भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.88

6.88.1

ततश् शिखिध्वजो राजा तत्त्वज्ञानपदं विना ।
आजगाम परं मोहं यामान्ध्यम् इव भूतलम् ॥

6.88.2

दुःखाग्निदीपितमना मनाग् अपि विभूतिषु ।
तास्व् अपीष्टोपनीतासु न रेमे ऽग्निशिखास्व् इव ॥

6.88.3

एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च ।
आजगाम रतिं जन्तुमुक्तेषु व्यसनी यथा ॥

6.88.4

राघव त्वम् इवाशेषास् सान्त्वानुनयचोदनैः ।
प्रार्थितः कार्यते भृत्यैर् महीपो दिवसक्रियाः ॥

6.88.5

नित्यम् उद्दामवैराग्यः परिव्राड् इव शान्तधीः ।
निन्दन्न् एव महाभोगान् अभोक्तैव श्रियां स्थितः ॥

6.88.6

ददाव् अतितरां दानं गोभूमिकनकादिकम् ।
देवेभ्यो ब्राह्मणेभ्यश् च स्वजनेभ्यश् च मानदः ॥

6.88.7

चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् ।
परिबभ्राम तीर्थानि वनान्य् आयतनानि च ॥

6.88.8

स तथापि विशोकत्वं मनाग् अपि न लब्धवान् ।
अनिधानां खनन् भूमिं निधानार्थी निधिं यथा ॥

6.88.9

रात्रिन्दिनम् अनन्तेन शुष्यञ् शोककृशानुना ।
चिन्तया चिन्तयाम् आस संसारव्याधिभेषजम् ॥

6.88.10

चिन्तापरवशो दीनो राज्यं पश्यन् विषोपमम् ।
महाविभवम् अप्य् अग्रे नापश्यत् खिन्नया धिया ॥

6.88.11

अथैकदैकान्तगतां चूडालाम् अङ्कम् आगताम् ।
इदं मधुरया वाचा समुवाच शिखिध्वजः ॥

6.88.12

भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः ।
अधुनास्मि विरागेण युक्तो गच्छामि काननम् ॥

6.88.13

न सुखानि न दुःखानि नापदो न च सम्पदः ।
क्रोडीकुर्वन्ति भूतानि मुनिं वननिवासिनम् ॥

6.88.14

न देशभङ्गसम्मोहो न सङ्ग्रामजनक्षयः ।
राज्याद् अप्य् अधिकं मन्ये सुखं वननिवासिनः ॥

6.88.15

स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः ।
मञ्जरीजालहासिन्यो लोलशुभ्राम्बुदांशुकाः ॥

6.88.16

स्वपरागाङ्गहारिण्यः कृतकौसुममण्डनाः ।
सुसेव्यकाञ्चनशिलानितम्बतटशोभनाः ॥

6.88.17

तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः ।
लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः ॥

6.88.18

स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः ।
षट्पदश्रेणिनयनाः पुष्पापूरनताङ्गिकाः ॥

6.88.19

आश्वासास्पदतां याताश् शीतलामलगात्रिकाः ।
रमयन्ति त्वम् इव मां वनवीथ्यो वरानने ॥

6.88.20

यथा विविक्तम् एकान्ते मनो भवति निर्वृतम् ।
न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु ॥

6.88.21

अस्मिन् मत्प्रणये तन्वि न विघ्नं कर्तुम् अर्हसि ।
भर्तुर् विघटयन्तीच्छां न स्वप्ने ऽपि कुलस्त्रियः ॥

6.88.22

प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् ।
वसन्ते राजते पुष्पं फलं शरदि राजते ॥

