मोक्षोपाय · अध्याय 6.71
मुनिनायक तं भिक्षुं गत्वा सम्बोधयन्त्व् अमी ।
नरा मत्प्रहिताश् शीघ्रं चीनबुद्धकुटीगतम् ॥
राजंस् तस्य महाभिक्षोस् स देहः प्राणवर्जितः ।
क्लेदं वैवर्ण्यम् आयातो नासौ जीवितभाजनम् ॥
तस्य भिक्षोश् च जीवो ऽसौ भूत्वा पद्मजसारसः ।
जीवन्मुक्तस् स्थितो भूयो नासौ संसृतिभाजनम् ॥
तद्गृहे मासपर्यन्ते बलान् निष्कासितार्गडाः ।
अन्तर् आलोकयिष्यन्ति भिक्षुम् अक्षुण्णमानसम् ॥
अन्येनैव स देहेन भिक्षुर् मुक्तो व्यवस्थितः ।
कथं प्रबोध्यते नष्टं तद्विहारे शरीरकम् ॥
एषा गुणमयी माया दुर्बोधेन दुरत्यया ।
नित्यं सत्यावबोधेन सुखेनैवातिवाह्यते ॥
असत्यैव कृतारम्भा हेम्नः कटकता यथा ।
प्रतिभासविपर्यासमात्रकारणकोदया ॥
परमात्मन एवेयम् इत्थं मायेति मीयते ।
तरङ्गतेव पयसि प्रेक्षामात्रविनाशिनी ॥
ज्ञो ऽपि दृश्यमयाद् दीर्घस्वप्नात् स्वप्नान्तरं व्रजन् ।
एवं नान्यत्वम् आयाति विवेकात् सर्वगात्मदृक् ॥
यो यो ऽस्य प्रतिभासस् स्याद् आत्मैव स स बोधतः ।
स एवोदेति संसारकरञ्जवनगुल्मदृक् ॥
प्रत्येकं भूतम् उदितं पृथक् संसारमण्डलम् ।
भिक्षोस् स्वप्नान्तरम् इव पराद् वीचिर् इवाम्भसः ॥
प्रसृतः पद्मजाद् एव जगत्स्वप्नो ऽयम् आदितः ।
तथैवाथ स्वचित्तोत्करूढस् सर्वजनं प्रति ॥
आपितामहम् आभाति सर्गस् स्वप्नविलासवत् ।
प्रत्येकम् उदितस् तेन ब्रह्माण्डानीह कोटिशः ॥
स्फुरन् परस्मिन् प्रत्येकं जीवः पश्यति विभ्रमम् ।
हृदये ऽर्थसमर्थं च स्वप्नवद् दीर्घम् आन्तरम् ॥
चित्सत्तामात्रसामान्यप्रतीतिच्युतिमात्रतः ।
जरामरणदुःखानां कश्चिद् भाजनतां गतः ॥
पातालं ब्रह्मलोकं वा चिच् चमत्कृतिशालिनी ।
चित्तांशस्पन्दमात्रेण कृत्वा कृत्वैव संस्थिता ॥
चित् स्पन्दरूपिणी जीवनाम्नागत्यात्मनात्मनि ।
अन्यत्रान्येव लुठति भूत्वा सम्भ्रमभारिणी ॥
बिभेषि परमात्मात्मा परमात्मन एव किम् ।
जीवदेहादिनाम्नो ऽस्मात् प्रतिबिम्बाद् इवार्भकः ॥
ब्रह्मण्य् एव परं ब्रह्म जगद्दृष्ट्यैव सत् स्थितम् ।
शुद्धाकाशम् इवाकाशे जले जलम् इवामलम् ॥
लोको ब्रह्मण एवायं जगद्रूपेण तिष्ठतः ।
बिभेत्य् अन्यतयोपात्तात् प्रतिबिम्बाद् इवार्भकः ॥
स्पन्दे ऽस्पन्दीकृते बोधाच् चितस् सञ्ज्ञा विलीयते ।
साप्य् अलं परिणामेन लीयते ऽग्नौ घृतं यथा ॥
चित्स्पन्द एव चित्स्पन्दे सर्वात्मात्मनि जृम्भते ।
स्पन्दास्पन्दौ जृम्भणादि कल्पितं नात्र वास्तवम् ॥
न स्पन्दो ऽस्तीह नास्पन्दो नैकता नापि च द्विता ।
शुद्धचिन्मात्रम् एवास्ति सर्वं चास्ति यथास्थितम् ॥
परेण परिणामेन सर्गाहन्तार्थयोश् शमे ।
चिन्मात्रम् अपि नास्त्य् एव नास्तीत्य् अपि न विद्यते ॥
भेदभावनयोदेति भेदः प्रकृतिलाञ्छनः ।
अभेदबोधाद् अखिले गलिते शिष्यते परम् ॥
नानातेहास्त्य् अबोधेन सो ऽबोधो ऽस्त्य् अनवेक्षणात् ।
प्रेक्षकश् चैव नास्त्य् एव तस्मान् निश्शङ्कता परा ॥
नातस् स्वप्नो न जाग्रच्छ्रीर् न सुषुप्तं न तुर्यता ।
न बन्धो ऽस्ति न मोक्षो ऽस्ति नान्यद् वा कलनात्मकम् ॥
शान्तिर् एका जगन्नाम्नी शान्ताव् इयम् अवस्थिता ।
अबोधो ऽसत्य एवातः क्व दृश्यद्रष्टृदर्शनम् ॥
स्पन्दो ऽप्य् अस्पन्द एवास्या निस्सङ्कल्पतया चितेः ।
न स्पन्दास्पन्दयोर् भिन्ना सङ्कल्परहितैव चित् ॥
द्वित्वैक्यादिकलारूपस् सङ्कल्पश् चित्तभावनम् ।
स चाभावनमात्रेण गलति ब्रह्म शिष्यते ॥
चिच्चन्द्रबिम्बे सङ्कल्पकलङ्कस् स्फुरतीव यः ।
नासौ कलङ्कस् तद् विद्धि चिद्घनस्य घनं वपुः ॥
चिद्घनश् च न सन् नासत् स्थीयतां तत् तते पदे ।
इत्य् अशेषमहाबोधसारसङ्ग्रहणं कृतम् ॥
चिच्चन्द्रबिम्बात् सङ्कल्पकलङ्को ऽमृतविग्रहात् ।
त्वया भावेन सम्मृष्टो भावाभावक्षयात्मना ॥
भावाभावादिकलनां नीत्वा चिन्मयतां चिता ।
शमोल्लासविलासान्ते समम् आस्स्व यथासुखम् ॥
स्पन्दास्पन्दौ कल्पनाकल्पनांशौ चित्त्वान् नान्यौ चित् त्व् अनामा निरंशा ।
सर्वाकारानावृतिश् शान्तसत्ता सत्त्वापूर्णैकार्णवाभा स्थितेति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0