मोक्षोपाय · अध्याय 6.85
एतत् पञ्चकबीजं यत् कुण्डलिन्यां तद् अन्तरे ।
प्राणमारुतरूपेण तस्यां स्फुरति सर्वदा ॥
सान्तः कुण्डलिनी स्पन्दस्पर्शसंवित्कलामला ।
कलोक्ता कलनेनाशु कथिता चेतनेन चित् ॥
जीवनाज् जीवतां याता मननाच् च मनस् स्थिता ।
सङ्कल्पात् सैव सङ्कल्पो बोधाद् बुद्धिर् इति स्मृता ॥
अहङ्कारकलां याता सैषा पुर्यष्टकाभिधा ।
स्थिता कुण्डलिनी देहे जीवशक्तिर् अनुत्तमा ॥
अपानताम् उपागत्य सततं प्रवहत्य् अधः ।
समाननाम्नी मध्यस्था उदानाख्योपरिस्थिता ॥
अधस् त्व् अपानरूपैव मध्ये सोम्यैव सर्वदा ।
पृष्ठाद् उदानरूपैव पुंसस् स्वस्थस्य तिष्ठति ॥
सर्वयत्नम् अधो याता यदि यत्नान् न धार्यते ।
तत् पुमान् मृतिम् आयाति तया निर्गतया बलात् ॥
समस्तैवोर्ध्वम् आयाता यदि युक्त्या न धार्यते ।
तत् पुमान् मृत्युम् आयाति तया निर्गतया बलात् ॥
सर्वथात्मनि चेत् तिष्ठेत् त्यक्त्वोर्ध्वाधोगमागमम् ।
तज् जन्तोर् जायते व्याधिर् मलमारुतरोधतः ॥
सामान्यनाडीवैधुर्यात् सामान्यव्याधिसम्भवः ।
प्रधाननाडीवैधुर्यात् प्रधानव्याधिसम्भवः ॥
किंविनाशाः किमुत्पादाश् शरीरे ऽस्मिन् मुनीश्वर ।
आधयो व्याधयश् चैव यथावत् कथयाशु मे ॥
आधयो व्याधयश् चैव द्वयं दुःखस्य कारणम् ।
तन्निवृत्तिं सुखं विद्यात् तत्क्षयो मोक्ष उच्यते ॥
मिथः कदाचिज् जायेते कदाचित् समम् एव तु ।
पर्यायेण कदाचित् ताव् आधिव्याधी शरीरके ॥
देहदुःखं विदुर् व्याधिम् आध्याख्यं वासनामयम् ।
मौर्ख्यमूले हि ते विद्यात् तत्त्वज्ञानपरिक्षये ॥
अतत्त्वज्ञानवशतस् स्वेन्द्रियाक्रमणं विना ।
हृदि तानवम् उज्झत्सु रागद्वेषेष्व् अनारतम् ॥
इदं प्राप्तम् इदं नेति जाड्यान्ध्यघनमोहदाः ।
आधयस् सम्प्रवर्तन्ते वर्षासु मिहिका इव ॥
भृशं स्फुरन्तीष्व् इच्छासु मौर्ख्याच् चेतस्य् अनिर्जिते ।
दुरन्नाभ्यवहारेण दुर्देशाक्रमणेन च ॥
दुष्कालव्यवहारेण दुष्क्रियास्फुरणेन च ।
दुर्जनासङ्गदोषेण दुर्भावोद्भवनेन च ॥
क्षीणत्वाद् वा प्रपूर्णत्वान् नाडिष्व् असुखसंसृतौ ।
प्राणे विधुरतां याते कुपथेव नवाध्वगे ॥
दौस्स्थित्यकारणं दोषाद् व्याधिर् देहे प्रवर्तते ।
नद्यां प्रावृण्निदाघाभ्याम् इवाकारविपर्ययः ॥
प्राक्तनी वैहिकी वापि शुभा वाप्य् अशुभा मतिः ।
यैवाधिका सैव तथा तस्मिन् योजयति क्रमे ॥
आधयो व्याधयश् चैवं जायन्ते भूतपञ्चके ।
कथं शृणु विनश्यन्ति राघवाणां कुलोद्वह ॥
द्विविधो ह्य् आधिर् अस्तीह सामान्यस् सार एव च ।
व्यवहारस् तु सामान्यस् सारो जन्ममयस् स्मृतः ॥
प्राप्तेनाभिमतेनैव नश्यन्ति व्यावहारिकाः ।
आधिक्षयेणाधिभवाः क्षीयन्ते व्याधयो ऽप्य् अलम् ॥
