मोक्षोपाय · अध्याय 6.83
दिनानुदिनम् एषाथ स्वात्मारामतया तया ।
नित्यम् अन्तर्मुखतया बभूव प्रकृतिस्थितिः ॥
नीरागा नीरुजासङ्गा निर्द्वन्द्वा निस्समीहिता ।
न जहाति न चादत्ते प्रकृताचारचारिणी ॥
परितीर्णा भवाम्भोधिं शान्तसन्देहजालिका ।
परमात्ममहालाभपरिपूर्णतरान्तरा ॥
विश्रान्ता सुचिरश्रान्ता घनलब्धपदात्मनि ।
सर्वोपमातीततया जगामाव्यपदेश्यताम् ॥
इति सा महिषी तस्य चूडाला वरवर्णिनी ।
स्वल्पेनैव हि कालेन ययौ विदितवेद्यताम् ॥
यथायम् आगतः कश्चिज् जागतस् स्पन्दविभ्रमः ।
यथा च लीयते सर्वं तत् तज् ज्ञातवती बभौ ॥
अदृष्टसकलभ्रान्तौ पदे विश्रान्तिम् एत्य सा ।
रराज शरदच्छाभ्रमालेव गतसम्भ्रमा ॥
अनाकुलसमालोके आशश्वासात्मनात्मनि ।
जरद्गुर् इव शैलाग्रं सतृणं प्राप्य संस्थिता ॥
स्वविवेकघनाभ्यासवशाद् आत्मोदयेन सा ।
शुशुभे शोभना पुष्पलतेवाभिनवोद्गता ॥
अथ ताम् अनवद्याङ्गीं कदाचित् स शिखिध्वजः ।
अपूर्वशोभाम् आलोक्य स्मयमान उवाच ह ॥
भूयो यौवनयुक्तेव मण्डितेव पुनः पुनः ।
अधिकं राजसे तन्वि जगद्राज्यवती यथा ॥
प्रपीतामृतसारेव लब्धालभ्यपदेव च ।
आनन्दापूरपूर्णेव राजसे ऽतितरां प्रिये ॥
उपशान्तं च कान्तं च दधाना सुन्दरं वपुः ।
अभिभूयेन्दुम् आयासि श्रियं काम् अपि कामिनि ॥
अभोगकृपणं शान्तम् ऊर्जितं समतां गतम् ।
गम्भीरं च प्रसन्नं च चेतः पश्यामि ते प्रिये ॥
तृणीकृतत्रिभुवनं पीताखिलजगत्त्रयम् ।
अनन्तोद्भासुरं सौम्यं मनः पश्यामि ते प्रिये ॥
न केनचिन् महाभागे विभवानन्दवस्तुना ।
चेतस् तव तुलाम् एति मेरुक्षीराब्धिसुन्दरम् ॥
तैर् एव बालकदलीमृणालाङ्कुरकोमलैः ।
अङ्गैस् स्थितिम् अनुज्झद्भिर् वृद्धिं यातेव लक्ष्यसे ॥
तथा तेनैव तेनैव सन्निवेशेन संस्थिता ।
अन्यताम् उपयातासि लतेवर्तुविपर्यये ॥
किं त्वया पीतम् अमृतं प्राप्तं साम्राज्यम् एव वा ।
अमृत्यवे वा सम्प्राप्तः प्रयोगो योगयुक्तिभिः ॥
राज्याच् चिन्तामणेर् वापि त्रैलोक्याद् वा त्वयाधिकम् ।
अप्राप्यं किम् अनुप्राप्तं नीलोत्पलविलोचने ॥
नकिञ्चित् किञ्चिदाकारम् इदं त्यक्त्वाहम् आगता ।
नकिञ्चित्किञ्चिदाकारं तेनास्मि श्रीमती स्थिता ॥
यत् किञ्चिद् यन् नकिञ्चिच् च तज् जानामि यथास्थितम् ।
यथोदयं यथानाशं तेनास्मि श्रीमती स्थिता ॥
भोगैर् अभुक्तैस् तुष्यामि भुक्तैर् इव सुदूरगैः ।
न हृष्यामि न कुप्यामि तेनास्मि श्रीमती स्थिता ॥
एकैवाकाशसङ्काशे केवले हृदये रमे ।
न रमे राजलीलासु तेनास्मि श्रीमती स्थिता ॥
आत्मन्य् एव हि तिष्ठामि न वनोद्यानसद्मसु ।
न भोगौघेषु शय्यासु तेनास्मि श्रीमती स्थिता ॥
जगतां प्रभुर् एवास्मि नकिञ्चिन्मात्ररूपिणी ।
इत्य् आत्मन्य् एव तिष्ठामि तेनाहं श्रीमती स्थिता ॥
अन्यैवाहम् इयं नाहम् अन्या चेयं च वाप्य् अहम् ।
सर्वम् अस्मि नकिञ्चिद् वा तेनाहं श्रीमती स्थिता ॥
यत् पश्यामि न पश्यामि तत् पश्याम्य् अन्यद् एव यत् ।
इति सम्यक् प्रपश्यामि तेनाहं श्रीमती स्थिता ॥
न सुखं प्रार्थये नार्थं नानर्थं चेतरां स्थितिम् ।
यथाप्रप्तेन तुष्यामि तेनाहं श्रीमती स्थिता ॥
तनुविद्वेषरागाभिस् तज्ज्ञाभिश् शास्त्रदृष्टिषु ।
रमे सह वयस्याभिस् तेनास्मि श्रीमती स्थिता ॥
पश्यामि यन् नयनरश्मिभिर् इन्द्रियैर् वा चित्तेन चेह हि तद् अङ्ग न किञ्चिद् एव ।
पश्यामि तद्विरहितं तु नकिञ्चिदाभं पश्यामि सम्यग् इति नाथ चिरोदयास्मि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0