6.88.23

जराजरढदेहानां युक्तं वनसमाश्रयः ।
न यूनां त्वादृशाम् एव तेनैतन् मे न रोचते ॥

6.88.24

यौवनेन महाराज न यावद् वयम् उज्झिताः ।
पुष्पौघेनेव तरवस् तावच् छोभामहे गृहे ॥

6.88.25

पुष्पाभया पुष्पसितं जरसा सह काननम् ।
समं गृहाद् गमिष्यामो हंसा इव तरोस् सरः ॥

6.88.26

अप्राप्तकालं नृपतेः प्रजापालनम् उज्झतः ।
राजयक्ष्मेव चन्द्रस्य महद् एनो न नश्यति ॥

6.88.27

अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः ।
रोधयन्ति ह्य् अकार्येभ्यः प्रभुभृत्याः परस्परम् ॥

6.88.28

अलम् उत्पलमालाक्षि विघ्नेनाभिमतस्य मे ।
विद्धि मां गतम् एवेतो दूरम् एकान्तकाननम् ॥

6.88.29

बाला त्वम् अनवद्याङ्गी नागन्तव्यं वनं त्वया ।
पुंसाम् अपि हि मृद्वङ्गि दुर्विषह्यो वनाश्रयः ॥

6.88.30

न समर्था वनावासे योषितः कठिना अपि ।
का नाम पुष्पमञ्जर्यस् सोढुम् अर्कातपं क्षमाः ॥

6.88.31

भवत्या पालयन्त्येह राज्यं स्थातव्यम् उत्तमे ।
कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः ॥

6.88.32

इत्य् उक्त्वा दयितां राजा ताम् इन्दुवदनां वशी ।
उत्तस्थौ स्नातुम् अखिलं दिनकार्यं चकार ह ॥

6.88.33

अथोज्झितप्रजाचेष्टो रविर् अस्ताचलं ययौ ।
शिखिध्वजो वनम् इव समस्तजनदुर्गमम् ॥

6.88.34

संहृत्य विततं रूपं तम् एवानुययौ प्रभा ।
नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी ॥

6.88.35

आययौ यामिनी श्यामा भुवनं भस्मधूसरम् ।
धृतव्योमापगं शर्वम् ईर्ष्ययेव यमस्वसा ॥

6.88.36

दिक्षु सन्ध्याभ्रहस्तासु स्थितासु कृतकुण्डलम् ।
तमोलवालकाङ्कासु ज्योत्स्नाहासोदयाङ्कितम् ॥

6.88.37

गच्छतोर् अपरं पारं दम्पत्योर् मैरवं वनम् ।
देवोद्यानमयं रन्तुं दिनश्रीदिननाथयोः ॥

6.88.38

आगच्छतोर् इमं पारं हृद्यं तीक्ष्णकरोज्झितम् ।
निशानिशानाथयोश् च दम्पत्योर् मैरवं पुनः ॥

6.88.39

तारागणो ऽपि ददृशे विशीर्णो व्योमकुट्टिमे ।
मुक्तो मङ्गललाजानां दिग्वधूभिर् इवाञ्जलिः ॥

6.88.40

चन्द्रानना तमश्श्यामा शीता कुमुदहासिनी ।
यामिनी यौवनं प्राप सरोजमुकुलस्तनी ॥

6.88.41

कृतसन्ध्यासमाचारस् सह चूडालयेष्टया ।
सुष्वाप शयने भूपो मैनाक इव सागरे ॥

6.88.42

अथार्धरात्रसमये देशे निश्शब्दतां गते ।
घननिद्राशिलाकोशनिलीने सकले जने ॥

6.88.43

स तस्यां सम्प्रसुप्तायां शयने कोमलांशुके ।
भृशं निद्राविमूढायां भ्रमर्याम् इव पङ्कजे ॥

6.88.44

तत्याज दयितां सुप्ताम् अङ्काद् राजा शिखिध्वजः ।
स्वैरं स्वैरं मुखं राहो रविचन्द्रप्रभाम् इव ॥