आत्मज्ञानं विना सारो नाधिर् नश्यति राघव ।
भूयो रज्ज्ववबोधेन रज्जुसर्पो हि नश्यति ॥
आधिव्याधिविलासानां राम साराधिसङ्क्षयः ।
सर्वेषां मूलहा प्रावृण्नदीव तटवीरुधाम् ॥
अनाधिजा व्याधयस् तु द्रव्यमन्त्रशुभक्रमैः ।
चिकित्सकादिशास्त्रोक्तैर् नश्यन्त्य् अभ्रैर् इवातपाः ॥
स्नानमन्त्रौषधोपायवक्तॄण्य् अधिगतानि च ।
त्वया चिकित्साशास्त्राणि किम् अन्यद् उपदिश्यते ॥
आधेः कथं भवेद् व्याधिः कथं च स विनश्यति ।
द्रव्याद् इतरया युक्त्या मन्त्रपुण्यादिपूर्वया ॥
चित्ते विधुरिते देहस् सम्यङ् नानुभवत्य् अयम् ।
यथा हि रुषितो जन्तुर् अग्रम् एव न पश्यति ॥
अनपेक्ष्य यथाप्राप्तम् अमार्गम् अनुधावति ।
प्रकृतं मार्गम् उत्सृज्य शरार्तो हरिणो यथा ॥
सङ्क्षोभात् साम्यम् उत्सृज्य वहन्ति प्राणवायवः ।
देहे गजघटार्तानि पयांसीव सरित्तटे ॥
असमं वहति प्राणे नाड्यो यान्ति विसंस्थितिम् ।
असम्यक् संस्थिते भूपे यथा वर्णाश्रमक्रमाः ॥
काश्चिन् नाड्यः प्रपूर्णत्वं यान्ति काश्चिच् च रिक्तताम् ।
प्राणे विधुरिते देशे सर्वर्तौ सरितो यथा ॥
कुजीर्णत्वम् अजीर्णत्वम् अतिजीर्णत्वम् एव वा ।
दोषायैव प्रयात्य् अन्नं प्राणसञ्चारदुष्क्रमैः ॥
यथा काष्ठानि नयति प्राप्तं देशं सरिद्रयः ।
तथान्नानि नयत्य् अन्तः प्राणवातस् स्वम् आश्रयम् ॥
यान्य् अन्नानि विरोधेन तिष्ठन्त्य् अन्तश् शरीरके ।
तान्य् एव व्याधितां यान्ति परिणामस्वभावतः ॥
एवम् आधेर् भवेद् व्याधिर् आध्यभावाच् च नश्यति ।
यथा मन्त्रैश् च नश्यन्ति व्याधयस् तत्क्रमं शृणु ॥
यथा विरेकं कुर्वन्ति हरीतक्यस् स्वभावतः ।
भावनावशतः कार्यं तथा यरलवादयः ॥
शुद्धया पुण्यया साधो क्रियया साधुसेवया ।
मनः प्रयाति वैमल्यं निकषेणेव काञ्चनम् ॥
आनन्दो वर्धते देहे शुद्धे चेतसि राघव ।
पूर्णेन्दाव् उदिते व्यभ्रे नैर्मल्यं भुवने यथा ॥
सत्त्वशुद्धौ वहन्त्य् एते क्रमेण प्राणवायवः ।
जरयन्ति तथान्नानि व्याधिस् तेन विनश्यति ॥
आधिव्याध्योर् इति प्रोक्तौ नाशोत्पत्तिक्रमौ त्वयि ।
कुण्डलिन्याः कथायोगाद् अधुना प्रकृतं शृणु ॥
पुर्यष्टकापराख्यस्य जीवस्य प्रथमाश्रयम् ।
विद्धि कुण्डलिनीम् अन्तर् आमोदस्येव मञ्जरीम् ॥
तां यदा पूरकाभ्यासाद् आपूर्य स्थीयते चिरम् ।
तदैति मैरवं स्थैर्यं कायस्यापीनता तथा ॥
यदा पूरकपूर्णान्तर् अमुक्तप्राणमारुतम् ।
नीयते संविदैवोर्ध्वं सोढघर्मक्लमश्रमं ॥
सर्पी प्रकुपितेवोच्चैर् याति दण्डोपमां गता ।
नाडीस् सर्वास् समादाय देहे बद्धा लतोपमा ॥
तदा समस्तम् एवेमं खं प्लावयति देहकम् ।
नीरन्ध्रा पवनापूर्णा भस्त्रेवाम्बुगतं नरम् ॥
इत्यभ्यासविलासेन योगेन व्योमगामिताम् ।
योगिनः प्राप्नुवन्त्य् उच्चैर् दीनास् ते सुदशाम् इव ॥
ब्रह्मनाडिप्रवाहेण शक्तिः कुण्डलिनी यदा ।
बहिर् ऊर्ध्वप्रवाहेण द्वादशाङ्गुलमूर्धनि ॥
रेचकेन प्रयोगेण नाड्यन्तरनिरोधिना ।
मुहूर्तं स्थितिम् आप्नोति तदा व्योमगदर्शनम् ॥
दर्शनं कीदृशं ब्रह्मन् नयनांशुगणं विना ।
अन्येषाम् इन्द्रियाणां च तत्त्वम् एवं कथं भवेत् ॥
न केचन महाबाहो भूचरेण नभश्चराः ।
अदिव्यैर् आश्रिताज्ञानैर् दृश्यन्ते पुरुषेन्द्रियैः ॥
विज्ञानादूरसंस्थेन बुद्धिनेत्रेण राघव ।
दृश्यन्ते व्योमगास् सिद्धास् स्वप्नवत् स्वार्थदा अपि ॥
स्वप्नावलोकनं यद्वत् तद्वत् सिद्धावलोकनम् ।
केवलो ऽयं विशेषो यत् सिद्धप्राप्तौ स्थिरार्थता ॥
मुखाद् बहिर् द्वादशान्ते रेचकाभ्यासयुक्तितः ।
प्राणे चिरं स्थितिं नीते प्रविशन्त्य् अपरां पुरीम् ॥
वद स्वभावस्य कथं ब्रह्मन् न चलति स्थितिः ।
वक्तारस् सानुकम्पा हि दुष्प्रश्ने ऽपि न खेदिनः ॥
शक्तिर् वस्तुस्वभावाख्या यथा स्फुरति यात्मनः ।
सर्गादिना तथैवासौ स्थितिं यातीति निश्चयः ॥
अवस्तुत्वाद् अविद्याया वस्तुशक्तिर् अपि क्वचित् ।
भिद्यते दृश्यते ह्य् अङ्ग वसन्ते शारदं फलम् ॥
सर्वम् एवंविधं ब्रह्म नानानानातयानया ।
दृश्यते व्यवहारार्थं केवलं कल्प्यते स्थितिः ॥
सूक्ष्मच्छिद्रादिगत्यर्थं पूरणार्थं च खस्य वा ।
अणुतां स्थूलतां वापि कायो ऽयं नीयते कथम् ॥
काष्ठक्रकचयोश् श्लेषाद् यथा च्छेदः प्रवर्तते ।
तयोस् सङ्घर्षणाद् अग्निस् स्वभावाज् जायते तथा ॥
मांसाब्जयन्त्रं जठरे स्थितं श्लिष्टमुखं मिथः ।
ऊर्ध्वाधस्सम्मिलन्मूलं द्युभूम्योर् इव वै तलम् ॥
तस्य कुण्डलिनी लक्ष्मीर् निलीनान्तर् निजास्पदे ।
पद्मरागसमुद्गस्य कोशे मुक्तावली यथा ॥
आवर्तफेनमालेव नित्यं शलशलायते ।
दण्डाहतेव भुजगी सुसन्नतविवर्तना ॥
द्यावापृथिव्योर् मध्यस्था क्रियेव स्पन्दरूपिणी ।
संविन्मधुविबोधोत्था हृत्पद्मपुटषट्पदी ॥
तत् सर्वं शक्तिपद्मादि बाह्यैर् आभ्यन्तरैस् सदा ।
हृदि व्याधूयते वातैर् अभ्रवृन्दम् इवाभितः ॥
यद् यद् व्योम स्फुरत्य् अङ्ग स्वभावात् तत्र वायवः ।
पेलवं मृदु यत् किञ्चित् तत् तत् प्रचलयन्त्य् अलम् ॥
वातैर् आहन्यमानं तत् पद्मादि तरलायते ।
हृद्य् अन्योऽन्यनिकाषेण पल्लवादि यथा तरौ ॥
देहोष्मकारणं सर्वरसादिपचनोद्यतम् ।
जनयत्य् अग्निम् अन्योऽन्यसङ्घर्षाद् घनवेणुवत् ॥
स्वभावशीतशीतात्मा देहस् तेनौष्ण्यम् एत्य् अलम् ।
उदितेन स सर्वाङ्गं भुवनं भानुना यथा ॥
सर्वतो विसरद्रश्मि तत् तेजस् तारकाकृति ।
हृत्पद्महेमभ्रमरो योगिनां चिन्त्यतां गतम् ॥
तत् प्रकाशमयं ज्ञानं चिन्तितं सत् प्रयच्छति ।
येन योजनलक्षस्थं वस्तु निश्य् अपि दृश्यते ॥
तस्याग्नेर् वाडवस्येव जलं संशुष्कम् इन्धनम् ।
मांसपङ्कजषण्डाढ्यहृत्सरः कोशवासिनः ॥
यद् अब्जशीतलत्वं तद् अपानात्मेन्दुर् उच्यते ।
इतीन्दोर् उत्थितस् सो ऽग्निर् अग्नीषोमौ हि देहकः ॥
सर्वम् ऊष्मात्मकं किञ्चित् तेजोऽर्काग्न्यभिधं विदुः ।
शीतात्मकं च सोमाख्यम् आभ्याम् एव कृतं जगत् ॥
विद्याविद्यास्वरूपेण सर्वं सदसदात्मना ।
जगद् द्वयेन निर्वृत्तं तद् एवैवं विभज्यते ॥
सच् चित् प्रकाशं विद्यादि सूर्यम् अग्निं विदुर् बुधाः ।
असज् जाड्यं तमो ऽविद्याद्य् आहुस् सोमं मणीषिणः ॥
वह्निर् वार्यात्मनस् सोमाद् उदेतीति मुने श्रुतम् ।
सोमस्योत्पत्तिम् अधुना वद मे वदतां वर ॥
अग्नीषोमौ मिथः कार्ये कारणे च स्वसंस्थितेः ।
पर्यायेण समौ चैतौ प्रजायेते परस्परम् ॥
जन्माङ्ग बीजाङ्कुरवत् तथा दिवसरात्रिवत् ।
स्थितिश् छायातपसमा केवला चैतयोर् भवेत् ॥
तुल्यकालोपलम्भा हि मिथश् छायातपस्थितिः ।
केवलैकोपलम्भा स्यात् स्थितिर् दिवसरात्रिवत् ॥
कार्यकारणभावश् च द्विविधः कथितो ऽनयोः ।
सद्रूपपरिणामोत्थो विनाशपरिणामजः ॥
एकस्माद् यद् द्वितीयस्य सम्भवो ऽङ्कुरबीजवत् ।
कार्यकारणभावो ऽसौ सद्रूपपरिणामजः ॥
एकनाशे द्वितीयस्य यद् भावो दिनरात्रिवत् ।
कार्यकारणभावो ऽसौ विनाशपरिणामजः ॥
सद्रूपपरिणामस्य मृद्घटक्रमसंस्थितेः ।
अक्षोपलम्भाद् इतरत् प्रमाणं नोपयुज्यते ॥
विनाशपरिणामस्य दिनरात्रिक्रमस्थितेः ।
अभावो ऽप्य् एकवस्तूत्थो गतो मुख्यप्रमाणताम् ॥
स्वनाशे नास्ति कर्तृत्वम् इत्याद्या युक्तिवादिनः ।
अवज्ञाय बहिः कार्यास् स्वानुभूत्यपलापिनः ॥
प्रत्यक्षवद् अभावो ऽपि प्रमैव रघुनन्दन ।
अग्न्यभावो हि शीतस्य प्रमाणं सर्वजन्तुषु ॥
अग्नेर् धूमतया भागो यः प्रयाति पयोदताम् ।
सद्रूपपरिणामेन तद् अग्निस् सोमकारणम् ॥
अग्निर् नाशात्मकतया शैत्याद् अप्तां प्रयाति यत् ।
विनाशपरिणामेन तद् अग्निस् सोमकारणम् ॥
सप्ताम्बुधिपयः पीत्वा धूमोद्गारेण वाडवः ।
पयोदतां प्रयातेन तद् एव जनयत्य् अलम् ॥
अर्कः पीत्वा निशानाथम् अमावस्यां पुनः पुनः ।
उद्गिरत्य् अमले पक्षे मृणालम् इव सारसः ॥
पीत्वामृतोपमं शीतं प्राणस् सोमं मुखाग्रगं ।
अब्भागम् आपूरयति शरीरे ऽपानतां गतः ॥
जलाद् अणुतया भागो यः प्रयात्य् अर्करश्मिताम् ।
सद्रूपपरिणामेन तज् जलं वह्निकारणम् ॥
नाशात्मकतया तोयम् औष्ण्याद् याति यद् अग्निताम् ।
विनाशपरिणामेन तत् तोयं वह्निकारणम् ॥
अग्नेर् विनाशे सद्रूपः परिणामो निशाकरः ।
इन्दोर् नाशे निघर्षोत्थपरिणामो हुताशनः ॥
हुताशो नाशम् आगत्य सोमो भवति वै तथा ।
दिवसो नाशम् आगत्य रात्रिर् भवति वै यथा ॥
तमःप्रकाशयोश् छायातपयोर् दिनरात्रयोः ।
मध्ये विलक्षणं रूपं प्राज्ञैर् अपि न लभ्यते ॥
सन्धिर् अप्य् आबिलो यस् स्याद् एतयोर् एव तद् वपुः ।
भावाभावौ यथैकस्य श्लिष्टाव् एतौ तथैव हि ॥
द्वाभ्यां चैतन्यजाड्याभ्यां भूतानि प्रस्फुरन्ति हि ।
यथा तमःप्रकाशाभ्याम् अहोरात्रा महीतले ॥
चिद्रूपजडरूपाभ्याम् आरब्धेयं जगत्स्थितिः ।
जलामृताभ्यां मिश्राभ्यां द्वाभ्यां तनुर् इवैन्दवी ॥
प्रकाशम् अनलं सूर्यं चिद्रूपं विद्धि राघव ।
जडात्मकं तमोरूपं विद्धि सोमशरीरकम् ॥
चित्सूर्ये निर्मले दृष्टे तमो नश्येद् भवामयः ।
व्योमसूर्ये बहिर् दृष्टे यथा कृष्णनिशातमः ॥
सोमदेहे जडे दृष्टे चित्तेजो ऽसत्यवद् भवेत् ।
निशीथे विलसच्चन्द्रे यथा सौरः प्रभाभरः ॥
सोमं प्रकटयत्य् अग्निश् चिद् देहं सुचिरप्रभा ।
अग्निं भासयतीन्दुश् च देहं स्वं रूपम् अर्पयन् ॥
चिन् निष्क्रिया त्व् अनाभासा केवला नोपलभ्यते ।
आलोक इव दीपेन देहेनैवावगम्यते ॥
चितश् चेत्योन्मुखत्वेन लाभस् सैव च संसृतिः ।
निश्चेत्यायास् तु नो लाभो निर्वाणं च तद् एव हि ॥
अन्योऽन्यलब्धसत्ताकाव् एवं कुड्यप्रकाशवत् ।
अग्नीषोमाव् इमौ विद्धि सम्पृक्तौ देहदेहिनौ ॥
अतिशायिनि निर्वाणे जाड्ये चैवातिशायिनि ।
अग्नेस् सोमस्य चैवाङ्ग स्थितिर् भवति केवला ॥
प्राणो ऽग्निर् उष्णप्रकृतिर् अपानश् शीतलश् शशी ।
छायातपवद् इत्य् एतौ संस्थितौ मुखमार्गगौ ॥
अपाने शीतले सत्ताम् एत्य् उष्णः प्राणपावकः ।
प्रतिबिम्बम् इवादर्शे स च तस्मिंस् तथैव हि ॥
चिदग्निः पद्मयन्त्रस्थं सोमं वार्यात्मकं त्विषा ।
जनयत्य् अनुभूत्येह कुड्यालोकं यथा बहिः ॥
संसृत्यादौ हि या काचित् संविच् छीतोष्णरूपिणी ।
अग्नीषोमाभिधां प्राप्ता सैव सर्गो नृणाम् इह ॥
यत्र सोमकला ग्रस्ता क्षणं सूर्येण षोडशी ।
मुखाद् वितस्तिमात्राग्रे तत्र बद्धपदो भव ॥
नूनं सूर्यपदं प्राप्तस् सोमो यत्र हृदम्बरे ।
नूनं केवलया स्थित्या तत्र बद्धपदो भव ॥
औष्ण्यम् अग्निश् चिद् आदित्यश् शैत्यं सोम उदाहृतः ।
यत्रैतौ प्रतिबिम्बस्थौ तत्र बद्धपदो भव ॥
शारीरसोमसूर्याग्निसङ्क्रान्तिज्ञो भवानघ ।
अत्र योजनलक्षस्थं वस्तु पश्यसि निश्य् अपि ।
अत्र सङ्क्रान्तिकाला हि बाह्यास् तृणसमास् स्मृताः ॥
सङ्क्रान्तिम् उत्तरम् अथायनम् अङ्ग सम्यक्कालं तथा विषुवती यदि देहवातैः ।
अन्तर् बहिस्स्थम् इव वेत्सि यथानुभूतं तच् छोचसीह न पुनः परम् अभ्युपेतः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0