मोक्षोपाय · अध्याय 6.87
अणिमादिगुणैश्वर्ययुक्ता सा नृपमानिनी ।
एवं बभूव चूडाला घनाभ्यासवती सती ॥
जगामाकाशमार्गेण विवेशाम्बुधिकोटरम् ।
चचार वसुधापीठे गङ्गेवामलशीतला ॥
क्षणम् अप्य् अगता भर्तुर् वक्षसश् चेतसस् तथा ।
सर्वेषूवास राज्येषु लक्ष्मीर् इव जगत्सु च ॥
आकाशगामिनी श्यामा विद्युदालोलभूषणा ।
बभ्राम मेघलेखेव गिरिमाला महीतले ॥
काष्ठं तृणोपलं भूमिं खं वातम् अनलं जलम् ।
निर्विघ्नम् अविशत् सर्वं तन्तुर् मुक्ताफलं यथा ॥
मेरोर् उपरि शृङ्गाणि लोकपालपुराणि च ।
दिग्व्योमोदररन्ध्राणि विजहार यथासुखम् ॥
तिर्यग्भूतपिशाचाद्यैस् सह नागामरासुरैः ।
विद्याधराप्सरस्सिद्धैर् व्यवहारं चकार सा ॥
यत्नेन तं च भर्तारम् आत्मज्ञानामृतं प्रति ।
बहुशो बोधयाम् आस माता बालम् इवात्मजम् ॥
न चासाव् आप तद्भर्ता राजा विश्रान्तिम् आत्मनि ।
मुक्ताफलम् असंश्लिष्टं मुक्ताफल इवातले ॥
एतावतापि कालेन ताम् एवंगुणशालिनीम् ।
बालो विद्याम् इव नृपश् चूडालां न विवेद सः ॥
कलाविदग्धा मुग्धा च बालेयं गृहिणी मम ।
इत्य् एव केवलं राजा स चूडालां विवेद ताम् ॥
साप्य् अलब्धात्मविश्रान्तेस् तां सिद्धिश्रियम् आत्मनः ।
दर्शयाम् आस नो राज्ञश् शूद्रस्येव मखक्रियाम् ॥
महत्यास् सिद्धयोगिन्यास् तस्या अपि शिखिध्वजः ।
यत्नेन प्राप नो बोधं बुध्यते ऽन्यः कथं प्रभो ॥
उपदेशक्रमो नाम व्यवस्थामात्रपालनम् ।
ज्ञप्तेस् तु कारणं शुद्धा शिष्यप्रज्ञैव राघव ॥
न श्रुतेन न पुण्येन ज्ञायते ज्ञेयम् आत्मनः ।
जानात्य् आत्मानम् आत्मैव सर्पस् सर्पपदानि व ॥
एवं स्थिते वरमुने कथम् एतज् जनश्रुतौ ।
श्रुतं गुरूपदेशश् च स्वात्मज्ञानस्य कारणम् ॥
अत्यन्तं कृपणः कश्चित् किराटो धनधान्यवान् ।
आस्ते विन्ध्याटवीकच्छे कुटुम्बी व्रणकीटवत् ॥
तस्यैकदा निपतिता गच्छतो विन्ध्यजङ्गले ।
एका वराटिका राम तृणजालबुसावृते ॥
कार्पण्यात् स प्रयत्नेन सर्वं तृणबुसादिकम् ।
कपर्दिकार्थम् अभितो दुधाव दिवसत्रयम् ॥
कपर्दकाद् द्वौ भवतश् चत्वारो ऽष्टौ च कालतः ।
ततश् शतं सहस्रं च सहस्रं चेति चेतसा ॥
कलयञ् जङ्गले दीनो रात्रिन्दिनम् अतन्द्रितः ।
जनहासं सहंस् त्रीणि दिनानि धुतवान् बुसम् ॥
ततो दिनत्रयस्यान्ते तेन तस्मात् कुजङ्गलात् ।
पूर्णेन्दुबिम्बप्रतिमो लब्धश् चिन्तामणिर् महान् ॥
तं प्राप्य तुष्टहृदयस् समागत्य गृहं सुखी ।
प्राप्ताखिलजगद्भूतिश् शान्तसर्वभयस् स्थितः ॥
एवं यथा किराटेन कपर्दान्वेषणेन तत् ।
रत्नं लब्धं जगन्मूल्यम् अहोरात्रम् अखिद्यता ॥
तथा श्रुतोपदेशेन स्वात्मज्ञानम् अवाप्यते ।
अन्यद् अन्विष्यते चान्यल् लभ्यते हि गुरुक्रमात् ॥
ब्रह्म सर्वेन्द्रियातीतं श्रुतादीन्द्रियसंविदा ।
तेनोपदेशाद् अनघ नात्मतत्त्वम् अवाप्यते ॥
गुरूपदेशं च विना नात्मतत्त्वागमो भवेत् ।
केन चिन्तामणिर् लब्धः कपर्दान्वेषणं विना ॥
तत्त्वस्यास्य महार्घस्य गुरूपकथनं गतम् ।
अकारणं कारणतां मणेर् इव कपर्दकः ॥
पश्य राघव मायेयं मोहनी महताम् अपि ।
अन्यद् अन्विष्यते यत्नाद् अन्यद् आसाद्यते फलम् ॥
अन्यत् करोति पुरुषः फलम् अन्यद् एव प्राप्नोति वस्तुनियतिश् च विलोक्यते च ।
तस्माद् अनन्तविभवस्य जगत्क्रमस्य श्रेयो ऽतिवाहनम् असङ्गम् अवज्ञयैव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0