6.88.45

उत्तस्थौ शयनाल् लीनवधूकाद् धवलांशुकात् ।
सलक्ष्मीकाद् विलोलोर्मेर् हरिः क्षीरार्णवाद् इव ॥

6.88.46

निर्जगामाङ्गनं मत्तसुप्तभृत्यजनं गृहात् ।
वनं सुप्तमृगव्यूहं केसरी कन्दराद् इव ॥

6.88.47

खड्गमात्रसहायो ऽसौ पटद्वयपरावृतः ।
अर्धसुप्तद्वारपालं द्वारदेशम् अवाप च ॥

6.88.48

वीरक्रमार्थं यामीति तत्रैव द्वारपव्रजम् ।
योजयित्वा जगामासौ पुरान् निर्गत्य पूर्णधीः ॥

6.88.49

राज्यलक्ष्म्यै नमस् तुभ्यम् इत्य् उक्त्वा मण्डलाद् गतः ।
विवेशोग्राम् अरण्यानीम् एको नद इवार्णवम् ॥

6.88.50

घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा ।
सारण्यानीनिशा सा च समं तेनातिवाहिता ॥

6.88.51

प्रातश् शून्यम् अरण्यानीखं तीर्त्वा विततं दिनम् ।
समम् अर्केण कस्याञ्चिद् विशश्राम वनावनौ ॥

6.88.52

भानाव् अदृश्यतां याते तत्र स्नानादिपूर्वकम् ।
किञ्चित् फलादिकं भुक्त्वा तां निनाय तमस्वतीम् ॥

6.88.53

पुनः प्रातः पुराण्य् उच्चैर् मण्डलानि गिरीन् नदीः ।
बलाद् उल्लङ्घयाम् आस राम द्वादशशर्वरीः ॥

6.88.54

ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् ।
प्राप काननम् अत्यन्तदूरस्थजनतापुरम् ॥

6.88.55

रटत्प्रणालसलिलवापीवलितपादपम् ।
शीर्णवेद्यादिविज्ञातभूतपूर्वद्विजाश्रमम् ॥

6.88.56

क्षुद्रप्राणिविनिर्मुक्तं सिद्धसेव्यलतालयम् ।
आपूर्णपादपलतं प्राणवृत्तिकरैः फलैः ॥

6.88.57

तत्रैकस्मिन् स्थले शुद्धे समे सलिलमालिते ।
शीतले शाद्वलश्यामे स्निग्धे सफलपादपे ॥

6.88.58

समञ्जरीभिर् वल्लीभिस् स चकारोटजालयम् ।
प्रावृट्कालस् सविद्युद्भिर् नीलाभ्रैर् इव पञ्जरम् ॥

6.88.59

मसृणं वैणवं दण्डं फलभोजनभाजनम् ।
अर्घपात्रं पुष्पभाण्डम् अक्षमालां कमण्डलुम् ॥

6.88.60

कन्थां शीतापनोदाय बृसीं चैव मृगाजिनम् ।
आनीयायोजयत् तस्मिन् मठिकामन्दिरे नृपः ॥

6.88.61

यत् किञ्चिद् अन्यद् वा वस्तु योग्यं तापसकर्मणि ।
तत् तत्र स्थापयाम् आस जगतीव क्रमं विधिः ॥

6.88.62

सन्ध्यापूर्वं जपं प्रातःप्रहरं स तदाकरोत् ।
पुष्पोच्चयं द्वितीयं तु स्नानं देवार्चनं ततः ॥

6.88.63

पश्चाद् वनफलं किञ्चिद् वनकन्दं बिसादिकम् ।
भुक्त्वा जप्यपरो भूत्वा निनायैको निशां वशी ॥

6.88.64

इति दिवसम् अखेदं मन्दरोपान्तकच्छे विरचित उटजे ऽन्तर् मालवेशो निनाय ।
न च नृपतिविलासं तं स सस्मार कं वा स्फुरति हृदि विवेके राज्यलक्ष्म्यो हरन्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc