत् तद् दृश्यते तथा ।
अवस्तुत्वे त्व् अविद्यायास् त्व् अवस्तुत्वं प्रतीयते ॥

6.10.38

यावन् नालोक्यते तावन् न किञ्चिद् अपि दृश्यते ।
आलोक्यते यथा यद् यत् तत् तथा प्रतिपद्यते ॥

6.10.39

रक्तमांसास्थियन्त्रे ऽस्मिन् कस् स्याम् अहम् इति स्वयम् ।
यावद् विचार्यते तावत् सर्वम् आशु प्रलीयते ॥

6.10.40

आद्यन्तयोर् असद्रूपे नूनं परिहृते हृदः ।
सर्वस्मिन्न् एव यश् शेषस् तम् अविद्याक्षयं विदुः ॥

6.10.41

तन् नकिञ्चिच् च किञ्चिच् च यत् सत् तद् ब्रह्म शाश्वतम् ।
तद् वस्तु तद् उपादेयं तद् अविद्यानिवर्तनम् ॥

6.10.42

स्वरूपं नाम्न एवास्या ज्ञायते निस्स्वभावकम् ।
न हि जिह्वागतस्येक्षोस् स्वादो ऽन्यस्मात् प्रतीयते ॥

6.10.43

नाविद्या क्वचिद् अप्य् अस्ति ब्रह्मैवेदम् अखण्डितम् ।
सदसत्कलनास्फारम् अशेषं येन मण्डितम् ॥

6.10.44

एतावद् एवाविद्या यन् नेदं ब्रह्मेति निश्चयः ।
एतद् एव क्षयो यस् स्याद् इदं ब्रह्मेति निश्चयः ॥

6.10.45

घटपटशकटावभासजालं न विभुर् इतीत्य् उदितेह सा त्व् अविद्या ।
घटपटशकटावभासजालं विभुर् इति चेद् गलितैव सा त्व् अविद्या ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc