भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.73

6.73.1

कुतश् शतत्वम् आयातं रुद्राणां मुनिनायक ।
ये गणास् ते च किं रुद्रा उत नेति वदस्व मे ॥

6.73.2

स्वप्नानां भिक्षुणा दृष्टं शतं शतशरीरकम् ।
सर्वम् उद्देशतो ज्ञातम् अत उक्तं न तन् मया ॥

6.73.3

यद् आकाराश् शतं स्वप्ने तत् तद् गणशतं स्मृतम् ।
तद् एव तद् रुद्रशतं रुद्रा अपि गणाभिधाः ॥

6.73.4

एकस्माद् भगवंश् चित्तात् कथं चित्तशतं कृतम् ।
तत्स्वप्नशतरुद्रेण दीपाद् दीपशतं यथा ॥

6.73.5

निरावरणसद्भावा यद् यथा कल्पयन्ति ये ।
तत् तथाशु भवत्य् एव न सावरणसंविदः ॥

6.73.6

सर्वात्मनस् सर्वगत्वाद् यद् यथा यत्र भाव्यते ।
तथानुभूयते तत्र तत् तत् तज्ज्ञेन नाधिया ॥

6.73.7

कपालमालाभरणो भस्मस्नायी दिगम्बरः ।
श्मशाननिलयो ब्रह्मन् कामुकश् च महेश्वरः ॥

6.73.8

महेश्वराणां सिद्धानां जीवन्मुक्तशरीरिणाम् ।
न क्रियानियमो ऽस्तीह स ह्य् अज्ञेष्व् एव कल्पितः ॥

6.73.9

अज्ञास् त्व् अजितचित्तत्वात् क्रियानियमनं विना ।
गर्धान् मात्स्येन न्यायेन परं दुःखं प्रयान्ति हि ॥

6.73.10

तज्ज्ञास् त्व् इष्टेष्व् अनिष्टेषु न निमज्जन्ति वस्तुषु ।
जितेन्द्रियत्वाद् बुद्धत्वान् निर्वासनतयानया ॥

6.73.11

काकतालीयवद् रूढां क्रियां कुर्वन्ति ते सदा ।
न कुर्वन्त्य् अपि वा केचिन् नैषां क्वचिद् अपि ग्रहः ॥

6.73.12

काकतालीयवद् विष्णुर् एवंकर्मोदितः परात् ।
एवंकर्मा त्रिनयन एवंकर्माम्बुजोद्भवः ॥

6.73.13

न निन्द्यम् अस्ति नानिन्द्यं नोपादेयं न हेयकम् ।
न चात्मीयं न च परं कर्म ज्ञविषयं क्वचित् ॥

6.73.14

अग्न्यादीनां यथौष्ण्यादि सर्गादौ रूढिम् आगतम् ।
हरादीनां तथा कर्म द्विजातीनां च जातयः ॥

6.73.15

सर्गे प्ररूढिम् आयाते सङ्केतवशतः पृथक् ।
अनुभूतफलैस् स्वार्थाः कल्पनाः कल्पितास् ततः ॥

6.73.16

विदेहमुक्तविषयं तुर्यं मौनम् इतो मया ।
नोक्तं ते पञ्चमं मौनं विदेहस्य रघूद्वह ॥

6.73.17

खाद् अप्य् अतितराम् अच्छम् आत्माकाशं चिदात्मकम् ।
तत्र प्राप्तिः परं श्रेयस् सा कथं प्राप्यते शृणु ॥

6.73.18

सम्यग्ज्ञानावबोधेन नित्यम् एकसमाधिना ।
सङ्ख्ययैवावबुद्धा ये ते साङ्ख्या योगिनस् स्मृताः ॥

6.73.19

प्राणाद्यनिलसंशान्तौ युक्ता ये पदम् आगताः ।
अनामयम् अनाद्यन्तं ते स्मृता योगयोगिनः ॥

6.73.20

उपादेयं तु सर्वेषां शान्तं पदम् अकृत्रिमम् ।
तत् कैश्चित् सङ्ख्यया प्राप्तं कैश्चिद् योगेन देहतः ॥

6.73.21

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ।
यत् साङ्ख्यैः प्राप्यते स्थानं परं योगैस् तद् एव हि ॥

6.73.22

यत्र प्राप्ता मनोवृत्तिर् अत्यन्तं नोपलभ्यते ।
वासनावागुराक्रान्ता तद् विद्धि परमं पदम् ॥

6.73.23

वासनां चित्तम् एवाहुः कारणं तद् धि संसृतेः ।
तद् अकारणताम् एति विलीय भवकर्मसु ॥

6.73.24

मनः पश्यति वै देहं बालो वेतालकं यथा ।
आत्मानं विलयं नीत्वा न भूयस् तं प्रपश्यति ॥

6.73.25

मनो मुधैवाभ्युदितम् असद् एवानवेक्षणात् ।
स्वप्ने स्वमरणाकारं प्रेक्ष्यमाणं न विद्यते ॥

6.73.26

मनोऽभावान् न संसारः क्वामोदः कुसुमं विना ।
उपदेश्योपदेशादि बन्धमोक्षौ च तत् कुतः ॥

6.73.27

एकतत्त्वघनाभ्यासः प्राणानां विलयस् ततः ।
मनोविनिग्रहश् चेति मोक्षशब्दार्थकारणम् ॥

6.73.28

यदि हि प्राणविलयो मुने मोक्षस्य कारणम् ।
मृता एव हि मुच्यन्ते तन् मन्ये सर्वजन्तवः ॥

6.73.29

त्रिष्व् एतेषु प्रयोगेषु मनःप्रशमनं वरम् ।
साध्यं विद्धि तद् एवाशु यथा भवति तच् छिवम् ॥

6.73.30

यदा निर्वासनं प्राणास् त्यजन्तीदं शरीरकम् ।
तदा न भूयस् तन्मात्रैर् यान्ति व्योमनि सङ्गमम् ॥

6.73.31

वासनांशात्मकान्य् एव विद्धि तन्मात्रकाणि वै ।
तदात्मकैर् मनोवद्भिः प्राणाश् श्लिष्यन्ति नेतरैः ॥

6.73.32

सवासनास् तु यद्य् एते प्राणा मुञ्चन्ति देहकम् ।
तद् व्योमवायुसंश्लेषं यान्ति दुःखाय गन्धवत् ॥

6.73.33

मनस् साम्बुर् इवाम्भोदो न शाम्यति सवासनम् ।
नामनस्कास् सम्भवन्ति प्राणास् सूर्या इवात्विषः ॥

6.73.34

न जहाति मनः प्राणान् विना ज्ञानेन कर्हिचित् ।
तृणान्तरेणैव विना तृणाग्रम् इव तित्तिरिः ॥

6.73.35

ज्ञानाद् अवासनीभावं स्वनाशं प्राप्य वै मनः ।
प्राणस्पन्दं च नादत्ते ततश् शान्तिर् हि शिष्यते ॥

6.73.36

ज्ञानात् सर्वपदार्थानाम् असत्त्वं समुदेत्य् अलम् ।
ततो ऽङ्ग वासनानाशाद् वियोगः प्राणचेतसोः ॥

6.73.37

ततो न पश्यति मनः प्रशान्तं देहतां पुनः ।
स्वनाशेन पदं प्राप्तं वासनैव मनो विदुः ॥

6.73.38

चेतो हि वासनामात्रं तदभावः परं पदम् ।
तच् च सम्पद्यते ज्ञानाज् ज्ञानम् आहुर् विचारणम् ॥

6.73.39

इत्य् अस्यास् संसृते राम पर्यन्तस् सम्प्रवर्तते ।
स्वयं विवेकमात्रेण रज्जुसर्पभ्रमाकृतेः ॥

6.73.40

एकार्थाभ्यसनप्राणरोधचेतःपरिक्षयाः ।
एकस्मिन्न् एव संसिद्धे संसिध्यन्ति परस्परम् ॥

6.73.41

तालवृन्तपरिस्पन्दे शान्ते शान्तो यथानिलः ।
प्राणानिलपरिस्पन्दे शान्ते शान्तं तथा मनः ॥

6.73.42

प्राणाश् शरीरविलये प्रयान्ति व्योमवायुताम् ।
यथावासितम् एवेदं मनः पश्यन्ति तत्र च ॥

6.73.43

यथा विदेहाः पश्यन्ति प्राणा व्योमनि देहकम् ।
समनस्कास् तथाचारं सर्वं चानुभवन्ति ते ॥

6.73.44

शान्ते वातपरिस्पन्दे यथा गन्धः प्रशाम्यति ।
तथा शान्ते मनस्स्पन्दे शाम्यन्ति प्राणवायवः ॥

6.73.45

अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ।
कुसुमामोदवन् मिश्रे तिलतैले इव स्थिते ॥

6.73.46

मनसस् स्पन्दनं प्राणः प्राणस्य स्पन्दनं मनः ।
एते विहरतो नित्यम् अन्योऽन्यं रथसारथी ॥

6.73.47

आधाराधेयवत् त्व् एते एकाभावे विनश्यतः ।
कुरुतश् च स्वनाशेन कार्यं मोक्षाख्यम् उत्तमम् ॥

6.73.48

एकतत्त्वघनाभ्यासाच् छान्तं शाम्यत्य् अलं मनः ।
तल्लयत्वात् स्वभावस्य तेन प्राणो ऽपि शाम्यति ॥

6.73.49

विचार्य यद् अनन्तात्मतत्त्वं तन्मयतां नयेत् ।
मनस् ततस् तल्लयतस् तद् एव भवति स्थिरम् ॥

6.73.50

यद् एवातितरां श्रेयो ऽनुपलम्भोपलम्भयोः ।
द्वयोर् अप्य् असतोस् तत्र शेषे वापि स्थिरो भव ॥

6.73.51

एकस्मिन् सुदृढे तत्त्वे तावद् भावं विभावयेत् ।
भावो ऽभावत्वम् आयाति स्वाभ्यासाद् यावद् आततम् ॥

6.73.52

प्रत्याहारवशाच् चेतस् स्वयं भोग्यक्षयाद् इव ।
विलीयते सह प्राणैः परम् एवावशिष्यते ॥

6.73.53

यदेकतानं भवति चेतस् तद् भवति क्षणात् ।
शान्ताशेषविशेषौघं चिराभ्यासस्वभावतः ॥

6.73.54

अविद्येयं तु नास्तीति बुद्ध्वा युक्तियुतं धिया ।
ज्ञानाद् एव परावाप्तिस् तदभ्यासस् ततो वरम् ॥

6.73.55

चित्ते शान्ते शाम्यतीयं संसारमृगतृष्णिका ।
जराम् उपगते मेघे मिहिका महती यथा ॥

6.73.56

चित्तमात्रम् अविद्येति कुरु तेनैव तत्क्षयम् ।
तद्रूपनाम चित्तात्मानुभावो हि परं पदम् ॥

6.73.57

मुहूर्तम् एव निर्वाणं यदि चेतः परे पदे ।
तत् तत्परिणतं विद्धि तत्रैवास्वादम् आगतम् ॥

6.73.58

यदि साङ्ख्येन विश्रान्तं चेतो योगेन वा पदे ।
क्षणं तत् सत्त्वतां यातं न भूयः परिजायते ॥

6.73.59

चेतो विगलिताविद्यं सत्त्वशब्देन कथ्यते ।
दग्धं संसारबीजं तन् न दद्याद् अङ्कुरं पुनः ॥

6.73.60

ज्ञश् चिद्विगलिताविद्यस् सत्त्वस्थश् शान्तवासनः ।
समं शून्योपमं शान्तं ज्योतिः पश्यति शाम्यति ॥

6.73.61

विगलिताज्ञपदं विमलं मनस् सुभग सत्त्वम् इतीह हि कथ्यते ।
न पुनर् एति कलामलिनं पदं कनकताम् इव ताम्रम् उपागतम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc