भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.84

6.84.1

एवम् आत्मनि विश्रान्तां वदन्तीं तां वराननाम् ।
असम्बद्धप्रलापासि बालासीति वदञ् शनैः ॥

6.84.2

भोगलम्पटया बुद्ध्या मुग्धाम् आशङ्क्य तां प्रियाम् ।
अबुद्ध्वा तद्गिराम् अर्थं विहस्योवाच भूपतिः ॥

6.84.3

असम्बद्धप्रलापासि बालासि वरवर्णिनि ।
रमसे वाक्यलीलाभी रमस्वावनिपात्मजे ॥

6.84.4

किञ्चित् त्यक्त्वा नकिञ्चिद् यो गतः प्रत्यक्षसंस्थितम् ।
त्यक्तप्रत्यक्षसद्रूपस् स कथं किल शोभते ॥

6.84.5

भोगैर् अभुक्तैस् तुष्टो ऽहम् इति भोगाञ् जहाति यः ।
रुषेवाशनपानाद्यान् स कथं किल शोभते ॥

6.84.6

वाहनाशनशय्यादि सर्वं सन्त्यज्य धीरधीः ।
यस् तिष्ठत्य् आत्मनैवैकस् स कथं किल शोभते ॥

6.84.7

स्वयं नकिञ्चिद् एवाहं जगदीशो ऽस्मि चेति च ।
निश्चयो यस्य दुर्बुद्धेस् स कथं किल शोभते ॥

6.84.8

आत्मन्य् एवात्मनैकान्ते त्यक्तसर्वसमागमः ।
यस् स्थितश् श्वभ्रतरुवत् स कथं किल शोभते ॥

6.84.9

नाहं देहो ऽन्यद् एवाहं नकिञ्चित् सर्वम् एव हि ।
एवं प्रलापो यस्यास्ति स कथं किल शोभते ॥

6.84.10

यत् पश्यामि न पश्यामि तत् पश्याम्य् अन्यद् एव यत् ।
प्रलाप इत्य् असन् यस्य स कथं किल शोभते ॥

6.84.11

तस्मान् मुग्धासि बालासि चपलासि विलासिनि ।
नानालापविलासेन क्रीडसि क्रीड सुन्दरि ॥

6.84.12

प्रविहस्याट्टहासेन शिखिध्वज इति प्रियाम् ।
मध्याह्ने स्नातुम् उत्थाय निर्जगामाङ्गनागृहात् ॥

6.84.13

कष्टं नात्मनि विश्रान्तो मद्वचांसि न बुद्धवान् ।
राजेति खिन्ना चूडाला स्वव्यापारपराभवत् ॥

6.84.14

तदा तथाङ्ग तत्राथ तादृशाशययोस् तयोः ।
ताभिः पार्थिवलीलाभिर् दिवसस् स जगाम ह ॥

6.84.15

क्रमेण मासा ऋतवो राम संवत्सरास् तथा ।
अतीता बहवस् तत्र दम्पत्योस् स्निग्धयोस् तयोः ॥

6.84.16

एकदा नित्यतृप्ताया निरिच्छाया अपि स्वयम् ।
चूडालाया बभूवेच्छा लीलया खगमागमे ॥

6.84.17

खगमागमसिद्ध्यर्थम् अथ सा नृपकन्यका ।
सर्वभोगान् अनादृत्य समागम्य च निर्जनम् ॥

6.84.18

एकैवैकान्तनिरता स्वासनावस्थिताङ्गका ।
ऊर्ध्वगप्राणपवनचिराभ्यासं चकार ह ॥

6.84.19

यद् इदं दृश्यते किञ्चिज् जगत् सस्थास्नुजङ्गमम् ।
स्पन्दस्य तत् क्रियानाम्नः फलम् इत्य् अनुभूयते ॥

6.84.20

कस्य स्पन्दविलासस्य घनाभ्यासस्य मे वद ।
ब्रह्मन् खगमनाद्य् एतत् फलं यत्नैकशालिनः ॥

6.84.21

आत्मज्ञो वाप्य् अनात्मज्ञस् सिद्ध्यर्थं लीलया तथा ।
कथं संसाधयत्य् एतद् यथावद् वद मे विभो ॥

6.84.22

त्रिविधं सम्भवत्य् अङ्ग साध्यं वस्त्व् इह सर्वतः ।
उपादेयं च हेयं च तथोपेक्ष्यं च राघव ॥

6.84.23

आत्मभूतं प्रयत्नेन ह्य् उपादेयं तु साध्यते ।
हेयं सन्त्यज्यते ज्ञात्वा ह्य् उपेक्ष्यं मध्यम् एतयोः ॥

6.84.24

यद् यद् आह्लादनकरम् आदेयं तद् असन्मतेः ।
तद्विरुद्धम् अनादेयम् उपेक्ष्यं मध्यमं विदुः ॥

6.84.25

सन्मतेर् विदुषो ज्ञस्य सर्वम् आत्ममयं यदा ।
त्रय एव तदा पक्षास् सम्भवन्ति न केचन ॥

6.84.26

केवलं सर्वम् एवेदं कदाचिल् लीलया न वा ।
उपेक्ष्यम् अक्षिनिक्षिप्तम् आलोकयति वा न वा ॥

6.84.27

ज्ञस्योपेक्ष्यात्मकं राम मूढस्यादेयतां गतम् ।
हेयं स्फारविरागस्य शृणु सिद्धिक्रमं कथम् ॥

6.84.28

देशकालक्रियाद्रव्यसाधनास् सर्वसिद्धयः ।
जीवम् आह्लादयन्तीह वसन्त इव भूतलम् ॥

6.84.29

मध्ये चतुर्णाम् एतेषां क्रिया प्रथमकल्पिकी ।
सिद्ध्यादिसाधने साधोस् तन्मयास् ते यतः क्रमाः ॥

6.84.30

गुलिकाञ्जनखड्गादिक्रियाक्रमनिरूपणम् ।
तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा ॥

6.84.31

रत्नौषधितपोमन्त्रक्रियाक्रमनिरूपणम् ।
तत्रास्तां तावद् एषो ऽत्र विस्तारः प्रकृतार्थहा ॥

6.84.32

श्रीशैले सिद्धदेशे च मेर्वादौ वा निवासतः ।
सिद्धिर् इत्य् अपि विस्तारः क्रियोत्था प्रकृतार्थहा ॥

6.84.33

तस्माच् छिखिध्वजकथाप्रसङ्गपतिताम् इमाम् ।
प्राणादिपवनाभ्यासक्रियां सिद्धिफलां शृणु ॥

6.84.34

समूलम् अखिलास् त्यक्त्वा साध्यार्थेतरवासनाः ।
गुदादिद्वारसङ्कोचात् स्थानकादिक्रियाक्रमैः ॥

6.84.35

भोजनासनशुद्ध्या च साधुशास्त्रार्थभावनात् ।
स्वाचारात् सुजनासङ्गात् सर्वत्यागात् सुखासनात् ॥

6.84.36

प्राणायामघनाभ्यासाद् राम कालेन केनचित् ।
कोपलोभादिसन्त्यागाद् भोगत्यागाच् च सुव्रत ॥

6.84.37

त्यागादाननिरोधेषु भृशं यान्ति विधेयताम् ।
प्राणाः प्रभुत्वतज्ज्ञस्य पुंसो भृत्या इवाखिलाः ॥

6.84.38

राज्याद्या मोक्षपर्यन्तास् समस्ता एव सम्पदः ।
देहानिलविधेयत्वसाध्यास् सर्वस्य राघव ॥

6.84.39

परिमण्डलिताकारा कन्दस्थानसमाश्रिता ।
अन्त्रवेष्टनिका नाम नाडी नाडीशताश्रिता ॥

6.84.40

वीणाग्रावर्तसदृशी सलिलावर्तसन्निभा ।
लिप्याद्योङ्कारसंस्थाना कुन्तलावर्तवत् स्थिता ॥

6.84.41

देवासुरमनुष्येषु मृगनक्रखगादिषु ।
कीटादिष्व् अब्जजान्तेषु सर्वेषु प्राणिषूदिता ॥

6.84.42

शीतार्तसुप्तभोगीन्द्रभोगवद् बद्धमण्डला ।
सिता कल्पाग्निविगलदिन्दुवद् बद्धकुण्डला ॥

6.84.43

मनोभ्रूमध्यरन्ध्राधोविशदब्वृत्तिचञ्चला ।
अनारतं रसस्यन्दैः प्लवमानैव तिष्ठति ॥

6.84.44

अस्या अभ्यन्तरे तस्मिन् कदलीकोशकोमले ।
या वातशक्तिस् स्फुरति वेणाव् इव लसद्गतिः ॥

6.84.45

सोक्ता कुण्डलिनी नाम्ना कुण्डलाकारवाहिनी ।
प्राणिनः परमा शक्तिस् सर्वशक्तिजवप्रदा ॥

6.84.46

अनिशं निश्श्वसद्रूपा कुपितेव भुजङ्गमी ।
संस्थितोर्ध्वीकृतमुखी स्पन्दानां हेतुतां गता ॥

6.84.47

यदा प्राणानिलो याति हृदि कुण्डलिनीपदम् ।
तदा संविद् उदेत्य् अन्तर् भूततन्मात्रबीजभूः ॥

6.84.48

यदा कुण्डलिनी देहे स्फुरत्य् अब्ज इवालिनी ।
तदा संविद् उदेत्य् अन्तर् मृदुस्पर्शवशोदया ॥

6.84.49

स्पर्शेन मृदुना नाड्या लिङ्गकामातपत्रयोः ।
यथा संविद् उदेत्य् उच्चैस् तथा कुण्डलिनी जवात् ॥

6.84.50

तस्यां समस्तास् सम्बद्धा नाड्यो हृदयकोशगाः ।
उत्पद्यन्ते विलीयन्ते महार्णव इवापगाः ॥

6.84.51

नित्यं वातात्मकतया स्पन्दोन्मुखतया तया ।
सा सर्वसंविदां बीजम् एकम् आद्यम् उदाहृतम् ॥

6.84.52

दिक्कालाद्यनवच्छिन्ना चित्संवित् सर्वगास्ति हि ।
तस्याः कुण्डलिनीकोशात् केनार्थेनोदयस् स्फुटः ॥

6.84.53

सर्वदा सर्वतस् सत्यं चित्संविद् विद्यते ऽनघ ।
किं त्व् अस्या भूततन्मात्रवशाद् अभ्युदयः क्वचित् ॥

6.84.54

सर्वत्र विद्यमाना चिद् देहेषु तरलायते ।
सर्वगो ऽप्य् आतपस् साररत्नेष्व् अतिविजृम्भते ॥

6.84.55

क्वचिन् नष्टं क्वचित् सुप्तं क्वचिद् उच्छूनतां गतम् ।
वस्तु वस्तुनि यद् दृष्टं तत् स्वभावविजृम्भितम् ॥

6.84.56

एतद् भूयः क्रमेणाहं शृणु वक्ष्यामि ते ऽनघ ।
देहेष्व् एव यथोदेति भृशं संविन्मयः क्रमः ॥

6.84.57

चेतनाचेतनं भूतजातं व्योम तथाखिलम् ।
सर्वं चिन्मात्रसन्मात्रं शून्यमात्रं यथा नभः ॥

6.84.58

तद् धि चिन्मात्रसन्मात्रम् अविकाराद्य् अनामयम् ।
क्वचित् स्थितं संविदैव कृततन्मात्रपञ्चकम् ॥

6.84.59

तत् पञ्चकं गतं द्वित्वं लिक्षाद्यन्तं स्वसंविदा ।
अन्तर्भूतविकारादि दीपाद् दीपशतं यथा ॥

6.84.60

स्वसत्तामात्रकेणैव सङ्कल्पलवरूपिणा ।
पञ्चकानि व्रजन्तीह देवत्वं तानि कानिचित् ॥

6.84.61

कानिचित् तिर्यगादित्वं हेमादित्वं च कानिचित् ।
कानिचिद् दृषदादित्वं द्रव्यादित्वं च कानिचित् ॥

6.84.62

एवं हि पञ्चकं स्पन्दमात्रं जगद् इति स्थितम् ।
चित्संविद् अत्र सर्वत्र विद्यते रघुनन्दन ॥

6.84.63

केवलं पञ्चकवशाद् देहादौ चेतनाभिधा ।
जडस्पन्दाभिधा वारि स्थावरादौ जडाभिधा ॥

6.84.64

यथाब्धिष्व् अम्ब्व् इतो वीचिर् इतस् तलम् इति स्थितम् ।
पञ्चकेषु तथेतश् चिल् लोलरूपा जडा त्व् इतः ॥

6.84.65

इतस् सोम्य इतो लोलः किम् अब्धिर् इति नो यथा ।
विकल्पार्हस् तथैवैतत् पञ्चकं हि जडाजडम् ॥

6.84.66

देहादिपञ्चकं जीवत्स्पन्दि शैलादिकं जडम् ।
स्थावराद्य् अनिलस्पन्दि स्वभाववशतो ऽनघ ॥

6.84.67

न च पर्यनुयोक्तव्यास् स्वभावा रघुनन्दन ।
शीतोष्णं किं हिमाग्न्यादि वक्तेति परिहस्यते ॥

6.84.68

गृहीतवासनांशानां पुष्टभावविकारिणाम् ।
स्थितयः पञ्चकानां हि योग्याः पर्यनुयोजने ॥

6.84.69

वासनांशविपर्यस्ता इतो नेतुम् इतश् च ताः ।
पुंसा प्राज्ञेन शक्यन्ते सुखं पर्यनुयोजिना ॥

6.84.70

अशुभे वा शुभे वापि तेन पर्यनुयोज्यते ।
प्रबुद्धवासनं नान्यत् पञ्चकं सुप्तवासनम् ॥

6.84.71

यत्र पर्यनुयोगस्य फलं समनुभूयते ।
तत्र तं सम्प्रयुञ्जीत नाकाशं मुष्टिभिः क्षिपेत् ॥

6.84.72

तृणाग्रनिष्ठा मेर्वाद्याः पञ्चकानां हि राशयः ।
विरिञ्चनिष्ठाः कीटाद्या एते स्थावरजङ्गमाः ॥

6.84.73

प्रसुप्तवासनाः केचिद् यथा स्थावरजातयः ।
प्रबुद्धवासनाः केचिद् यथा नरसुरादयः ॥

6.84.74

स्ववासनाबिलाः केचिद् यथा वै तिर्यगादयः ।
प्रक्षीणवासनाः केचिद् यथैते मोक्षभागिनः ॥

6.84.75

यथास्वास्व् एव संवित्सु मनोबुद्ध्यादिभिः कृताः ।
हस्तपादादिसंयुक्तैः सञ्ज्ञाः पञ्चकराशिभिः ॥

6.84.76

तिर्यगादिभिर् अप्य् अन्यैर् अन्यास् सञ्ज्ञाः प्रकल्पिताः ।
स्थावरादिभिर् अप्य् अन्यैर् अन्यथा संविदः कृताः ॥

6.84.77

इति साधो स्फुरन्तीमे चित्राः पञ्चकराशयः ।
रूपैर् आद्यन्तमध्येषु चलाचलजडाजडैः ॥

6.84.78

एषाम् एको हि सङ्कल्पपरमाणुर् महामते ।
बीजम् आकाशवृक्षाणां सर्गाणां तेष्व् इमानि तु ॥

6.84.79

इन्द्रियाण्य् अङ्ग पुष्पाणि विषयामोदवन्ति हि ।
इच्छाभ्रमर्यो राजन्त्यो मञ्जर्यश् चञ्चलाः क्रियाः ॥

6.84.80

लोकान्तराणि गुच्छानि गुल्मा मलयमेरवः ।
पल्लवानीह जलदा लतालीला दिशो दश ॥

6.84.81

वर्तमानानि भूतानि भविष्यन्ति च यानि तु ।
जगन्ति तान्य् असङ्ख्यानि फलानि रघुनन्दन ॥

6.84.82

एवंबीजास् त एते हि राम पञ्चकपादपाः ।
स्वयं स्वभावाज् जायन्ते स्वयं नश्यन्ति कालतः ॥

6.84.83

स्वयं नानात्वम् आयान्ति चिरं जाड्यात् स्फुरन्ति च ।
सुविविक्ताश् शमं यान्ति तरङ्गा इव तोयधेः ॥

6.84.84

यतो यान्ति समुत्सेधं यतो यान्ति शमं स्वयम् ।
एते जाड्यविवेकाभ्यां तरङ्गा इव तोयधेः ॥

6.84.85

ये विवेकवशतो लयं गता राम पञ्चकविलासराशयः ।
ते न भूय इह यान्ति संस्थितिं प्रभ्रमन्ति जगतीतरे मुहुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc