मोक्षोपाय · अध्याय 6.7
यन् मुक्तावलिता रत्नभूषिता भान्ति योषितः ।
मदेन्दाव् उदिते क्षुब्धकामक्षीरार्णवोर्मयः ॥
सौवर्णाम्भोजकोशस्थलोलालिपटलश्रियम् ।
धारयन्ति दृशस् स्त्रीणां कपोलदलदोलिताः ॥
उद्यानवनषण्डेषु भूमौ कृतपदा मधौ ।
हृद्यास् सुमनसो भान्ति हासा इव मनोभुवः ॥
क्रव्यादगृध्रगोमायुकौलेयकवलाङ्गिकाः ।
स्त्रियस् समुपमीयन्ते चन्द्रचन्दनपङ्कजैः ॥
सौवर्णकलशाम्भोजकोरकोत्तुङ्गलिङ्गवत् ।
दृश्यते स्त्रीस्तनश्रेणी रक्तप्रतिसमुद्गिका ॥
रसायनेन्दुनिष्ष्यन्दमधुबिम्बासवद्रवैः ।
ओष्ठाभिधो मांसलवो लालाक्त उपमीयते ॥
शल्मल्यष्ठीलिकाकारा भुजाः क्रूरास्थिशङ्कवः ।
बाहूबाहु लताशब्दैर् वर्ण्यन्ते कविभिश् शुभैः ॥
कदलीस्तम्भसम्भारसुन्दरी सुन्दरीरता ।
ऊरुशोभोदितानङ्गतोरणश्रीर् विराजते ॥
आपातमात्रमधुरा मध्ये द्वन्द्वानुपातिनी ।
शीघ्रावसानविरसा लक्ष्मीर् अप्य् अभिवाञ्छ्यते ॥
समुपैति मतिर् दुःखं दुःखं च शतशाखताम् ।
दुःखशाखासु जायन्ते नानाकर्मफलश्रियः ॥
बद्धजालघनाकाराः कारार्थम् इव रज्जवः ।
वीरुधः प्रावृषीवाशाः प्रतानगहनस्थिताः ॥
सारतां मोहमिहिका कार्याकार्यविकारिणी ।
यमुना प्रावृषीवैति तिमिरश्यामलाचिरम् ॥
कटूकृतान्तःकरणो नानाकारविकारदः ।
स्वदते विगतस्नेहं जन्मप्रतिविषारसः ॥
व्याधूतजर्जराजीर्णजनतापर्णराजयः ।
स्वकर्मपवना वान्ति नानाकनकरेणवः ॥
कालः कवलितानन्तजगत्पक्वफलो ऽप्य् अयम् ।
घस्मरापारजठरः कल्पैर् अपि न तृप्यति ॥
मोहमारुतपा मत्तास् त्वराविषविकारिणः ।
स्फुरन्तीहाहयश् चित्तबिले बलवदापदः ॥
चिन्तापिशाच्योपहता विवेकेन्दूदयं विना ।
तमसैव निरालोका याति यौवनयामिनी ॥
जिह्वा जर्जरताम् एति प्राकृतानुनयज्वरैः ।
पद्मकोटरकोणस्थम् अपि पत्त्रं हिमैर् इव ॥
दुःखजीवमहाष्ठीलः कष्टकण्टकसङ्कटः ।
सहस्रशाखतां याति दारिद्र्यदृढशल्मलिः ॥
अन्तश्शून्योन्नतध्वस्तचित्तचैत्यकृतालयः ।
याच्ञाबहुलयामिन्यां लोभोलूको विवल्गति ॥
पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्तम् अभितश् चिरम् ।
जराजर्जरमार्जारी यौवनाखुं निकृन्तति ॥
निस्सारा क्रमशः क्रान्तधराधरसमुन्नतिः ।
दिण्डीरपिण्डिकेवेयं सृष्टिर् आयाति पुष्टताम् ॥
आभासपुष्पधवला जगत्पल्लवशालिनी ।
सत्तालता विकसिता धर्मार्थफलधारिणी ॥
सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् ।
गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम् ॥
संसारसरसि स्फारे चरन्ति प्राणषट्पदाः ।
शरीरपुष्करेष्व् अन्तश् चिद्रूपरसपायिनः ॥
नभोमार्गमहानीलकुट्टिमे कान्तिशालिनी ।
भुवनाववरस्यान्तस् स्फुरत्य् आदित्यदीपिका ॥
आशातन्तुनिबद्धाङ्गी जनताजीर्णपक्षिणी ।
स्ववासनाशलाकान्ते निबद्धेन्द्रियपञ्जरे ॥
अनारतपतज्जातभूतपर्णपरम्परा ।
स्पन्दते ऽजगरामृष्टा संसृतिव्रततिश् चिरम् ॥
पृष्ठे कतिपयं कालम् अदृष्टाः कालजालिना ।
अधःकृतोग्रनरकपङ्काश् शङ्कोज्झिताः क्षणम् ॥
भुक्तेन्दुखण्डकबिसा नीलनीरदशेवले ।
स्वर्गमार्गसरस्य् अन्तस् स्फुरन्ति सुरसारसाः ॥
नानाफलावलिमती वासनाजलमालिता ।
स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी ॥
वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले ।
कृतान्तवृद्धगृध्रेण शठेन विनिगीर्यते ॥
तरङ्गफेनमालेव सैवान्येव च भङ्गुरा ।
श्वश् श्वो ऽपरेन्दुलेखेव समुदेति विचित्रता ॥
भूरिभूतशरावाणि क्षणभङ्गीनि कुर्वता ।
इदं कालकुलालेन चक्रं विपरिवर्त्यते ॥
असङ्ख्यातान्य् अनल्पानि सञ्जातान्य् अचले पदे ।
जगज्जङ्गलजालानि दग्धानि युगवह्निना ॥
भावाभावैर् अपर्यन्तैस् सुखदुःखदशाशतैः ।
वैपरीत्यं प्रयातीयम् अजस्रं जागती स्थितिः ॥
क्षुब्धैर् युगपरावर्तैर् वासनाशृङ्खलोम्भिता ।
मोहाशनिनिपातैश् च न रुग्णा ध्रुवधीरता ॥
शतशो विद्रुतारीन्द्रैर् दनुपुत्रैर् अभिद्रुताम् ।
भगभग्नत्रपाम् ऐन्द्रीं तनुं वहति वासना ॥
विशत्य् अविरतं धूतसर्गपांसुपरम्परा ।
नित्यं नियतिवात्येयं कालव्यालगलान्तरम् ॥
पदार्थाम्भांसि सर्वाणि फलफेनानि सर्वतः ।
पतन्त्य् अविरतापातम् अभाववडवामुखम् ॥
स्फुरन्त्य् आकस्मिकोद्भूता विचित्रा द्रव्यशक्तयः ।
स्वभावमात्रसम्पन्नास् स्पन्दश्रिय इवाम्भसाम् ॥
भूतमौक्तिकसम्पूर्णान् बृहतस् सुबहून् अपि ।
जगत्कलभकान् अत्ति कृतान्तोद्रिक्तकेसरी ॥
कुलशैलफला मेघपक्षपुञ्जा जलासृजः ।
जायन्ते च म्रियन्ते च डीयन्ते च जगत्खगाः ॥
चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिर् इन्द्रियैः ।
उन्मीलयति संसारचित्राणि विधिचित्रकृत् ॥
अजस्रगत्वरीं सर्वपरिस्पन्दविधायिनीं ।
निमेषशतभागाङ्गीम् अच्छाम् उत्साहिताङ्कुराम् ॥
सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् ।
ध्यानेनेवान्ववेक्षन्ते स्थिरास् स्थावरजातयः ॥
रागद्वेषसमुत्थेन भावाभावमयेन च ।
जरामरणमोहेन जीर्णा जङ्गमजातयः ॥
स्वदुष्कृतोत्तमध्यानधारिण्यो धरणीतले ।
नियत्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः ॥
क्षणेनादृश्य एवेदं निगिरत्य् अखिलं सुखी ।
सुदुर्लक्ष्यबिलः कालव्यालो विपुलभोगवान् ॥
क्षणादिकल्पपर्यन्तस् तेजस्तिमिररञ्जनात् ।
कालेन किञ्चिद् आलक्ष्यस् स्वकाय उररीकृतः ॥
शीतवातातपप्रौढाः प्रोल्लसत्पुष्पदीप्तयः ।
फलप्रदाश् चरन्तीह कालखे षडृतुग्रहाः ॥
ब्रह्माण्डभैक्षभाण्डे ऽसौ काली भगवती क्रिया ।
स्वयं दत्त्वैव दत्त्वैव भूतभिक्षां जिघृक्षति ॥
पयःपटलविश्रान्तत्रैलोक्याम्भोजकोटरे ।
करोति घुङ्घुमं भूरि भूतभ्रमरपेटकः ॥
तिमिरानीलकवरी अर्केन्दुचपलेक्षणा ।
ब्रह्मोपेन्द्रहरेन्द्रादिधरागिरिवराङ्गिका ॥
ब्रह्मतत्त्वैकपितृका लम्बमानपयोधरा ।
चिच्छक्तिमातृका स्थूला तरला घनचापला ॥
तारकाजालदशना सन्ध्यारुणतराधरा ।
समस्तपद्मिनीहस्ता शतक्रतुपुरानना ॥
सप्ताब्धिमुक्तालतिका नीलाम्बरपरावृता ।
जम्बुद्वीपमहानाभिर् वनश्रीरोमराजिका ॥
भूत्वा भूत्वा विनश्यन्ती त्रिलोकीवृद्धकामिनी ।
असकृज् जायते नष्टा भूरिविभ्रमकारिणी ॥
मग्नम् अन्यैर् अथोन्मग्नं भीमे कालमहार्णवे ।
प्रतिकल्पक्षणं क्षीणैर् ब्रह्माण्डस्फुटबुद्बुदैः ॥
कालागाधसरस्यां तु स्थित्वा स्थित्वा पुनः पुनः ।
कल्पमात्रनिमेषेण डीनं संसारसारसैः ॥
उत्पत्योत्पत्य नाशिन्यस् सन्ततास् सृष्टिविद्युतः ।
कालमेघे स्फुरन्त्य् एताश् चित्प्रकाशमनोरमाः ॥
प्रध्वनद्भूतविहगाः पतन्त्य् अविरतद्रुताः ।
कालतालात् किलोत्तालाद् ब्रह्माण्डफलपालयः ॥
उन्मेषकृतवैरिञ्चसृष्टयो देवनायकाः ।
निमेषकृतसंहारास् सन्ति केचन कुत्रचित् ॥
निमेषोन्मेषसङ्क्षीणकल्पजालास् सहस्रशः ।
रुद्राः केचन विद्यन्ते कस्मिंश्चित् परमे पुरे ॥
ते ऽपि यस्य निमेषेण भवन्ति न भवन्ति वा ।
तादृशो ऽप्य् अस्ति देवेशो ह्य् अनन्तेयं क्रियास्थितिः ॥
अनन्तसङ्कल्पमये शून्ये च ब्रह्मणः पदे ।
न सम्भवन्ति का नाम शक्तयश् चित्रयुक्तयः ॥
एवम् अक्षीणसङ्कल्पकल्पार्थभरभास्वरा ।
जागती कलना येयं तद् अज्ञानविजृम्भितम् ॥
यत् सम्पदो यद् उत सन्ततम् आपदश् च यद् बाल्ययौवनजरामरणोपतापाः ।
यन् मज्जनं च सुखदुःखपरम्पराभिर् अज्ञानतीव्रतिमिरस्य विभूतयस् ताः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0