मोक्षोपाय · अध्याय 6.77
इति राजमुखाच् छ्रुत्वा वेतालश् शान्तिम् आययौ ।
भावितात्मतया तत्र विचारोदितया धिया ॥
उपशान्तवपुर् भूत्वा गत्वैकान्तम् अनिन्दितः ।
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधम् ॥
एतद् राम मयोक्तं ते वेतालप्रश्नजालकम् ।
एवंक्रमेण चिदणाव् एवेदं संस्थितं जगत् ॥
चिदणोः कोशगं विश्वं विचारेण विलीयते ।
कोपो वेतालकस्येव शिष्यते यत् परं तु तत् ॥
संहृत्य सर्वतश् चित्तं स्तिमितेनान्तरात्मना ।
प्रवाहापतितं कुर्वन् निरिच्छस् तिष्ठ शान्तधीः ॥
आकाशविशदं कृत्वा मनसैव मनो मुनिः ।
तिष्ठैकशमशान्तात्मा व्योमवद्विशदाशयः ॥
स्थिरबुद्धेर् अमूढस्य यथाप्राप्तानुवर्तिनः ।
राज्ञो भगीरथस्येव दुस्साधम् अपि सिध्यति ॥
सम्पूर्णशान्तमनसः परितृप्तवृत्तेर् नित्यं समे सुसमम् आत्मनि तिष्ठतो ऽन्तः ।
सिध्यन्ति दुर्लभतरा अपि वाञ्छितार्था गङ्गावतार इव सागरखातृनप्तुः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0