मोक्षोपाय · अध्याय 6.78
यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।
भगीरथस्य सम्पन्नं तन् मे कथय भोः प्रभो ॥
आसीद् भगीरथो नाम राजा परमधार्मिकः ।
भुवस् समुद्रद्वीपाया मण्डनातिलकोपमः ॥
सङ्कल्पानन्तरं प्रापुर् यथाभिमतम् अर्थिनः ।
चन्द्रप्रसन्नवदनाद् यस्माच् चिन्तामणेर् इव ॥
साधूनां यो व्यवस्थार्थं धनान्य् अविरतं ददौ ।
तृणमात्रम् उपादत्ते करं तृणमणिर् यथा ॥
वज्रसारम् अपि प्रोतम् अज्वलन्न् एव यो ऽभिनत् ।
अयोमणिर् अयोयन्त्रम् इव दुर्जनचेष्टितम् ॥
अधूमो ह्य् अदहञ् शीतो वितैक्ष्ण्यो हार्दम् अप्य् अलम् ।
तमो ऽहरन् नृणां नैशं यो मणिर् वेश्मनाम् इव ॥
किरन्न् अग्निकणासारम् अभितस् स्वप्रतापजम् ।
मध्याह्नसूर्यकान्ताग्निर् इव ज्वलति यो ऽरिषु ॥
मृदुशीतसुखस्पर्शो यस् समाह्लादयन् महीम् ।
स्वे जने द्रवति स्निग्धस् सेन्दुर् इन्दुमणिर् यथा ॥
जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।
गङ्गावाहस्य येनोर्व्यां तृतीयः पूरितो गुणः ॥
अगस्त्यशोषितो ऽम्भोधिर् गङ्गापूरेण पूरितः ।
येन दुष्पूररूपो ऽपि महासार्थो ऽर्थिनाम् इव ॥
गङ्गासोपानपद्धत्या येन पातालवासिनः ।
योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना ॥
ब्रह्माणं शङ्करं जह्नुं तपसाराधयंश् च यः ।
भूयो भूयो ययौ खेदं न मूर्तव्यवसायवत् ॥
यौवने वर्तमानस्य तस्य भूमिपतेर् अथ ।
प्रविचारयतो लोकयात्रां पर्याकुलाम् इमाम् ॥
स्वविरागचमत्कारविचारकणिकोदभूत् ।
चेतस्य् अपि सुतारुण्ये दैवाद् वल्ली मराव् इव ॥
एकान्ते चिन्तयाम् आस महीपतिर् असाव् अथ ।
जगद्यात्राम् इमां नित्यम् असमञ्जससङ्कुलाम् ॥
पुनर् दिनं पुनश् श्यामा दानादानाशनं पुनः ।
तद् एव शुक्तविरसं लज्ज्यते कर्म कुर्वता ॥
येन प्राप्तेन लोके ऽस्मिन् नाप्राप्तम् अवशिष्यते ।
तत् कृतं सुकृतं मन्ये शेषं कर्मविषूचिका ॥
पुनः पुनः पर्युषितं कर्म कुर्वन् न लज्जते ।
मूढबुद्धिर् अमूढस् तु कः कुर्यात् किल बालवत् ॥
अथैकदोद्विग्नमनाः कदाचित् त्र्युत्तुलं गुरुम् ।
एकान्ते संसृतेर् भीतस् समपृच्छद् भगीरथः ॥
अन्तश्शून्यासु सुचिरं भ्रमन् संसारवृत्तिषु ।
अरण्यानीष्व् इवैतासु भृशं खिन्ना वयं विभो ॥
जरामरणमोहादिरूपाणां भवकारिणाम् ।
भगवन् सर्वदुःखानां कथम् अन्तः प्रजायते ॥
चिरसाम्यात्मनाच्छेन निर्विभागविलासिना ।
राजञ् ज्ञेयावबोधेन पूर्णेन भरितात्मना ॥
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयो ऽभितः ।
संशयाश् शमम् आयान्ति सर्वकर्माणि चानघ ॥
ज्ञेयं तु विदुर् आत्मानं संशुद्धज्ञप्तिरूपिणम् ।
स च सर्वगतो नित्यं नास्तम् एति न चोदयम् ॥
चिन्मात्रं सर्वगं शान्तम् अस्ति निर्मलम् अच्युतम् ।
देहादि नेतरत् किञ्चिद् इति वेद्मि मुनीश्वर ॥
किं त्व् अत्र प्रतिपत्तिर् मे स्फुटताम् एति नोतराम् ।
एतावन्मात्रसंवित्तिस् स्याम् अहं भगवन् कथम् ॥
ज्ञानेन ज्ञेयनिष्ठत्वम् एति चेतो हृदन्तरे ।
ततस् सर्ववपुर् भूत्वा भूयो जीवो न जायते ॥
असक्तिर् अनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥
आत्मनो ऽनन्ययोगेन सद्भावनम् अनारतम् ।
विविक्तदेशसेवित्वम् अरतिर् जनसंसदि ॥
अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतो ऽन्यथा ॥
रागद्वेषक्षयाकारात् संसारव्याधिभेषजात् ।
अहम्भावोपशान्तौ तु राजञ् ज्ञानम् अवाप्यते ॥
शरीरे ऽस्मिंश् चिरं रूढो गिरौ तरुर् इवोच्चकैः ।
अहम्भावो महाभोगो वद मे त्यज्यते कथम् ॥
पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनम् ।
गत्वान्विष्य चिता तत्त्वम् अहङ्कारो विलीयते ॥
यन्त्राणां पञ्जरं यावद् भग्नं लज्जादि नाखिलम् ।
अकिञ्चनत्वशेषेण स्फुटा तावद् अहङ्कृतिः ॥
सर्वम् एव धियस् त्यक्त्वा यदि तिष्ठसि निश्चलः ।
तद् अहङ्कारविलयी त्वम् एव परमं पदम् ॥
शान्ताशेषविशेषणो विगतभीस् सन्त्यक्तसर्वैषणो गत्वा नूनम् अकिञ्चनत्वम् अरिषु त्यक्त्वा समग्रां श्रियम् ।
शान्ताहङ्कृतिर् अस्तदेहकलनस् तेष्व् एव भिक्षाम् अटन् माम् अप्य् उज्झितवान् अलं यदि भवस्य् उच्चैस् तद् उच्चैर् असि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0