मोक्षोपाय · अध्याय 6.72
सुषुप्तमौनवान् भूत्वा धूत्वा द्वित्वैकरूपिणीम् ।
कलनां कान्त चिद्रूपस् तिष्ठावष्टभ्य तत् पदम् ॥
वाङ्मौनम् अक्षमौनं च काष्ठमौनं च वेद्म्य् अहम् ।
सुषुप्तमौनं मौनेशं ब्रह्मन् ब्रूहि किम् उच्यते ॥
द्विविधः प्रोच्यते राम मुनिर् मुनिवरैर् इह ।
एकः काष्ठतपस्वी च जीवन्मुक्तस् तथेतरः ॥
अभावितात्मा शुष्कायां क्रियायां बद्धनिश्चयः ।
हठाज् जितेन्द्रियग्रामो मुनिस् स्यात् काष्ठतापसः ॥
यथाभूतम् इदं बुद्ध्वा भावितात्मात्मनि स्थितः ।
लोकोपमो ऽपि तृप्तो ऽन्तर् यस् स मुक्तमुनिस् स्मृतः ॥
एतयोर् यो भवेद् भावश् शान्तयोर् मुनिनाथयोः ।
चित्तनिश्चयरूपात्मा मौनशब्देन स स्मृतः ॥
चतुष्प्रकारम् आहुस् तन् मौनं मौनविदो जनाः ।
वाङ्मौनम् अक्षमौनं च काष्ठं सौषुप्तम् एव च ॥
वाङ्मौनं वचसां रोधो बलाद् इन्द्रियनिग्रहः ।
अक्षमौनं परित्यागश् चेष्टानां काष्ठसञ्ज्ञकम् ॥
मनोमौनं पञ्चमं यत् तन् मृते काष्ठतापसे ।
भवेत् सुषुप्तमौनाख्यं जीवन्मुक्ते हि जीवति ॥
त्रिषु मौनविशेषेषु विषयः काष्ठतापसः ।
सुषुप्तमौनावस्थायाश् चतुर्थ्याश् चैव मुक्तधीः ॥
वाङ्मौनं मौनम् इत्य् एव सिद्धं तच् च मनःकला- ।
मलिनं जीवबन्धाय तत्रस्थाः काष्ठतापसाः ॥
हठाद् वा योगयुक्त्यैव यस् स्वाक्षाणां विनिग्रहः ।
तद् अक्षमौनम् इत्य् आहुस् तत्रस्थाः काष्ठतापसाः ॥
अस्मरन् संस्मरन् वापि दृश्यं वाग्द्वयम् अस्पृशन् ।
अपश्यन्न् एव पश्यन्तीं काष्ठमौनी हि तिष्ठति ॥
प्रस्फुरच्चित्तकलनम् एतन् मौनत्रयं स्मृतम् ।
सम्भवत्य् अज्ञमुनिषु न तु तज्ज्ञेषु लीलया ॥
नात्रोपादेयता ज्ञानाम् एतन् मौनत्रयं किल ।
लीलया हेलया वापि तज्ज्ञाः कुर्वन्ति वा न वा ॥
इदं सुषुप्तमौनं तु जीवन्मुक्तमतिस्थितम् ।
अपुनर्जन्मने जन्तोश् शृणु श्रवणभूषणम् ॥
नात्र संयम्यते वाणी त्रिविधा नापि चोज्झ्यते ।
नोल्लास्यन्ते न जीयन्ते समस्तेन्द्रियसंविदः ॥
नानाताकलनेयं हि न वल्गति न शाम्यति ।
चेतो न चेतो नाचेतो न सन् नासन् न खं न गौः ॥
अविभागम् अनायासं यद् अनाद्यन्तम् आसितम् ।
ध्यायतो धावतश् चैव सौषुप्तं मौनम् अङ्ग तत् ॥
यथाभूतम् इमं बुद्ध्वा जगन्नानात्वविभ्रमम् ।
यद् आसितम् असङ्गेहं सौषुप्तं मौनम् अङ्ग तत् ॥
अनेकसंविद्रूपात्म चैकम् एवेदम् आततम् ।
इत्य् आसितम् अनन्तं यत् सौषुप्तं मौनम् अङ्ग तत् ॥
आकाशं नैव चाकाशं सर्वम् अस्मि न चास्मि च ।
इति स्थितं समं शान्तं यत् तन् मौनं सुषुप्तवत् ॥
सर्वं शून्यं निरालम्बं शान्तं विज्ञप्तिमात्रकम् ।
न सन् नासद् इति स्वस्थम् आसितं मौनम् उत्तमम् ॥
भावाभावदशोन्मेषविशेषैर् वितथोत्थितैः ।
संविदो यद् अनामर्शस् तन् मौनं परमं विदुः ॥
असतैव सतेवान्तश् चेतसा वृत्तिरूपिणा ।
यद् अनावर्तनं संविद्वृत्तेस् तन् मौनम् अक्षयम् ॥
नाहम् अस्मि न चान्यो ऽस्ति न मनो न च मानसम् ।
इति संविदसंवित्तिर् अविच्छिन्नातिमौनता ॥
अहम् अस्मि जगच् चास्ति त्व् अस्तिशब्दार्थमात्रकम् ।
सत्तासामान्यम् एवेति सौषुप्तं मौनम् उच्यते ॥
सत्त्वात् संविद एवान्यास् स्वप्नादिकलनाः कुतः ।
अनन्तम् एव सौषुप्तं सर्वं मौनम् अतस् ततम् ॥
सुषुप्तमौनम् एवेदम् अनन्तत्वात् प्रबोधवत् ।
तुर्यम् एवामलं विद्धि तुर्यातीतम् अथापि वा ॥
सुषुप्तैकसमाधानस् तथा तुर्यसमाधिकः ।
तुर्यातीतसमाधिर् वा जाग्रत्य् अपि भवेत वै ॥
तुर्यस्थ एव सकलामलशान्तवृत्तिर् जाग्रत्य् अपि व्यवहरन् निपुणं स्वपित्वा ।
नित्यं सदेह उत वापि विदेह एव ब्राह्मं नभो भव तद् एव किलासि साधो ॥
ओम् इत्य् अपास्तभववासनम् एकम् आस्स्व न त्वं न चाहम् इति किञ्चिद् इहास्ति सत्यम् ।
सर्वं च विद्यत इतीह शिलान्तराभं ज्ञस् तिष्ठ चिद्गगनकोशकलैकनिष्ठः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0