मोक्षोपाय · अध्याय 6.79
अथ तस्य गुरोर् वक्त्राद् इत्य् आकर्ण्य भगीरथः ।
मनस्य् आहितकर्तव्यस् स्वव्यापारपरो ऽभवत् ॥
ततः कतिपयेष्व् एव वासरेषु गतेष्व् असौ ।
अग्निष्टोममखं चक्रे सर्वत्यागैकसिद्धये ॥
गोभूम्यश्वहिरण्यादि ददौ धनम् अशेषतः ।
द्विजदेवार्तबन्धुभ्यो गुण्यगुण्यविचारवान् ॥
दिवसत्रयमात्रेण सर्वम् एवं परित्यजन् ।
स्ववस्त्रमात्रशेषो ऽसाव् आसीद् राजा भगीरथः ॥
अथ सर्वार्थरिक्तं तं खिन्नप्रकृतिपौरकम् ।
सीमान्तिने तृणम् इव राज्यं स्वम् अरये ददौ ॥
आक्रान्ते द्विषता राज्ये पुरे सद्मनि मण्डले ।
अधोवासोऽवशेषो ऽसौ निर्जगाम स्वमण्डलात् ॥
यत्र न ज्ञायते नाम्ना यत्र न ज्ञायते मुखात् ।
तत्र ग्रामेष्व् अरण्येषु दूरेषूवास धैर्यवान् ॥
इत्य् अल्पेनैव कालेन प्रशान्तसकलैषणः ।
परमेण शमेनासौ प्राप विश्रान्तिम् आत्मनि ॥
भ्रमन् द्वीपानि भूपीठे कदाचित् कालयोगतः ।
भूपेन शत्रुणा प्राप्तं स्वम् एव प्राप तत् पुरम् ॥
तान् एवारींश् च तत्रासौ प्रवाहापतितक्रमम् ।
पौरांश् च मन्त्रिणश् चैव शमी भिक्षाम् अयाचत ॥
विविदुस् ते ऽरयः पौरा मन्त्रिणश् च भगीरथम् ।
पूजयाम् आसुर् अथ तं सविषादास् सपर्यया ॥
प्रभो राज्यं गृहाणेति प्रार्थितो ऽप्य् अरिणा मुनिः ।
नाददे ऽनादृताशेषस् तृणम् अप्य् अशनाद् ऋते ॥
कतिचिद् दिवसांस् तत्र नीत्वान्यत्र जगाम सः ।
भगीरथो ऽयं हा कष्टम् इति लोकेन शोचितः ॥
अथान्यत्रोपशान्तात्मा परिविश्रान्तधीस् सुखी ।
आत्मारामः कदाचित् तु स प्राप त्र्युत्तुलं गुरुम् ॥
स्वम् एव स्वागतं कृत्वा तेन सार्धं भगीरथः ।
कञ्चित् कालम् उवासाद्रौ वने ग्रामे पुरे जने ॥
समताम् उपयातौ तौ गुरुशिष्यौ समौ स्थितौ ।
कलयाम् आसतुस् स्वस्थौ विनोदं देहधारणम् ॥
किम् अयं धार्यते देहः किम् अनेनोज्झितेन नः ।
यथाक्रमं यथाचारं तिष्ठत्व् एष यथास्थितम् ॥
इति निश्चित्य तिष्ठन्तौ तौ वनाद् वनगामिनौ ।
ननन्दतुर् अनानन्दं न सुखं न च मध्यमम् ॥
धनानि नारीर् विभवान् ऐश्वर्यं चाष्टधोदितम् ।
सिद्धैर् अप्य् अर्पितं तुष्टैर् मेनाते जर्जरं तृणम् ॥
स्वकर्मणैव देहो ऽयं यावदन्तम् अनिच्छया ।
धारणीय इति स्वेन कर्मणैवाथ तस्थतुः ॥
अभिननन्दतुर् आगतम् उत्तमौ निजसमाचरणक्रमजं मुनी ।
सुखम् असौख्यम् अपीप्सितवर्जितौ समसमौ खसमौ शमिनौ स्वतः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0