भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.82

6.82.1

एवं बहूनि वर्षाणि मिथुनं निर्भरस्पृहम् ।
रेमे यौवनलीलाभिर् अनन्ताभिर् दिने दिने ॥

6.82.2

अथ यातेषु वर्षेषु बहुष्व् आवृत्तिशालिषु ।
शनैर् गलति तारुण्ये भिन्नकुम्भाद् इवाम्भसि ॥

6.82.3

शारदस्येव पर्णस्य मिथुनस्यास्य कालतः ।
ईषद्विरागो हृदयं सम्यक्प्राग्रसम् अस्पृशत् ॥

6.82.4

विरागवासनाक्रान्तम् एकान्तस्थम् अचिन्तयत् ।
मिथुनं तज् जगद्यात्राम् इमाम् इत्थम् अशाश्वतीम् ॥

6.82.5

किं नामेह मनोहारि संसारकुहरभ्रमे ।
तरङ्गनिकराकारभङ्गुरव्यवहारिणि ॥

6.82.6

पातः पक्वफलस्येव मरणं दुर्निवारणम् ।
हिमाशनिर् इवाम्भोजे जरा निपतनोन्मुखी ॥

6.82.7

आयुर् गलत्य् अविरतं जलं करतलाद् इव ।
प्रावृषीव लतातुम्बी तृष्णैका दीर्घतां गता ॥

6.82.8

शैलनद्या रय इव सम्प्रयात्य् एव यौवनम् ।
इन्द्रजालम् इवासत्यं जीवितं क्षणसंस्थिति ॥

6.82.9

सुखानि प्रपलायन्ते शरा इव गुणच्युताः ।
पतन्ति चेतो दुःखानि धृष्टा गृध्रा इवामिषम् ॥

6.82.10

बुद्बुदः प्रावृषीवाप्सु शरीरं क्षणभङ्गुरम् ।
रम्भागर्भ इवासारो व्यवहारो विरागदः ॥

6.82.11

सत्वरं युवता याता कान्तेवाप्रियकामिनः ।
बलाद् अरतिर् आयाता वैरस्यम् इव पादपम् ॥

6.82.12

तद् इह स्यात् कुसंसारे किं नाम बत शोभनम् ।
यद् आसाद्य पुनश् चेतो दशासु न विदूयते ॥

6.82.13

इति निर्णीय युग्मं तत् संसारव्याधिभेषजम् ।
चिरं विचारयाम् आस शास्त्रम् अध्यात्म सम्मतम् ॥

6.82.14

आत्मज्ञानैकमन्त्रेण संसृत्याख्या विषूचिका ।
संशाम्यतीति निश्चित्य ताव् आस्तां तत्परायणौ ॥

6.82.15

तच्चित्तौ तद्गतप्राणौ तत्कथौ तद्विदाश्रयौ ।
तद्विदेकार्चनपरौ तदीहौ तौ बभूवतुः ॥

6.82.16

तत्रैवातिघनाभ्यासौ बोधयन्तौ परस्परम् ।
तत्प्रीतौ तत्समारम्भौ चिरकालं बभूवतुः ॥

6.82.17

अथ साविरतं बाला रमणीयपदक्रमान् ।
श्रुत्वाध्यात्मविदां वक्त्राच् छास्त्रार्थांस् तारणक्षमान् ॥

6.82.18

इत्थं विचारयाम् आस स्वम् आत्मानम् अहर्निशम् ।
अव्यापृता व्यापृता च धिया धवलयाशये ॥

6.82.19

प्रेक्षे तावत् स्वम् आत्मानं किम् इदं स्याम् इति स्वयम् ।
कस्यायं जागतो मोहः कथम् अभ्युत्थितः क्व वा ॥

6.82.20

देहस् तावज् जडो मूको नाहम् इत्य् एव निश्चयः ।
आबालम् एतत् संसिद्धं मृतौ चैवानुभूयते ॥

6.82.21

कर्मेन्द्रियगणश् चास्य न भिन्नो ऽवयवात्मकः ।
अवयवावयविनोर् अभेदाज् जड एव च ॥

6.82.22

बुद्धीन्द्रियगणो ऽप्य् एवं जड एवेति दृश्यते ।
प्रेर्यते मनसा यस्माद् यष्ट्येव भुवि लोष्टकः ॥

6.82.23

मनश् चैव जडं मन्ये सङ्कल्पात्मकशक्तिमत् ।
क्षेपणैर् इव पाषाणः प्रेर्यते बुद्धिनिश्चयैः ॥

6.82.24

बुद्धिर् निश्चयरूपैवं जडासत्येति निश्चयः ।
खातेनेव सरित् स्वैरम् अहङ्कारेण वाह्यते ॥

6.82.25

अहङ्कारो ऽपि निस्सारो जड एवं शवात्मकः ।
जीवेन जन्यते यक्षो बालेनेव भ्रमात्मकः ॥

6.82.26

जीवश् च कलनाकारो वातात्मा हृदये स्थितः ।
शुक्रसारो ऽन्तर् अन्येन केनापि परिजीवति ॥

6.82.27

आम् अहो ज्ञातम् एतेन चेत्योल्लेखकलङ्किना ।
जीवो जीवति जीवेन चिद्रूपेणात्मरूपिणा ॥

