भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.74

6.74.1

जीवो ऽजीवीभवत्य् आशु याति चित्तम् अचित्तताम् ।
विचाराद् इत्य् अविद्यान्तो मोक्ष इत्य् अभिधीयते ॥

6.74.2

मृगतृष्णाजलम् इव सर्गो ऽहन्तादि दृश्यते ।
असद् एव मनाग् एव तद् विचारात् प्रलीयते ॥

6.74.3

संसृतिस्वप्नविश्रान्तौ वेतालोदाहृतान् इमान् ।
प्रश्नान् आकर्णय शुभान् प्रसङ्गात् स्मृतिम् आगतान् ॥

6.74.4

अस्ति विन्ध्यमहाटव्यां वेतालो विपुलाकृतिः ।
स किञ्चिन् मण्डलं गर्धाद् आजगाम जिघत्सया ॥

6.74.5

स वेतालो ऽवसत् पूर्वं कस्मिंश्चित् सज्जनास्पदे ।
बहुबल्युपहारेण नित्यतृप्ततया सुखी ॥

6.74.6

निर्निमित्तं निरागस्कं न तेनासौ पुरोगतम् ।
क्षुधितो ऽपि नरं हन्ति सङ्गो हि न्यायदैशिकः ॥

6.74.7

स कालेनाटवीगेहो जगाम नगरान्तरम् ।
न्याययुक्त्या जनं भोक्तुं क्षुधा समभिचोदितः ॥

6.74.8

तत्र प्राप स भूपालं रात्रिचर्याविनिर्गतम् ।
तम् आह घनघोरेण शब्देनोग्रनिशाचरः ॥

6.74.9

राजंल् लब्धो ऽसि भीमेन वेतालेन मयाधुना ।
क्व गच्छसि विनष्टो ऽसि भवान् भोजनम् अद्य मे ॥

6.74.10

भो रात्रिचर निर्न्यायं मां चेद् अत्सि बलाद् इह ।
तत् ते सहस्रधा मूर्धा स्फुटिष्यति न संशयः ॥

6.74.11

न त्वाम् अद्म्य् अहम् अन्यायं न्यायो ऽयं तु मयोच्यते ।
राजासि सकलाशाश् च पूरणीयास् त्वयार्थिनाम् ॥

6.74.12

ममेमाम् अर्थितां राजन् सम्भवार्थं प्रपूरय ।
प्रश्नान् इमान् मयोक्तांस् त्वं सम्यग् व्याख्यातुम् अर्हसि ॥

6.74.13

कस्य सूर्यस्य रश्मीनां ब्रह्माण्डान्य् अणवः कृशाः ।
कस्मिन् स्फुरन्ति पवने महागगनरेणवः ॥

6.74.14

स्वप्नात् स्वप्नान्तरं गच्छञ् शतशो ऽथ सहस्रशः ।
त्यजन् न त्यजति स्वच्छं कस् स्वरूपं प्रभासुरम् ॥

6.74.15

रम्भास्तम्भो यथा पत्त्रमात्रम् एव पुनः पुनः ।
अन्तर् अन्तस् तथान्तश् च तथा को ऽणुस् स एव हि ॥

6.74.16

ब्रह्माण्डाकाशभूतौघसूर्यमण्डलमेरवः ।
अपरित्यजतो ऽणुत्वं कस्याणोः परमाणवः ॥

6.74.17

कस्यानवयवस्यैव परमाणुमहागिरेः ।
शिलान्तर् निबिडैकान्तरूपो मज्जा जगत्त्रयी ॥

6.74.18

इति कथयसि चेन् न मे दुरात्मंस् तद् इह निगीर्य भवन्तम् आत्मघातिन् ।
फलम् इव तव मण्डलं ग्रसेयं प्रसभम् उपेत्य जगद् यथा कृतान्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc