मोक्षोपाय · अध्याय 6.8
संसारवनषण्डे ऽस्मिंश् चित्पर्वततटस्थिते ।
कीदृशी खल्व् अविद्याख्या लता विकसिता तता ॥
बृहत्पर्वतपर्वाढ्या ब्रह्माण्डत्वक्परावृता ।
देहयष्टिर् इयं यस्यास् त्रिलोकी लोकलासिनी ॥
सुखं दुःखं भवो भावो ज्ञानम् अज्ञानम् एव च ।
अत्रैतान्य् उरुवृत्तानि मूलानि च फलानि च ॥
सुखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते प्रयच्छति ।
दुःखाद् अविद्योदेत्य् उच्चैस् तद् एवान्ते फलत्य् अलम् ॥
भवाद् अविद्योदेत्य् एषा तम् एव फलति स्फुटम् ।
भावात् सत्ताम् अवाप्नोति तम् एव फलति क्षणात् ॥
अज्ञानाद् वृद्धिम् आयाति तद् एवास्याः फलं स्मृतम् ।
ज्ञानेन याति संवित्तिं तद् एवान्ते प्रयच्छति ॥
नानाविधोल्लासवती वासनामोददायिनी ।
घनप्रवालपटला तनुर् अस्या विजृम्भते ॥
दिवसव्यूहकुसुमा यामिनीलोलषट्पदा ।
अजस्रं स्पन्दमानैषा प्रपतद्भूतपल्लवा ॥
आगत्यागत्य तरसा विवेककरिणा क्वचित् ।
विधूयते धूतरजःप्रसरा पुनर् एति च ॥
जायमानप्रवालाढ्या सञ्जाताङ्कुरदन्तुरा ।
सर्वर्तुकुसुमोपेता समग्ररसशालिनी ॥
जन्मपर्वालिनीरन्ध्रा विनाशच्छिद्रदद्रुला ।
भोगाभोगरसापूर्णा विचारैकघुणक्षता ॥
विकसन्त्यः प्रतिदिनं चन्द्रार्कावलयो हि याः ।
व्योम्नि वातविलोलानि पुष्पाण्य् अस्याः किलाङ्ग ताः ॥
अस्याः प्रस्फुरिताकाराः कोरकत्वम् उपागताः ।
पूरिताकाशकोशा यास् तारका रघुनन्दन ॥
चन्द्रार्कदहनालोका अस्यास् तत् कौसुमं रजः ।
अनेनेयं हि गौराङ्गी स्त्रीवच् चेतांसि कर्षति ॥
मनोमातङ्गवलिता सङ्कल्पकलकोकिला ।
इन्द्रियव्यालशबला तृष्णात्वगुपरञ्जिता ॥
नीलाकाशतमालाङ्गसंश्रयेणोन्नतिं गता ।
रोदसीजानुसुस्तम्भा भुवनोद्यानभूस्थिता ॥
अधोब्रह्माण्डखण्डेन स्वालवालेन जालिना ।
विहिताशेषजलधिजलक्षीरादिसेचना ॥
त्रयीविलोलभ्रमरा रमणीपुष्परञ्जिता ।
चित्स्पन्दवातवलिता क्रियाविपुलपत्त्रिका ॥
कुकर्माजगरव्याप्ता स्वर्गश्रीपुष्पमण्डपा ।
जीवजीवकनीरन्ध्रा नानामोदमदप्रदा ॥
नानारसमयी चित्रा नानाकुसुमहासिनी ।
नानाफलावलिव्याप्ता नानावर्णविकासिनी ॥
नानालवालवलया नानाविहगधारिणी ।
नानापरागपरुषा नानाभ्रलवलाञ्छिता ॥
नानालताकुट्मलिता नानावनगणोत्थिता ।
नानागिरितटारूढा नानाचलनिरन्तरा ॥
जाता च जायमाना च म्रियमाणा तथा मृता ।
अनुच्छिन्ना तथा च्छिन्ना नित्यम् अच्छेदिनी तथा ॥
अतीता वर्तमाना च सत्येवासत्पदास्पदा ।
नित्यम् अत्यन्ततरुणा नित्यं शमम् उपेयुषी ॥
महाविषलतैषा हि संसारविषमूर्छनाम् ।
ददाति रभसा श्लिष्टा परामृष्टा विनश्यति ॥
स्फीतेतो गलितेतश् च रूढेतस् संस्थितान्व् इतः ।
इतो जलम् इतश् शैला इतो नागास् सुरा इतः ॥
इतः पृथ्वीत्वम् आयाता तथेतो द्युतया स्थिता ।
इतश् चन्द्रार्कतां प्राप्ता तथेतस् तारकाकृतिम् ॥
इतस् तम इतस् तेज इतः खम् इत उर्वरा ।
इतश् शास्त्रम् इतो वेदा इतो द्वयविवर्जिता ॥
इतः पुण्यम् इतः पापम् इतस् स्थावरमूढता ।
इतो ज्ञानात् परिक्षीणा पीनेतो ऽज्ञानभावनात् ॥
इतः पुण्यतपोदानैः क्षीयमाणतया स्थिता ।
इतो योगविलासेन नूनं क्षयम् उपागता ॥
क्वचित् खगतयोड्डीना क्वचिद् देवतया स्थिता ।
क्वचित् स्थाणुतया रूढा क्वचित् पवनतां गता ॥
क्वचिन् नरकसंलीना क्वचित् स्वर्गनिवासिनी ।
क्वचित् सुरपदं प्राप्ता क्वचित् क्रिमितया स्थिता ॥
क्वचिद् विष्णुः क्वचिद् ब्रह्मा क्वचिद् रुद्रः क्वचिद् रविः ।
क्वचिद् अग्निः क्वचिद् वायुः क्वचिच् चन्द्रः क्वचिद् यमः ॥
यत् किञ्चनाङ्ग भुवनेषु महामहिम्ना व्याप्तं जरत्तृणलवत्वम् उपागतं वा ।
दृश्यं स्फुरत्तनु हराद्य् अपि ताम् अविद्यां विद्धि क्षयाय तदतीततयात्मलाभः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0