6.82.28

चेत्यभ्रमवता जीवश् चिद्रूपेणैव जीवति ।
आमोदः पवनेनेव खातेनेव सरिद्रयः ॥

6.82.29

असत्यजडचेत्यांशश्रयणाच् चिद्वपुर् जडम् ।
महाजडगतो ह्य् अग्निर् अपि रूपं स्वम् उज्झति ॥

6.82.30

सद् वासद् वा यद् आभासि चित् समाचामति स्वतः ।
स्वं रूपम् अलम् उत्सृज्य तद् एव भवति क्षणात् ॥

6.82.31

एवं चिद्रूपम् अप्य् एतच् चेत्योन्मुखतया स्वयम् ।
जडं शून्यम् असङ्कल्पं चेतत्य् अन्यप्रबोधितम् ॥

6.82.32

इति सञ्चिन्त्य चूडाला केनैषा चित् प्रचेतते ।
इति सञ्चिन्तयाम् आस चिराच् चेत्थं व्यबुध्यत ॥

6.82.33

अहो नु चिरकालेन ज्ञातं ज्ञेयम् अनामयम् ।
यद् वै चिच्चमितं कृत्वा न किञ्चिद् दूयते पुनः ॥

6.82.34

एते हि चिद्विलासान्ता मनोबुद्धीन्द्रियादयः ।
असन्तस् सन्त एवाहो द्वितीयेन्दुवद् आस्थिताः ॥

6.82.35

महाचिद् एकैवास्तीह महासत्तेति योच्यते ।
निष्कलङ्का समा शुद्धा निरहङ्काररूपिणी ॥

6.82.36

शुद्धसंवेदनाकारा शिवं चिन्मात्रम् अच्युता ।
सकृद्विभाता विमला नित्योदयवती स्थिता ॥

6.82.37

सद्ब्रह्मपरमात्मादिनामभिर् याभिधीयते ।
चेत्यचेतनचित्तादि नास्या भिन्नं न सा ततः ॥

6.82.38

तयैषा चेत्यते चिच्छ्रीस् सैषाद्या चिद् इति स्मृता ।
अचेत्यं यद् इदं चित्त्वं तत् तस्या रूपम् अक्षतम् ॥

6.82.39

मनोबुद्धीन्द्रियाद्यर्थरूपैस् सैवं विजृम्भते ।
तरङ्गकणकल्लोलवलनैर् अम्ब्व् इवात्मनि ॥

6.82.40

जगद्भूतपदार्थानां सत्ता स्फुरति सान्तरे ।
यद् इदं तत् परं रूपं तस्याः खलु महाचितेः ॥

6.82.41

शुद्धसंविन्महासिंही सेयं समसमोदिता ।
अनन्ययैवान्ययेव जगज्जृम्भिकया स्थिता ॥

6.82.42

सत्ता तद्व्यतिरेकेण नान्या सम्भवतीह हि ।
विचित्रहेमभाण्डानां ननु हेमेतरा यथा ॥

6.82.43

सा यथोदेति तद्रूपम् आत्मानं चेतति स्वयम् ।
स्वचित्त्वेन द्रवत्वेन तरङ्गादित्वम् अम्ब्व् इव ॥

6.82.44

महाचितो जगच् चित्त्वाद् उदेतीवानुदय्य् अपि ।
तदात्मैव यथावर्तो रूपवाञ् जलधौ द्रवात् ॥

6.82.45

एवं चिन्मात्रम् एवाहम् अनहम्भावम् आततम् ।
न तस्य जन्ममरणे न च स्तस् सदसद्गती ॥

6.82.46

न नाशस् सम्भवत्य् अस्य चिन्मात्रनभसः क्वचित् ।
अच्छेद्यो ऽयम् अदाह्यो ऽयं चिदात्मा नित्यनिर्मलः ॥

6.82.47

अहो नु चिरकालेन शान्तास्मि परिनिर्वृता ।
निर्वासितमतिर् मुक्तम् आसे निर्मन्दराब्धिवत् ॥

6.82.48

असदाभासम् अत्यच्छम् अनन्तम् अजम् अच्युतम् ।
आत्माकाशम् अनायासम् अवलम्ब्य रमे चिरम् ॥

6.82.49

अनन्तम् इदम् आकाशं भूतौघश् चाचलादिकः ।
सुरासुरयुतं विश्वम् एतन्मयम् अकृत्रिमम् ॥

6.82.50

पुस्तकर्ममयी सेना सर्वा मृण्मात्रकं यथा ।
द्रष्टृदृश्यदृशां सत्ता चिन्मात्रैकमयी तथा ॥

6.82.51

इदम् ऐक्यम् इदं द्वित्वम् अहं नाहम् इतीति च ।
क इह भ्रमसम्मोहः कथं कस्य कुतः क्व वा ॥

6.82.52

तद् अनन्तम् अनायासम् उपशान्तास्मि खं स्थिता ।
निर्वामि परिनिर्वाणा सत्यम् आसे गतज्वरम् ॥

6.82.53

अचेतनं चेतनं वा यो यो नामाभिचेतति ।
सत्तामात्रात्म तद्रूपं स्वं महाचिति संस्थितम् ॥

6.82.54

तेनेह नाहम् नान्यश् च न भावाभावसम्भवः ।
शान्तं सर्वं निरालम्बं केवलं संस्थितं परम् ॥

6.82.55

इत्थं विचारणपरा परमावबोधाद् बुद्ध्वा यथास्थितम् इदं परमात्मतत्त्वम् ।
संशान्तरागभयमोहमनोविलासा शान्ता बभूव शरदम्बरलेखिकेव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc