मोक्षोपाय · अध्याय 6.81
एताम् अवष्टभ्य दृशं भगीरथधिया वृताम् ।
समस् स्वस्थो यथाप्राप्तं कार्यम् आहर शान्तधीः ॥
इदं पूर्वं परित्यज्य क्रोडीकृत्य ततस् स्वयम् ।
शान्तम् आत्मनि तिष्ठ त्वं शिखिध्वज इवाचलः ॥
को ऽसौ शिखिध्वजो नाम कथं वा लब्धवान् पदम् ।
एतत् कथय मे ब्रह्मन् भूयो बोधाभिवृद्धये ॥
द्वापरे ऽभवतां पूर्वम् इदानीं च भविष्यतः ।
तेनैव सन्निवेशेन दम्पती स्निग्धनागरौ ॥
यत् पूर्वम् आसीद् भगवंस् तद् इदानीं तथैव हि ।
भविष्यति किमर्थं वै वद मे वदतां वर ॥
जगन्निर्माणनियतेर् अस्या ब्राह्म्यास् स्वसंविदः ।
ईदृश्य् एव स्थितिर् नित्यम् अनिवार्या स्वभावजा ॥
यद् अन्यद् बहुशो भूत्वा पुनर् भवति भूरिशः ।
अभूत्वैव भवत्य् अन्यत् पुनश् च न भवत्य् अलम् ॥
अन्यत् प्राक्सन्निवेशस्य सादृश्येन स्फुरत्य् अलम् ।
अन्यत् प्राक्सन्निवेशार्धसादृश्येन विवल्गति ॥
सदृश्यो विषमाश् चैव यथा सरसि वीचयः ।
ता एवान्याश् च दृश्यन्ते व्यवस्थास् संसृतौ तथा ॥
तस्माद् राघव भूयो ऽपि वक्ष्यमाणो नरेश्वरः ।
भविष्यति महातेजास् तद्वृत्तान्तम् इमं शृणु ॥
द्वापरे पूर्वम् अभवद् अतीते सप्तमे मनौ ।
चतुर्युगे चतुर्थे तु सर्गे ऽस्मिन् वारणाकुले ॥
जम्बुद्वीपे प्रशान्तस्य विन्ध्यस्यादूरसंस्थिते ।
मालवानां पुरे श्रीमाञ् शिखिध्वज इतीश्वरः ॥
धैर्यौदार्यदयायुक्तः क्षमाशमदमान्वितः ।
शूरश् शुभसमाचारो मानी गुणगणाकरः ॥
आहर्ता सर्वयज्ञानां जेता सर्वधनुष्मताम् ।
कर्ता सकलकार्याणां भर्तापूर्ववपुर् भुवः ॥
पेशलस् स्निग्धमधुरो विदग्धः प्रीतनागरः ।
सुन्दरश् शीलसुभगः प्रतापी धर्मवत्सलः ॥
वेदिता विदितार्थानां दाता सकलसम्पदाम् ।
भोक्ता संसङ्गरहितस् सुश्रोता सकलश्रुतेः ॥
स भोगौघान् अनादृत्य स्त्रैणं तृणवद् उत्सृजन् ।
पितरि स्वर्गम् आपन्ने बाल एवोत्तमौजसा ॥
कृत्वा षोडशवर्षात्मा कृत्वा दिग्विजयं वशी ।
नूनं सौराज्यसम्पत्त्या भूमण्डलम् अयोजयत् ॥
अतिष्ठद् विगताशङ्कं पालयन् धर्मतः प्रजाः ।
धीमान् स मन्त्रिभिस् सार्धं यशसा शुक्लयन् दिशः ॥
अथ गच्छत्सु वर्षेषु वसन्ते प्रोल्लसत्य् अलम् ।
पुष्पेषु जृम्भमाणेषु स्फुरत्सु शशिरश्मिषु ॥
मञ्जरीजालदोलासु विटपान्तःपुरान्तरे ।
रजःकर्पूरधवले चलद्दलकवाटके ॥
आमोदिनि लसत्पुष्पगुलुच्छकवितानके ।
गायत्सु गहनेषूच्चैर् मिथुनेष्व् अलिनां मिथः ॥
आयाति मधुरे वायौ शशिशीकरशीतले ।
कदलीकन्दलीकच्छतलपल्लवलासिनि ॥
कान्तां प्रति बभूवास्य नवं चेतस् समुत्सुकम् ।
क्षीवं कुसुमसम्भारसौगन्धिमधुरासवैः ॥
मनोराज्यम् इदं चक्रे स वसन्तमदैधितः ।
उद्यानवनदोलासु लीलाकमलिनीषु च ॥
कदा प्रणयिनीं मुग्धां बालाब्जमुकुलस्तनीम् ।
करिष्ये कामिनीम् अङ्के पर्यङ्के कुसुमाङ्किताम् ॥
कदा कमलवल्लीनां दोलास्व् अलिर् इवालिनीम् ।
आलोलतां विनेष्यामि बालां भुजलतानुगाम् ॥
मृणालहारकुन्देन्दुवृन्दतल्पाभिलाषिणी ।
मत्कृते मदनातप्ता कदा स्याद् इन्दुसुन्दरी ॥
इति चिन्तापरो भूत्वा कुसुमावलनोन्मुखः ।
विजहार वनान्तेषु कुसुमोपवनेषु च ॥
वेलोपवनदोलासु लीलाकमलिनीषु च ।
वल्लीवलयगेहेषु विविधोद्यानभूमिषु ॥
वनोपवनविन्यासवर्णनावलितासु च ।
शृङ्गाररसगर्भासु कथास्व् अरमतोन्मनाः ॥
हारिहासलसच्छ्वासविलोलालकवल्लरीः ।
कुमारीः पूजयाम् आस सुवर्णकलशस्तनीः ॥
एवम् अस्य विदुर् भव्या मन्त्रिणो नवनिश्चयम् ।
इङ्गिताकारवेदित्वम् एव मन्त्रिपदं परम् ॥
अथ तस्य विवाहाय मन्त्रिवर्गो विचारवान् ।
सुराष्ट्राधिपतिं कन्यां ययाचे यौवनान्विताम् ॥
रूपयौवनसम्पन्नां भार्यात्वे विधिनोत्तमाम् ।
उपयेमे स ताम् आत्मसदृशीं प्रतिमाम् इव ॥
चूडालेति भुवि ख्याता नाम्ना नृपतिसुन्दरी ।
सा तं भर्तारम् आसाद्य रेजे फुल्लेव पद्मिनी ॥
नीलनीरजनेत्रां तां चूडालां स शिखिध्वजः ।
स्नेहाद् विकासयाम् आस शोभयार्क इवाब्जिनीं ॥
अवर्धत तयोः प्रीतिर् अन्योऽन्यार्पितचेतसोः ।
हावभावविलासाद्यैस् सेकैर् नवलतेव सा ॥
स मन्त्र्यर्पितसर्वार्थस् सुसुखी सुस्थितप्रजः ।
राजहंस इवाब्जिन्या रेमे दयितया तया ॥
अन्तःपुरेषु दोलासु चन्दनागुरुवीथिषु ।
मन्दारदामदोलासु कदलीकन्दलीषु च ॥
पुरान्तेषु वनान्तेषु दिगन्तेषु सरस्सु च ।
जङ्गलेषु दिनान्तेषु जम्बूजम्बीरशालिषु ॥
बभूवाह्लादकं सर्वं तयोर् अन्योऽन्यचेष्टितम् ।
सद्वर्षणाध्वराचारैर् द्युभूम्योर् इव कान्तयोः ॥
नित्यम् एवावियुक्तत्वात् प्रियत्वाच् चेष्टितस्य च ।
मिथः कलाकलापस्य कोविदौ तौ बभूवतुः ॥
स्वरूपम् एकम् एवैतौ दधतुर् मिश्रतां गतौ ।
अन्योऽन्यं हृदयस्थत्वाद् इव सङ्क्रान्तम् अक्षतम् ॥
सर्वशास्त्रादिवैदग्ध्यं चित्राद्य् अपि मुखात् प्रभोः ।
बाला भाण्डाद् इवागृह्णाद् आसीत् सर्वार्थपण्डिता ॥
नृत्तं वाद्यादि गेयादि चूडालावदनाद् असौ ।
अशिक्षत बभूवाथ कलानाम् अतिकोविदः ॥
आमावास्याव् इवेन्द्वर्काव् अन्योऽन्यं विलसत्कलौ ।
मिथो हृदयसंस्थौ तौ द्वाव् अप्य् ऐक्यम् इवास्थितौ ॥
तौ संस्थिताव् एकरसाव् अनन्यदयिताव् उभौ ।
पुष्पामोदाव् इवाभिन्नौ भूतलस्थौ शिवाव् इव ॥
वैदग्ध्यसुन्दरमती सर्वशास्त्रार्थकोविदौ ।
क्रीडयेव भुवं प्राप्तौ कमलाकमलाधवौ ॥
स्नेहात् प्रसन्नमधुरौ समविज्ञानवेदिनौ ।
अनुवृत्तिपराव् आस्तां लोकवृत्तान्ततद्विदौ ॥
कलाकलापसम्पन्नौ लसद्रसरसायनौ ।
शीतलस्निग्धमुग्धाङ्गौ शशाङ्कौ द्वाव् इवोदितौ ॥
रेजे लसन्नृपतिभोगविलासकान्तम् अन्तःपुरेषु मिथुनं तद् अनुत्तमश्रि ।
ब्रह्माब्जषण्डकुहरेष्व् इव राजहंसयुग्मं विकासिमदमन्मथमन्दचारि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0