भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.86

6.86.1

अणुतां स्थूलतां चायं यथा गच्छति योगिनाम् ।
देहो राम तथा सम्यग् वक्ष्यमाणम् इदं शृणु ॥

6.86.2

हृद्य् अब्जपत्त्रकोशोत्थः प्रस्फुरत्य् आनलः कणः ।
हेमभ्रमरवत् सान्ध्ये विद्युत्कण इवाम्बुदे ॥

6.86.3

स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते ।
संविद्रूपतया नूनम् अर्कवद् याति चोदयम् ॥

6.86.4

सन्ध्याभ्रप्रथमार्काभो वृद्धिम् अभ्यागतः क्षणात् ।
गालयत्य् अखिलं साङ्गं देहं हेम यथानलः ॥

6.86.5

जलस्पर्शासहो युक्त्या गालयत्य् उपलाद्य् अपि ।
बाह्य एवानलस्पन्द आन्तरस् तु विशेषतः ॥

6.86.6

स शरीरद्रवः पश्चाद् विधूय क्वापि नीयते ।
चित्क्षोभितेन प्राणेन नीहारो वात्यया यथा ॥

6.86.7

आधारनाडिनिर्हीना व्योमस्थैवावशिष्यते ।
शक्तिः कुण्डलिनी वह्नेर् धूमलेखेव निर्गता ॥

6.86.8

क्रोडीकृतमनोबुद्धिमयजीवाद्यहङ्कृतिः ।
अन्तस्स्फुरच्चमत्कारा धूमलेखेव तागरी ॥

6.86.9

बिसवालव्रणे भित्ताव् उपले दिवि भूतले ।
सा यथा योज्यते यत्र तेन निर्यात्य् अलं तथा ॥

6.86.10

संवित्तिस् सैव यद्य् अङ्ग रसादानाद् यथाक्रमम् ।
रसेनापूर्णताम् एति तन् नीहार इवाम्बुना ॥

6.86.11

रसपूर्णा यम् आकारं भावयत्य् आशु तत् तथा ।
धत्ते चित्रकृतो बुद्धौ रेखा राम यथाकृतिम् ॥

6.86.12

दृढभाववशाद् अन्तर् अस्थीन्य् आप्नोति सा ततः ।
मातृगर्भनिषण्णेव सुषिक्तेवाङ्कुरस्थितिः ॥

6.86.13

यथाभिमतम् आकारं प्रमाणं चेति राघव ।
जीवशक्तिर् अवाप्नोति सुमेर्वादि तृणादि वा ॥

6.86.14

श्रुतं त्वया योगसाध्यम् अणिमाद्यर्थसाधनम् ।
ज्ञानसाध्यम् इदानीं त्वं शृणु श्रवणभूषणम् ॥

6.86.15

एकं चिन्मात्रम् अस्तीह शुद्धं सोम्यम् अलक्षितम् ।
सूक्ष्मात् सूक्ष्मतरं शान्तं नाजगन् न जगत्क्रियाः ॥

6.86.16

तच् चिनोत्य् आत्मनात्मानं सङ्कल्पोन्मुखतां गतम् ।
यदा तदा जीव इति प्रोक्तम् आबिलतां गतम् ॥

6.86.17

असत्यम् एव सङ्कल्पभ्रमेणेदं शरीरकम् ।
जीवः पश्यति मूढात्मा बालो यक्षम् इवोद्धतम् ॥

6.86.18

यदा तु ज्ञानदीपेन सम्यगालोक आगते ।
सङ्कल्पमोहो जीवस्य क्षीयते शरदभ्रवत् ॥

6.86.19

शान्तिम् आयाति देहो ऽयं सर्वसङ्कल्पसङ्क्षये ।
तदा राघव निश्शेषं दीपस् तैलक्षये यथा ॥

6.86.20

निद्राव्यपगमे जन्तुर् यथा स्वप्नं न पश्यति ।
जीवो हि भाविते सत्ये तथा देहं न पश्यति ॥

6.86.21

अतत्त्वे तत्त्वभावेन जीवो देहावृतस् स्थितः ।
निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात् ॥

6.86.22

अनात्मनि शरीरादाव् आत्मभावनम् अङ्ग यत् ।
सूर्याद्यालोकदुर्भेदं हार्दं तद् दारुणं तमः ॥

6.86.23

आत्मन्य् एवात्मभावेन सर्वव्यापि निरञ्जनम् ।
चिन्मात्रम् अमलो ऽस्मीति ज्ञानादित्येन पश्यति ॥

6.86.24

प्रतिमन्वन्तरं राम बुद्धताम् अनुतिष्ठति ।
कलौ हरिर् अमेयात्मा किञ्चिद् आश्रित्य कारणम् ॥

6.86.25

तस्य बुद्धाभिधानस्य मुनिनाथस्य राघव ।
ये भक्तिमन्तो धीमन्तो मोक्षमार्गाभिकाङ्क्षिणः ॥

6.86.26

शून्यं विज्ञानमात्रं वा मध्यं वा किञ्चिद् एतयोः ।
अस्तीति हेतूपन्यासैर् ब्रह्म व्यपदिशन्ति ते ॥

6.86.27

तेषां मध्ये हि विज्ञानविदो द्वित्वे क्षयीकृते ।
जगद् भ्रान्तिपरामर्शमात्रं पश्यन्ति नेतरत् ॥

6.86.28

मध्यं माध्यमिकाः प्राहुः क्षणभङ्गविदः परे ।
न शून्यं न च विज्ञानम् इदं किञ्चिद् इति स्थिताः ॥

6.86.29

ते शून्यवादिनस् त्व् अन्ये शून्यत्वदृढभावनाः ।
व्योम्नश् शून्यतरं सर्वं जगद् इत्य् आस्थयोज्झिताः ॥

6.86.30

एकम् आकाशम् एवोच्चैर् आकाशविशदाशयाः ।
पश्यन्ति राम नात्मानं जगदादि च वा पृथक् ॥

6.86.31

शिलाकुड्येन निर्यान्ति नभसेवानिरोधितम् ।
शस्त्रानिलैर् न भिद्यन्ते नभोभागा इवाचलाः ॥

6.86.32

सुमेरुविपुलाकारा अप्य् आदित्यांशुरेणुषु ।
बिसतन्तुषु मेघेषु तिष्ठन्ति परमाणुवत् ॥

6.86.33

शून्यत्वम् इव संयाताश् शून्यताबद्धभावनाः ।
शून्या इव नभोभागाश् शून्ये तिष्ठन्ति विज्वरम् ॥

6.86.34

शून्ये च विदितात्मानो भावयन्ति यथैव यत् ।
तत् तथैवाशु पश्यन्ति दृढभावनया स्वया ॥

6.86.35

दृढभावानुसन्धानाद् विमूढा अपि राघव ।
विषं नयन्त्य् अमृतताम् अमृतं विषताम् अपि ॥

6.86.36

एवं यथा यथैवेह भाव्यते दृढभावनम् ।
भूयते हि तथैवाशु तद् एत्य् आलोकितं पुनः ॥

6.86.37

सत्यभावेन दृष्टो ऽयं देहो देहो भवत्य् अलम् ।
दृष्टस् त्व् असत्यभावेन व्योमतां याति देहकः ॥

6.86.38

अणिमादिपदप्राप्तौ ज्ञानयुक्तिर् इति श्रुता ।
भवतैषाधुना राम युक्तिम् अन्याम् इमां शृणु ॥

6.86.39

रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।
उद्धृत्य योज्यते वायाव् आमोदः कुसुमाद् इव ॥

6.86.40

त्यज्यते विगतस्पन्दो देहो ऽयं काष्ठलोष्टवत् ।
देहे विजीवे विमणौ वंशे च क इवादरः ॥

6.86.41

स्थावरे जङ्गमे वापि यथाभिमतयेच्छया ।
भोक्तुं तत्सम्पदं सम्यग् जीवो ऽन्तर् विनिवेश्यते ॥

6.86.42

इति सिद्धिश्रियं भुक्त्वा स्थितं चेत् तद् वपुः पुनः ।
प्रविश्यते स्वम् अन्यद् वा यद् यथात्राभिरोचते ॥

6.86.43

देहाद् अयातया विष्वग् व्याप्तवत्या च खानिलम् ।
संविदा जगद् आपूर्य सम्पूर्णं स्थीयते ऽथ वा ॥

6.86.44

ज्ञात्वा सदाभ्युदितम् उज्झितदोषम् ईशं यद् यद् यथा समभिवाञ्छति चित्प्रकाशः ।
प्राप्नोति तत् तद् अचिरेण तथैव राम सम्पत्पदं विदुर् अनावरणत्वम् एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc